बृहत्संहिता/अध्यायः ९०

विकिस्रोतः तः
← अध्यायः ८९ बृहत्संहिता
अध्यायः ९०
वराहमिहिरः
अध्यायः ९१ →

९० मृगचेष्टिताध्यायः ।।

सीमागता वन्यमृगा रुवन्तः
स्थिता व्रजन्तो +अथ समापतन्तः ।
सम्प्रत्यतीतएष्यभयानि दीप्ताः
कुर्वन्ति शून्यं परितो भ्रमन्तः ।। ९०.०१ ।।

ते ग्राम्यसत्त्वैरनुवाश्यमाना
भयाय रोधाय भवन्ति वन्यैः ।
द्वाभ्यां अपि प्रत्यनुवाशितास्ते
वन्दि*ग्रहायै च[क्.ग्रहायैव] मृगा रुवन्ति[क्.भवन्ति] ।। ९०.०२ ।।

वन्ये सत्त्वे द्वारसंस्थे पुरस्य
रोधो वाच्यः सम्प्रविष्टे विनाशः ।
सूते मृत्युः स्याद्भयं संस्थिते च
गोहं याते बन्धनं सम्प्रदिष्टम् ।। ९०.०३ ।।