बृहत्संहिता/अध्यायः ९१

विकिस्रोतः तः
← अध्यायः ९० बृहत्संहिता
अध्यायः ९१
वराहमिहिरः
अध्यायः ९२ →

९१ गवेङ्गिताध्यायः ।।

गावो दीनाः पार्थिवस्याशिवाय
पादैर्भूमिं कुट्टयन्त्यश्च रोगान् ।
मृत्युं कुर्वन्त्यश्रुपूर्णऽयताक्ष्यः
पत्युर्भीतास्तस्करानारुवन्त्यः ।। ९१.०१ ।।

 अकारणे क्रोशति चेदनर्थो भयाय रात्रौ वृषभः शिवाय ।
 भृशं निरुद्धा यदि मक्षिकाभिस्तदाआशु वृष्टिं सरमात्मजैर्वा ।। ९१.०२ ।।

आगच्छन्त्यो वेश्म बम्भारवेण
संसेवन्त्यो गोष्ठवृद्ध्यै गवां गाः ।
आर्द्राङ्ग्यो वा हृष्टरोम्ण्यः प्रहृष्टा
धन्या गावः स्युर्महिष्यो +अपि चएवम् ।। ९१.०३ ।।