बृहत्संहिता/अध्यायः ८५

विकिस्रोतः तः
← अध्यायः ८४ बृहत्संहिता
अध्यायः ८५
वराहमिहिरः
अध्यायः ८६ →

८५ शाकुनाध्यायः ।।

 यत्शक्रशुक्र[क्.शुक्रशक्र]वागीशकपिष्ठलगरुत्मताम् ।
 मतेभ्यः प्राह ऋषभो भागुरेर्देवलस्य च ।। ८५.०१ ।।

 भारद्वाजमतं दृष्ट्वा यच्च श्रीद्रव्यवर्धनः ।
 आवन्तिकः प्राह नृपो महाराजाधिराजकः ।। ८५.०२ ।।

 सप्तर्षीणां मतं यच्च संस्कृतं प्राकृतं च यत् ।
 यानि चौक्तानि गर्गऽद्यैर्यात्राकारैश्च भूरिभिः ।। ८५.०३ ।।

 तानि दृष्ट्वा चकारैमं सर्वशाकुनसंग्रहम् ।
 वराहमिहिरः प्रीत्या शिष्याणां ज्ञानं उत्तमम् ।। ८५.०४ ।।

 अन्यजन्मान्तरकृतं कर्म पुंसां शुभाशुभम् ।
 यत्तस्य शकुनः पाकं निवेदयति गच्छताम् ।। ८५.०५ ।।

 ग्रामऽरण्याम्बुभूव्योमद्युनिशौभयचारिणः ।
 रुतयातईक्षितौक्तेषु ग्राह्याः पुंस्त्रीनपुंसकाः[क्.स्त्रीपुन्नपुंसकाः] ।। ८५.०६ ।।

 पृथग्जात्यनवस्थानादेषां व्यक्तिर्न लक्ष्यते ।
 सामान्यलक्षणौद्देशे श्लोकावृषिकृताविमौ ।। ८५.०७ ।।

 पीनौन्नतविकृष्टांसाः पृथुग्रीवाः सुवक्षसः ।
 स्वल्पगम्भीरविरुताः पुंआंसः स्थिरविक्रमाः ।। ८५.०८ ।।

 तनुउरस्कशिरोग्रीवाः सूक्ष्मऽस्यपदविक्रमाः ।
 प्रसक्तमृदुभाषिण्यः स्त्रियो +अतो +अन्यन्नपुंसकम् ।। ८५.०९ ।।

 ग्रामारण्यप्रचारऽद्यं लोकादेवौपलक्षयेत् ।
 संचिक्षिप्सुरहं वच्मि यात्रामात्रप्रयोजनम् ।। ८५.१० ।।

 पथ्यात्मानं नृपं सैन्ये पुरे चौद्दिश्य देवताम् ।
 सार्थे प्रधानं साम्ये[क्.साम्यं] स्याज्जातिविद्यावयो +अधिकम् ।। ८५.११ ।।

 मुक्तप्राप्तएष्यदर्कासु फलं दिक्षु तथाविधम् । ८५.१२अब् ।।

 अङ्गार[क्.अङ्गारि]दीप्तधूमिन्यस्ताश्च शान्तास्ततो +अपराः[क्.+अपरा, क्ऽस्त्र्. अपराः] ।। ८५.१२ ।।

 तत्पञ्चमदिशां तुल्यं शुभं त्रैकाल्यं आदिशेत् ।
 परिशेषदिशोर्[क्.परिशेषयोर्] वाच्यं यथासन्नं शुभाशुभम् ।। ८५.१३ ।।

 शीघ्रं आसन्ननिम्नस्थैश्चिरादुन्नतदूरगैः ।
 स्थानवृद्ध्युपघाताच्च तद्वद्ब्रूयात्फलं पुनः ।। ८५.१४ ।।

 क्षणतिथ्युडुवातार्कैर्देवदीप्तो यथोत्तरम् ।
 क्रियादीप्तो गतिस्थानभावस्वरविचेष्टितैः ।। ८५.१५ ।।

 दशधाएवं प्रशान्तो +अपि सौम्यस्तृणफलाशनः ।
 मांसामेध्याशने रौद्रो विमिश्रो +अन्नाशनः स्मृतः ।। ८५.१६ ।।

 हर्म्यप्रासादमङ्गल्यमनोज्ञस्थानसंस्थिताः ।
 श्रेष्ठा मधुरसक्षीरफलपुष्पद्रुमेषु च ।। ८५.१७ ।।

 स्वकाले गिरितोयस्था बलिनो द्युनिशाचराः ।
 क्लीबस्त्री*पुरुषा ज्ञेया[क्.पुरुशाश्च एषां] बलिनः स्युर्यथोत्तरम् ।। ८५.१८ ।।

 जवजातिबलस्थानहर्षसत्त्वस्वरान्विताः ।
 स्वभूमावनुलोमाश्च तदूनाः स्युर्विवर्जिताः ।। ८५.१९ ।।

 कुक्कुटैभपिरिल्यश्च शिखिवञ्जुलछिक्कराः ।
 बलिनः सिंहनादश्च कूटपूरी च पूर्वतः ।। ८५.२० ।।

 क्रोष्टुकौलूकहारीतकाककोकऋक्षपिङ्गलाः ।
 कपोतरुदितऽक्रन्दक्रूरशब्दाश्च याम्यतः ।। ८५.२१ ।।

 गोशशक्रौञ्चलोमाशहंसौत्क्रोशकपिञ्जलाः ।
 विडालौत्सववादित्रगीतहासाश्च वारुणाः ।। ८५.२२ ।।

 शतपत्रकुरङ्गऽखुमृगएकशफकोकिलाः ।
 चाषशल्यकपुण्याहघण्टाशङ्खरवा उदक् ।। ८५.२३ ।।

 न ग्राम्यो +अरण्यगो ग्राह्यो नऽरण्यो ग्राम्यसंस्थितः[क्.ग्रामसंस्थितः] ।
 दिवाचरो न शर्वर्यां न च नक्तंचरो दिवा ।। ८५.२४ ।।

 द्वन्द्वरोगार्दितत्रस्ताः कलहऽमिषकाङ्क्षिणः
 आपगान्तरिता मत्ता न ग्राह्याः शकुनाः क्व चित् ।। ८५.२५ ।।

 रोहिताश्वाज*वालेयाः कुरङ्ग[क्.वालेयकुरङ्ग]उष्ट्रमृगाः शशः ।
 निष्फलाः शिशिरे ज्ञेया वसन्ते काककोकिलौ ।। ८५.२६ ।।

 न तु भाद्रपदे ग्राह्याः सूकरश्ववृकऽदयः ।
 शारद्य[क्.शरद्य]अब्जादगोक्रौञ्चाः श्रावणे हस्तिचातकौ ।। ८५.२७ ।।

 व्याघ्रऋक्षवानरद्वीपिमहिषाः सबिलेशयाः ।
 हेमन्ते निष्फला ज्ञेया बालाः सर्वे विमानुषाः ।। ८५.२८ ।।

 ऐन्द्रानलदिशोर्मध्ये त्रिभागेषु व्यवस्थिताः ।
 कोशाध्यक्षानलाजीवितपोयुक्ताः प्रदक्षिणम् ।। ८५.२९ ।।

 शिल्पी भिक्षुर्विवस्त्रा स्त्री याम्यानलदिगन्तरे ।
 परतश्चापि मातङ्गगोपधर्मसमाश्रयाः ।। ८५.३० ।।

 नैरृतीवारुणीमध्ये प्रमदासूतितस्कराः ।
 शौण्डिकः शाकुनी हिंस्रो वायव्या[क्.वायव्य]पश्चिमान्तरे ।। ८५.३१ ।।

 विषघातकगोस्वामिकुहकज्ञास्ततः परम् ।
 धनवानीक्षणीकश्च मालाकारः परं ततः ।। ८५.३२ ।।

 वैष्णवश्चरकश्चएव वाजिनां रक्षणे रतः ।
 *द्वात्रिंशदेवं[क्.एवं द्वात्रिंशतो] भेदाः स्युः पूर्वदिग्भिः सहौदिताः ।। ८५.३३ ।।

 राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः ।
 राजाध्यक्षश्[क्.ऊ.गजाध्यक्षश्] च पूर्वाद्याः क्षत्रियऽद्याश्चतुर्दिशम् ।। ८५.३४ ।।

 गच्छतस्तिष्ठतो वाअपि दिशि यस्यां व्यवस्थितः ।
 विरौति शकुनो वाच्यस्तद्दिग्जेन समागमः ।। ८५.३५ ।।

 भिन्नभैरवदीनऽर्तपरुषक्षामजर्जराः ।
 स्वना[क्.स्वरा] नैष्टाः शुभाः शान्त[क्.शान्ता]हृष्टप्रकृतिपूरिताः ।। ८५.३६ ।।

 शिवा श्यामा रला छुच्छुः पिङ्गला गृहगोधिका ।
 सूकरी परपुष्टा च पुन्नामानश्च वामतः ।। ८५.३७ ।।

 स्त्रीसंज्ञा भासभषककपिश्रीकर्ण*धिक्कराः[क्.छिक्कराः] ।
 शिखिश्रीकण्ठपिप्पीकरुरुश्येनाश्च दक्षिणाः ।। ८५.३८ ।।

 क्ष्वेडऽस्फोटितपुण्याहगीतशङ्खाम्बुनिःस्वनाः ।
 सतूर्याध्ययनाः पुंवत्स्त्रीवदन्या गिरः शुभाः ।। ८५.३९ ।।

 ग्रामौ मध्यमषड्जौ तु गान्धारश्चैति शोभनाः ।
 षड्ज[क्.षड्जा]मध्यमगान्धारा ऋषभश्च स्वरा हिताः ।। ८५.४० ।।

 रुतकीर्तनदृष्टेषु भारद्वाजाजबर्हिणः ।
 धन्या नकुलचाषौ च सरटः पापदो +अग्रतः ।। ८५.४१ ।।

 जाहकाहिशशक्रोडगोधानां कीर्तनं शुभम् ।
 *रुतं सन्दर्शनं[क्.रतसन्दर्शनं] नैष्टं प्रतीपं वानरऋक्षयोः ।। ८५.४२ ।।

 ओजाः प्रदक्षिणं शस्ता मृगाः सनकुलाण्डजाः ।
 चाषः सनकुलो वामो भृगुराहापराह्णतः ।। ८५.४३ ।।

 छिक्करः कूटपूरी च पिरिली चाह्नि दक्षिणाः ।
 अपसव्याः सदा शस्ता दंष्ट्रिणः सबिलेशयाः ।। ८५.४४ ।।

 श्रेष्ठे हयसिते प्राच्यां शवमांसे च दक्षिणे ।
 कन्यकादधिनी पश्चादुदग्गोविप्रसाधवः ।। ८५.४५ ।।

 जालश्वचरणौ नैष्टौ प्राग्याम्यौ शस्त्रघातकौ ।
 पश्चादासवषण्ढौ च खलऽसनहलान्युदक् ।। ८५.४६ ।।

 कर्मसङ्गमयुद्धेषु प्रवेशे नष्टमार्गणे ।
 यानव्यस्तगता ग्राह्या विशेषश्चात्र वक्ष्यते ।। ८५.४७ ।।

 दिवा प्रस्थानवद्ग्राह्याः कुरङ्गरुरुवानराः ।
 अह्नश्च प्रथमे भागे चाषवञ्जुलकुक्कुटाः ।। ८५.४८ ।।

 पश्चिमे शर्वरीभागे नप्तृकौलूकपिङ्गलाः ।
 सर्व एव विपर्यस्ता ग्राह्याः सार्थेषु योषिताम् ।। ८५.४९ ।।

 नृपसन्दर्शने ग्राह्यः प्रवेशे +अपि प्रयाणवत् ।
 गिर्यरण्य*प्रवेशेषु[क्.प्रवेशे च] नदीनां चावगाहने ।। ८५.५० ।।

 वामदक्षिणगौ शस्तौ यौ तु तावग्रपृष्ठगौ ।
 क्रियादीप्तौ विनाशाय यातुः परिघसंज्ञितौ ।। ८५.५१च्द् ।।

 तावेव तु यथाभागं प्रशान्तरुतचेष्टितौ ।
 शकुनौ शकुनद्वारसंज्ञितावर्थसिद्धये ।। ८५.५२ ।।

 के चित्तु शकुनद्वारं इच्छन्त्युभयतः स्थितैः ।
 शकुनैरेकजातीयैः शान्तचेष्टाविराविभिः ।। ८५.५३ ।।

 विसर्जयति यद्येक एकश्च प्रतिषेधति ।
 स विरोधो +अशुभो यातुर्ग्राह्यो यो[क्.ऊ.वा] बलवत्तरः ।। ८५.५४ ।।

 पूर्वं प्रावेशिको[क्.प्रावेशेको] भूत्वा पुनः प्रास्थानिको भवेत् ।
 सुखेन सिद्धिं आचष्टे प्रवेशे तद्विपर्ययात्[क्.तद्विपर्ययः] ।। ८५.५५ ।।

 विसर्ज्य शकुनः पूर्वं स एव निरुणद्धि चेत् ।
 प्राह यातुररेर्मृत्युं डमरं रोगं एव वा ।। ८५.५६ ।।

 अपसव्यास्तु शकुना दीप्ता भयनिवेदिनः ।
 आरम्भे शकुनो दीप्तो वर्षान्तस्तद्भयङ्करः ।। ८५.५७ ।।

 तिथिवाय्वर्कभस्थानचेष्टादीप्ता यथाक्रमम् ।
 धनसैन्यबलाङ्गैष्टकर्मणां स्युर्भयङ्कराः ।। ८५.५८ ।।

 जीमूतध्वनिदीप्तेषु भयं भवति मारुतात् ।
 उभयोः सन्ध्ययोर्दीप्ताः शस्त्रौद्भवभयङ्कराः ।। ८५.५९ ।।

 चितिकेशकपालेषु मृत्युबन्धवधप्रदाः ।
 कण्टकीकाष्ठभस्मस्थाः कलहऽयासदुःखदाः ।। ८५.६० ।।

 अप्रसिद्धिं भयं वाअपि निःसाराश्मव्यवस्थिताः ।
 कुर्वन्ति शकुना दीप्ताः शान्ता याप्यफलास्तु ते ।। ८५.६१ ।।

 असिद्धिसिद्धिदौ ज्ञेयौ निर्हारऽहार[क्.निर्हादाहार]कारिणौ ।
 स्थानाद्रुवन्व्रजेद्यात्रां शंसते त्वन्यथागमम् ।। ८५.६२ ।।

 कलहः स्वरदीप्तेषु स्थानदीप्तेषु विग्रहः ।
 उच्चं आदौ स्वरं कृत्वा नीचं पश्चाच्च दोषकृत्[क्.मोषकृत्] ।। ८५.६३ ।।

 एकस्थाने रुवन्दीप्तः सप्ताहाद्ग्रामघातकः[क्.ग्रामघातकृत्] ।
 पुरदेशनरेन्द्राणां ऋत्वर्धायनवत्सरात् ८५.६४ ।।

 सर्वे दुर्भिक्षकर्तारः स्वजातिपिशिताशिनः[क्.अशनाः] ।।
 सर्पमूषकमार्जार*पृथुलोम[क्.पृथुरोम]विवर्जिताः ।। ८५.६५ ।।

 परयोनिषु गच्छन्तो मैथुनं देशनाशनाः ।
 अन्यत्र वेसरौत्पत्तेर्नृणां चाजातिमैथुनात् ।। ८५.६६ ।।

 बन्धघातभयानि स्युः पादऊरूमस्तकान्तिगैः ।
 शष्पापः[क्.अपशष्प]पिशितान्नादैर्*दोषवर्षक्षय[क्.वर्षमोषक्षत ऊ.दोषवर्षक्षत]ग्रहाः ।। ८५.६७ ।।

 क्रूरौग्रदोषदुष्टैश्च प्रधाननृपवृत्तकैः ।
 चिरकालेन[क्.चिरकालैश्च] दीप्ताद्यास्वागमो दिक्षु तन्नृणाम् ।। ८५.६८ ।।

 सद्रव्यो बलवांश्च स्यात्सद्रव्यस्यऽगमो भवेत् ।
 द्युतिमान्विनतप्रेक्षी सौम्यो दारुणवृत्तकृत् ।। ८५.६९ ।।

 विदिक्स्थः शकुनो दीप्तो वामस्थेनानुवाशितः ।
 स्त्रियाः संग्रहणं प्राह तद्दिगाख्यातयोनितः ।। ८५.७० ।।

 शान्तः पञ्चमदीप्तेन विरुतो विजयावहः ।
 दिग्नरऽगमकारी वा दोषकृत्तद्विपर्यये ।। ८५.७१ ।।

 वामसव्यगतो[क्.रुतो] मध्यः प्राह स्वपरयोर्भयम् ।
 मरणं कथयन्ति एते सर्वे समविराविणः ।। ८५.७२ ।।

 वृक्षाग्रमध्यमूलेषु गजाश्वरथिकऽगमः ।
 दीर्घाब्जमुषिताग्रेषु नरनौशिबिकाआगमः ।। ८५.७३ ।।

 शकटेनौन्नतस्थे वा[क्.च] छायास्थे छत्रसंयुते[क्.छत्रसम्युतः] ।
 एकत्रिपञ्चसप्ताहात्पूर्वऽद्यास्वन्तरासु च ।। ८५.७४ ।।

 सुरपतिहुतवहयमनिरृतिवरुणपवनैन्दुसङ्कराः *क्रमशः[क्.ओमित्तेद्] ।
 प्राच्याद्यानां पतयो दिशः पुमांसो +अङ्गना विदिशः ।। ८५.७५ ।।

 तरुतालीविदलाम्बरसलिलजशरचर्मपट्टलेखाः स्युः ।
 द्वात्रिंशत्प्रविभक्ते दिक्चक्रे तेषु कार्याणि ।। ८५.७६ ।।

 व्यायामशिखिनिकूजितकलहाम्भोनिगडमन्त्रगोशब्दाः ।
 वर्णास्तु[क्.च] रक्तपीतककृष्णसिताः कोणगा मिश्राः ।। ८५.७७ ।।

चिह्नं ध्वजो दग्धं अथ श्मशानं
दरी जलं पर्वतयज्ञघोषाः ।
एतेषु संयोगभयानि विन्द्याद्
अन्यानि वा स्थानविकल्पितानि ।। ८५.७८ ।।

स्त्रीणां विकल्पा बृहती कुमारी
व्यङ्गा विगन्धा त्वथ नीलवस्त्रा ।
कुस्त्री प्रदीर्घा विधवा च ताश्च
संयोगचिन्ता परिवेदिकाः स्युः ।। ८५.७९ ।।

पृच्छासु रूप्यकनकऽतुरभामिनीनां
मेषाव्ययानमखगोकुलसंश्रयासु ।
न्यग्रोधरक्ततरुरोध्रककीचकाख्याश्
चूतद्रुमाः खदिरबिल्वनगार्जुनाश्च ।। ८५.८० ।।