बृहत्संहिता/अध्यायः ९५

विकिस्रोतः तः
← अध्यायः ९४ बृहत्संहिता
अध्यायः ९५
वराहमिहिरः
अध्यायः ९६ →

९५ शाकुनौत्तराध्यायः ।।

 दिग्देशचेष्टास्वरवासरऋक्षमुहूर्तहोराकरणौदयांशान् ।
 चरस्थिर[क्.चिरस्थिर, क्ऽस्त्र्. चरस्थिर]उन्मिश्रबलाबलं च बुद्ध्वा फलानि प्रवदेद्रुतज्णः ।। ९५.०१ ।।

द्विविधं कथयन्ति संस्थितानाम्
आगामिस्थिरसंज्ञितं च कार्यम् ।
नृपदूतचरान्यदेशजातान्य्
अभिघातः स्वजनादि चऽगमऽख्यम् ।। ९५.०२ ।।

उद्बद्धसंग्रहणभोजनचौरवह्नि
वर्षौत्सवऽत्मजवधाः कलहो भयं च ।
वर्गः स्थिरो +अयं उदयैन्दुयुते स्थिरऋक्षे
विद्यात्स्थिरं चरगृहे च चरं यदुक्तम् ।। ९५.०३ ।।

 स्थिरप्रदेशौपलमन्दिरेषु सुरालये भूजलसन्निधौ च ।
 स्थिराणि कार्याणि चराणि यानि चलप्रदेशऽदिषु चऽगमाय ।। ९५.०४ ।।

आप्यौदयऋक्षक्षणदिग्जलेषु
पक्षावसानेषु च ये प्रदीप्ताः ।
सर्वे +अपि ते वृष्टिकरा रुवन्तः
शान्तो +अपि वृष्टिं कुरुते +अम्बुचारी ।। ९५.०५ ।।

आग्नेयदिग्लग्नमुहूर्तदेशेष्व्
अर्कप्रदीप्तो +अग्निभयाय रौति ।
विष्ट्यां यमऋक्षौदयकण्टकेषु
निष्पत्रवल्लीषु च दोषकृत्[क्.मोषकृत्] स्यात् ।। ९५.०६ ।।

ग्राम्यः प्रदीप्तः स्वरचेष्टिताभ्याम्
उग्रो रुवन्कण्टकिनि स्थितश्च ।
भौमऋक्षलग्ने यदि नैरृतीं च
स्थितो +अभितश्चेत्कलहाय दृष्टः ।। ९५.०७ ।।

लग्ने +अथ वाइन्दोर्भृगुभांशसंस्थे
विदिक्स्थितो +अधोवदनश्च रौति ।
दीप्तः स चेत्संग्रहणं करोति
योन्या तया या विदिशि प्रदिष्टा ।। ९५.०८ ।।

पुंराशिलग्ने विषमे तिथौ च
दिक्स्थः प्रदीप्तः शुकुनो नरऽख्यः ।
वाच्यं तदा संग्रहणं नराणां
मिश्रे भवेत्पण्डकसम्प्रयोगः ।। ९५.०९ ।।

एवं रवेः क्षेत्रनवांशलग्ने
लग्ने स्थिते वा स्वयं एव सूर्ये ।
दीप्तो +अभिधत्ते शकुनो विरौति[क्.विवासं]
पुंसः प्रधानस्य हि कारणं तत् ।। ९५.१० ।।

 प्रारम्भमाणेषु[क्.प्रारभ्यमाणेषु] च सर्वकार्येष्वर्कान्विताद्भाद्गणयेद्विलग्नम् ।
 सम्प्तद्विपच्चैति यथा क्रमेण सम्पद्विपच्चैति[क्.वाअपि] तथएव वाच्यम्[क्.वाच्या] ।। ९५.११ ।।

काणेनाक्ष्णा दक्षिणेनएति सूर्ये
चन्द्रे लग्नाद्द्वादशे चैतरेन ।
लग्नस्थे +अर्के पापदृष्टे +अन्ध एव
कुब्जः स्वऋक्षे श्रोत्रहीनो जडो वा ।। ९५.१२ ।।

क्रूरः षष्ठे क्रूरदृष्टो विलग्नाद्
यस्मिन्राशौ तद्गृहाङ्गे व्रणो +अस्य[क्.स्यात्] ।
एवं प्रोक्तं यन्मया जन्मकाले
चिह्नं रूपं तत्तदस्मिन्विचिन्त्यम् ।। ९५.१३ ।।

अतः परं लोकनिरूपितानि[क्.ओमित्स्फ़्रों
द्रव्येषु नानाअक्षरसंग्रहाणि ।
इष्टप्रणीतानि विभाजितानि
नामानि केन्द्रक्रमशः प्रवक्ष्ये ।। ९५.ॠ१ ।।

लग्नाम्बुसंस्थास्तनभःस्थितेषु
क्षेत्रेषु ये लग्नगता गृहांशाः ।
तेभ्यो +अक्षराण्यात्मगृहऽश्रयाणि
विन्द्याद्ग्रहाणां स्वगणक्रमेण ।। ९५.ॠ२ ।।

कवर्गपूर्वान्कुजशुक्रचान्द्रि
जीवार्कजानां प्रवदन्ति वर्गान् ।
यकारपूर्वाः शशिनो निरुक्ता
वर्णास्त्वकारप्रभवा रवेः स्युः ।। ९५.ॠ३ ।।

द्रेष्काणवृद्ध्या प्रवदन्ति नाम
त्रिपञ्चसप्ताक्षरं ओजराशौ ।
युग्मे तु विन्द्याद्द्विचतुष्कषट्कं
नामाक्षराणि ग्रहदृष्टिवृद्ध्या ।। ९५.ॠ४ ।।

वर्गोत्तमे द्व्यक्षरकं चरांशे
स्थिरऋक्षभागे चतुरक्षरं तत् ।
ओजेषु चएभ्यो विषमाक्षराणि
स्युर्द्विस्वभावेषु तु राशिवच्च ।। ९५.ॠ५ ।।

द्विमूर्तिसंज्ञे तु वदेद्द्विनाम
सौम्यईक्षिते द्विप्रकृतौ च राशौ ।
यावान्गणः स्वौदयगो +अंशकानां
तावान्ग्रहः संग्रहके +अक्षराणाम् ।। ९५.ॠ६ ।।

संयोगं आदौ बहुलेषु विन्द्यात्
कूटेषु संयोगपरं वदन्ति ।
स्वौच्चांशके द्विष्कृतं ऋक्षयोगाद्
गुर्वक्षरं तद्भवनांशके स्यात् ।। ९५.ॠ७ ।।

मात्राआदियुक्स्याद्ग्रहयुक्त्रिकोणे
द्रेष्काणपर्यायवदक्षरेषु ।
नभोबलेषुऊर्ध्वं अधो +अम्बुजेषु
ज्ञेयो *विसर्गस्तु बल[ऊ.विसर्गोअस्तबल]अन्वितेषु ।। ९५.ॠ८ ।।

शीर्षौदयेषुऊर्ध्वं उशन्ति मात्राम्
अधश्च पृष्ठौदयशब्दितेषु ।
तीर्यक्च विन्द्यादुभयौदये तां
दीर्घेषु दीर्घां इतरेषु चान्याम् ।। ९५.ॠ९ ।।

प्राग्लग्नतोयास्तनभःस्थितेषु
भेष्वंशकेभ्यो +अक्षरसंग्रहः स्यात् ।
क्रूरो +अक्षरं हन्ति चतुष्टयस्थो
दृष्ट्याअपि मात्रां च त्रिकोणगो वा ।। ९५.ॠ१० ।।

शुभग्रहस्तुऊर्जितवीर्यभागी
स्थानांशतुल्याक्षरदः स चौक्तः ।
पश्यन्स्थितः केन्द्रत्रिकोणयोर्वा
स्वौच्चे +अपि वर्णद्वयं आत्मभागे ।। ९५.ॠ११ ।।

क्षेत्रेश्वरे क्षीणबले +अंशके च
मात्राअक्षरं नाशं उपैति तज्जम् ।
असम्भवे +अप्युद्भवं एति तस्मिन्
वर्गऽद्यं उच्चांशयुजिईशदृष्टे ।। ९५.ॠ१२ ।।

केन्द्रे यथास्थानबलप्रकर्षं
क्षेत्रस्य तत्क्षेत्रपतेश्च बुद्ध्वा ।
कार्यो +अक्षराणां अनुपूर्वयोगो
मात्राआदिसंयोगविकल्पना च ।। ९५.ॠ१३ ।।

तत्रऽदिराश्यादिचतुर्विलग्नम्
आद्यंशकऽदिक्रमपर्यायेण ।
ग्रहांशकेभ्यः स्वगणाक्षराणाम्
अन्वर्थने प्राप्तिरियं विधार्या ।। ९५.ॠ१४ ।।

मेषे ककारो हिबुके यकारस्
तुले चकारो मकरे पकारः ।
मेषे छकारो हिबुके +अप्यकारस्
तुले खकारो मकरे फकारः ।। ९५.ॠ१५ ।।

मेषे टकारो हिबुके ठकारस्
तुले तकारो मकरे थकारः ।
मेषे तु रेफा हिबुके जकारस्
तुले बकारो मकरे गकारः ।। ९५.ॠ१६ ।।

आकारं आद्ये +अम्बुगते घकारम्
अस्ते भकारं मकरे झकारम् ।
लग्ने डकारं हिबुके दकारम्
अस्ते धकारं मकरे ढकारम् ।। ९५.ॠ१७ ।।

लग्ने ञकारो हिबुके मकारस्
तुले ङकारो मकरे लकारः ।
लग्ने ककारो हिबुके पकारस्
तुले चकारो मकरे इकारः ।। ९५.ॠ१८ ।।

लग्ने नकारो हिबुके तकारस्
तुले णकारो मकरे टकारः ।
इत्येतदुक्तं चरसंज्ञकस्य
वक्ष्ये स्थिराख्यस्य चतुष्टयस्य ।। ९५.ॠ१९ ।।

वृषे फकारो हिबुके खकारः
कीटे वकारो नृघटे छकारः ।
आद्यांशकेभ्यो मतिमान्विदध्याद्
अनुक्रमेण स्थिरसंज्ञकेषु ।। ९५.ॠ२० ।।

लग्ने बकारो हिबुके जकार
ईकारं अस्ते +अम्बरगे गकारः ।
वृषे थकारो हिबुके टकारः
कीटे डकारो नृघटे दकारः ।। ९५.ॠ२१ ।।

वृषे घकारो हिबुके शकारः
कीटे झकारो नृघटे भकारः ।
लग्ने जकारो हिबुके उकारः
कीटे ङकारो नृघटे मकारः ।। ९५.ॠ२२ ।।

लग्ने ढकारो +अथ जले णकारश्
चास्ते धकारो +अम्बरगे नकारः ।
वृषे षकारो हिबुके चकारः
कीटे पकारो नृघटे ककारः ।। ९५.ॠ२३ ।।

ऊकारं आहुर्वृषभे जले खम्
अस्ते फकारो नृघटे छकारः ।
अन्त्ये वृषे टं तं उशन्ति सिंहे
थं सप्तगे ठं प्रवदन्ति कुम्भे ।। ९५.ॠ२४ ।।

द्विमूर्तिसंज्ञे मिथुने जकाराः
षष्ठे बकारः प्रथमांशके स्यात् ।
धनुर्धरे +अस्तोपगते गकारो
मीनद्वये चाम्बरगे सकारः ।। ९५.ॠ२५ ।।

लग्ने घकारो हिबुके भकारश्
चास्ते झकारो +अम्बरमध्यगे ई ।
लग्ने दकारो हिबुके धकारम्
अस्ते डकारं विदुरम्बरे ढम् ।। ९५.ॠ२६ ।।

लग्ने मकारो हिबुके ङकारश्
अस्ते हकारो +अम्बरगे ञकारः ।
लग्ने पकारो जलगे चकार
ऐकारं अस्ते +अम्बरगे ककारः ।। ९५.ॠ२७ ।।

प्राग्लग्ने नं जलगे णं आहुर्
अस्तं गते टं नभसि स्थिते तम् ।
प्राग्लग्नगे खं जलगे यं आहुर्
अस्तं गते छं नभसि स्थिते फम् ।। ९५.ॠ२८ ।।

लग्ने जं ओकारं अथाम्बुसंस्थे
गं अस्तसंस्थे विदुरम्बरे बम् ।
ठं लग्नगे +अन्त्ये हिबुकाश्रिते डं
थं अस्तगे दं नभसि स्थिते वै ।। ९५.ॠ२९ ।।

एवं विकल्पो +अक्षरसंग्रहो +अयं
नाम्नां निरुद्दिष्टविधान उक्तः ।
सर्वेषु लग्नेषु च के चिदेवम्
इच्छन्ति पूर्वौक्तविधानवत्तु ।। ९५.ॠ३० ।।

केन्द्राणि वा केन्द्रगतांशकैः स्वैः
पृथक्पृथक्संगुणितानि कृत्वा ।
त्रिकृद्विभक्तं विदुरक्षरं तत्
क्षेत्रईश्वरस्याम्शपरिक्रमस्वम् ।। ९५.ॠ३१ ।।

संचिन्तितप्रार्थितनिर्गतेषु
नष्टक्षतस्त्रीरतिभोजनेषु ।
स्वप्नऋक्षचिन्तापुरुषादिवर्गेष्व्
एतेषु नामान्युपलक्षयेत ९५.ॠ३२ ।।

द्व्यक्षरं चरगृहांशकौदये
नाम चास्य चतुरक्षरं स्थिरे ।
नामयुग्मं अपि च द्विमूर्तिषु
त्र्यक्षरं भवति चास्य पञ्चभिः ।। ९५.१४ ।।

कऽद्यास्तु वर्गाः कुजशुक्रसौम्य
जीवार्कजानां क्रमशः प्रदिष्टाः ।
वर्णाष्टकं यऽदि च शीतरश्मे
रवेरकारात्क्रमशः स्वराः स्युः ।। ९५.१५ ।।

नामानि चाग्न्यम्बुकुमारविष्णु
शक्रैन्द्रपत्नीचतुराननानाम् ।
तुल्यानि सूर्यात्क्रमशो विचिन्त्य
द्वित्र्यादिवर्णैर्घटयेत्स्वबुद्ध्या ।। ९५.१६ ।।

वयांसि तेषां स्तनपानबाल्य
व्रतस्थिता यौवनमध्यवृद्धाः ।
अतीववृद्धा इति चन्द्रभौम
ज्ञशुक्रजीवार्कशनैश्चराणाम् ।। ९५.१७ ।।