बृहत्संहिता/अध्यायः ९२

विकिस्रोतः तः
← अध्यायः ९१ बृहत्संहिता
अध्यायः ९२
वराहमिहिरः
अध्यायः ९३ →

९२ अश्वेङ्गिताध्यायः ।।

उत्सर्गान्न शुभदं *आसनात्परस्थं[क्.ऊ.आसनापरस्थं]
वामे च ज्वलनं अतो +अपरं प्रशस्तम् ।
सर्वाङ्गज्वलनं अवृद्धिदं हयानां
द्वे वर्षे दहनकणाश्च धूपनं वा ।। ९२.०१ ।।

अन्तःपुरं नाशं उपैति मेढ्रे
कोशः क्षयं यात्युदरे प्रदीप्ते ।
पायौ च पुच्छे च पराजयः स्याद्
वक्त्रौत्तमाङ्गज्वलने जयश्च ।। ९२.०२ ।।

स्कन्धऽसनांसज्वलनं जयाय
बन्धाय पादज्वलनं प्रदिष्टम् ।
ललाटवक्षो *+अक्षिभुजे च[क्.अक्षिभुजेषु] धूमः
पराभवाय ज्वलनं जयाय ।। ९२.०३ ।।

नासापुटप्रोथशिरो +अश्रुपात
नेत्रे च[क्.नेत्रेषु] रात्रौ ज्वलनं जयाय ।
पलाशताम्रासितकर्बुराणां
नित्यं शुकऽभस्य सितस्य चैष्टम् ।। ९२.०४ ।।

प्रद्वेषो यवसाम्भसां प्रपतनं स्वेदो निमित्ताद्विना
कम्पो वा वदनाच्च रक्तपतनं धूमस्य वा सम्भवः ।
अस्वप्नश्च विरोधिनां[क्.विरोधिता] निशि दिवा निद्राअलसध्यानता ।
सादो +अधोमुखता विचेष्टितं इदं नेष्टं स्मृतं वाजिनाम् ।। ९२.०५ ।।

 आरोहणं अन्यवाजिनां पर्याणऽदियुतस्य वाजिनः ।
 उपवाह्यतुरङ्गमस्य वा कल्पस्यएव विपन्नशोभना ।। ९२.०६ ।।

क्रौञ्चवद्रिपुवधाय ह्रेषितं[क्.हेषितं]
ग्रीवया त्वचलया च सौन्मुखम् ।
स्निग्धं उच्चं अनुनादि हृष्टवद्
ग्रासरुद्धवदनैश्च वाजिभिः ।। ९२.०७ ।।

पूर्णपात्रदधिविप्रदेवता
गन्धपुष्पफलकाञ्चनऽदि वा ।
द्रव्यं इष्टं अथ वा परं भवेद्
ध्रेषतां[क्.धेषतां] यदि समीपतो जयः ।। ९२.०८ ।।

भक्ष्यपानखलिनाभिनन्दिनः
पत्युरौपयिकनन्दिनो +अथ वा ।
सव्यपार्श्वगतदृष्टयो +अथ वा
वाञ्छितार्थफलदास्तुरङ्गमाः ।। ९२.०९ ।।

वामैश्च पादैरभिताडयन्तो महीं
प्रवासाय भवन्ति भर्तुः ।
सन्ध्यासु दीप्तां अवलोकयन्तो
ह्रेषन्ति[क्.हेषन्ति] चेद्बन्धपराजयाय ।। ९२.१० ।।

अतीव ह्रेषन्ति[क्.हेषन्ति] किरन्ति वालान्
निद्रारताश्च प्रवदन्ति यात्राम् ।
रोमत्यजो दीनखरस्वराश्च
पांशून्ग्रसन्तश्च भयाय दृष्टाः ।। ९२.११ ।।

समुद्गवद्दक्षिणपार्श्वशायिनः
पदं समुत्क्षिप्य च दक्षिणं स्थिताः ।
जयाय शेषेष्वपि वाहनेष्विदं
फलं यथासम्भवं आदिशेद्बुधः ।। ९२.१२ ।।

आरोहति क्षितिपतौ विनयौपपन्नो
यात्राअनुगो +अन्यतुरगं प्रतिह्रेषते[क्.प्रतिहेषते] च ।
वक्त्रेण वा स्पृशति दक्षिणं आत्मपार्श्वं
यो +अश्वः स भर्तुरचिरात्प्रचिनोति लक्ष्मीम् ।। ९२.१३ ।।

मुहुर्मुहुर्मूत्रशकृत्करोति
न ताड्यमानो +अप्यनुलोमयायी ।
अकार्यभीतो +अश्रुविलोचनश्च
शिवं[क्.शुभम्] न भर्तुस्तुरगो +अभिधत्ते ।। ९२.१४ ।।

 उक्तं इदं हयचेष्टितं अत ऊर्ध्वं दन्तिनां प्रवक्ष्यामि ।
 तेषां तु दन्तकल्पनभङ्गम्लानऽदिचेष्टाभिः ।। ९२.१५ ।।