बृहत्संहिता/अध्यायः ८

विकिस्रोतः तः
← अध्यायः ७ बृहत्संहिता
अध्यायः ८
वराहमिहिरः
अध्यायः ९ →

८ बृहस्पतिचाराध्यायः ।।

 नक्षत्रेण सहौदयं उपगच्छति येन देवपतिमन्त्री ।
 तत्संज्ञं वक्तव्यं वर्षं मासक्रमेणएव ।। ८.०१ ।।

 वर्षाणि कार्त्तिकऽदीन्याग्नेयाद्भद्वयानुयोगीनि ।
 क्रमशस्त्रिभं तु पञ्चमं उपान्त्यं अन्त्यं च यद्वर्षम् ।। ८.०२ ।।

 शकटानलौपजीवकगोपीडा व्याधिशस्त्रकोपश्च ।
 वृद्धिस्तु रक्तपीतककुसुमानां कार्त्तिके वर्षे ।। ८.०३ ।।

 सौम्ये +अब्दे +अनावृष्टिर्मृगऽखुशलभाण्डजैश्च सस्यवधः ।
 व्याधिभयं मित्रैरपि भूपानां जायते वैरम् ।। ८.०४ ।।

 शुभकृज्जगतः पौषो निवृत्तवैराः परस्परं क्षितिपाः ।
 द्वित्रिगुणो धान्यार्घः पौष्टिककर्मप्रसिद्धिश्च ।। ८.०५ ।।

 पितृपूजापरिवृद्धिर्माघे हार्दिश्च सर्वभूतानाम् ।
 आरोग्यवृष्टिधान्यार्घसम्पदो मित्रलाभश्च ।। ८.०६ ।।

 फाल्गुनवर्षे विन्द्यात्क्व चित्क्व चित्क्षेमवृष्टिसस्यानि ।
 दौर्भाग्यं प्रमदानां प्रबलाश्चौरा नृपाश्चौग्राः ।। ८.०७ ।।

 चैत्रे मन्दा वृष्टिः प्रियं अन्नं क्षेमं अवनिपा मृदवः ।
 वृद्धिश्च कोशधान्यस्य भवति पीडा च रूपवताम् ।। ८.०८ ।।

 वैशाखे *धर्मरता[क्.धर्मपरा] विगतभयाः प्रमुदिताः प्रजाः सनृपाः ।
 यज्ञक्रियाप्रावृत्तिर्निष्पत्तिः सर्वसस्यानाम् ।। ८.०९ ।।

 ज्यैष्ठे जातिकुलधनश्रेणीश्रेष्ठा नृपाः सधर्मज्ञाः ।
 पीड्यन्ते धान्यानि च हित्वा कङ्गुं शमीजातिम् ।। ८.१० ।।

 आषाढे जायन्ते सस्यानि क्व चिदवृष्टिरन्यत्र ।
 योगक्षेमं मध्यं व्यग्राश्च भवन्ति भूपालाः ।। ८.११ ।।

 श्रावणवर्षे क्षेमं सम्यक्सस्यानि पाकं उपयान्ति ।
 क्षुद्रा ये *पाखण्डाः[क्.पाषण्डाः] पीड्यन्ते ये च तद्भक्ताः ।। ८.१२ ।।

 भाद्रपदे वल्लीजं निष्पत्तिं याति पूर्वसस्यं च ।
 न भवत्यपरं सस्यं क्व चित्सुभिक्षं क्वचिच्च भयम् ।। ८.१३ ।।

 आश्वयुजे +अब्दे +अजस्रं पतति जलं प्रमुदिताः प्रजाः क्षेमम् ।
 प्राणचयः प्राणभृतां सर्वेषां अन्नबाहुल्यम् ।। ८.१४ ।।

 उदगारोग्यसुभिक्षक्षेमकरो वाक्पतिश्चरन्भानाम् ।
 याम्ये तद्विपरीतो मध्येन तु मध्यफलदायी ।। ८.१५ ।।

 विचरन्भद्वयं इष्टस्तत्सार्धं वत्सरेण मध्यफलः ।
 सस्यानां विध्वंसी विचरेदधिकं यदि कदा चित् ।। ८.१६ ।।

 अनलभयं अनलवर्णे व्याधिः पीते रणऽगमः श्यामे ।
 हरिते च तस्करेभ्यः पीडा रक्ते तु शस्त्रभयम् ।। ८.१७ ।।

 धूमऽभे +अनावृष्टिस्त्रिदशगुरौ नृपवधो दिवा दृष्टे ।
 विपुले +अमले सुतारे रात्रौ दृष्टे प्रजाः स्वस्थाः ।। ८.१८ ।।

रोहिण्यो +अनलभं च वत्सरतनुर्नाभिस्त्वषाढद्वयं
सार्पं हृत्पितृदैवतं च कुसुमं शुद्धैः शुभं तैः फलम् ।
देहे क्रूरनिपीडिते +अग्न्यनिलजं नाभ्यां भयं क्षुत्कृतं
पुष्पे मूलफलक्षयो +अथ हृदये सस्यस्य नाशो ध्रुवम् ।। ८.१९ ।।

गतानि वर्षाणि शकेन्द्रकालाद्
धतानि रुद्रैर्गुणयेच्चतुर्भिः ।
नवाष्टपञ्चाष्ट(८५८९)युतानि कृत्वा
विभाजयेच्शून्यशरागरामैः(३७५०) ।। ८.२० ।।

लब्धेन[क्.फलेन] युक्तं शकभूपकालं
संशोध्य षष्ट्या विषयैर्विभज्य ।
युगानि नारायणपूर्वकाणि
लब्धानि शेषाः क्रमशः समाः स्युः ।। ८.२१ ।।

 एकैकं अब्देषु नवऽहतेषु दत्त्वा पृथग्द्वादशकं क्रमेण ।
 हृत्वा चतुर्भिर्वसुदेवताआद्यान्युडूनि शेषांशकपूर्वं अब्दम् ।। ८.२२ ।।

 विष्णुः सुरेज्यो बलभिद्धुताशस्त्वष्टौत्तरप्रोष्ठपदाअधिपश्च ।
 क्रमाद्युगेशाः पितृविश्व*सोम[क्.सोमाः]शक्रानलऽख्याश्विभगाः प्रदिष्टाः ।। ८.२३ ।।

 संवत्सरो +अग्निः परिवत्सरो +अर्क इदाआदिकः शीतमयूखमाली ।
 प्रजापतिश्चाप्यनुवत्सरः स्यादिद्वत्सरः शैलसुतापतिश्च ।। ८.२४ ।।

 वृष्टिः समाद्ये प्रमुखे द्वितीये प्रभूततोया कथिता तृतीये ।
 पश्चाज्जलं मुञ्चति यच्चतुर्थं स्वल्पौदकं पञ्चमं अब्दं उक्तम् ।। ८.२५ ।।

 चत्वारि मुख्यानि युगान्यथएषां विष्णुइन्द्रजीवानलदैवतानि ।
 चत्वारि मध्यानि च मध्यमानि चत्वारि चान्त्यान्यधमानि विन्द्यात् ।। ८.२६ ।।

 आद्यं धनिष्टांशं अभिप्रपन्नो माघे यदा यात्युदयं सुरेज्यः ।
 षष्ट्यब्दपूर्वः प्रभवः स नाम्ना *प्रपद्यते[क्.प्रवर्तते] भूतहितस्तदाब्दः ।। ८.२७ ।।

 क्व चित्त्ववृष्टिः पवनाग्निकोपः सन्तिईतयः श्लेष्मकृताश्च रोगाः ।
 संवत्सरे +अस्मिन्प्रभवे प्रवृत्ते न दुःखं आप्नोति जनस्तथाअपि ।। ८.२८ ।।

 तस्माद्द्वितीयो विभवः प्रदिष्टः शुक्लस्तृतीयः परतः प्रमोदः ।
 प्रजापतिश्चैति यथोत्तराणि शस्तानि वर्षाणि फलान्य्*अथएषाम्[क्.चैषाम्] ।। ८.२९ ।।

 निष्पन्नशालिइक्षुयवऽदिसस्यां भयैर्विमुक्तां उपशान्तवैराम् ।।
 संहृष्टलोकां कलिदोषमुक्तां क्षत्रं तदा शास्ति च भूतधात्रीम् ।। ८.३० ।।

 आद्यो +अङ्गिराः श्रीमुखभावसाआह्वौ *युवा सुधातेति[क्.युवाथ धातेति] युगे द्वितीये ।
 वर्षाणि पञ्चएव यथाक्रमेण त्रीण्यत्र शस्तानि समे परे द्वे ।। ८.३१ ।।

 त्रिष्व्*आद्यवर्षेषु[क्.अङ्गिराद्येषु, क्ऽस्त्र्. आद्यवर्षेषु] निकामवर्षी देवी निरातङ्क*भयश्[क्.भयाश्] च लोकः ।
 अब्दद्वये +अन्त्ये +अपि समा सुवृष्टिः किन्त्वत्र रोगाः समरऽगमश्च ।। ८.३२ ।।

 शाक्रे युगे पूर्वं अथईश्वरऽख्यं वर्षं द्वितीयं बहुधान्यं आहुः ।
 प्रमाथिनं विक्रमं अप्य्*अथान्यद्[क्.अतो +अन्यद्] वृषं च विन्द्याद्गुरुचारयोगात् ।। ८.३३ ।।

 आद्यं द्वितीयं च शुभे तु वर्षे कृतानुकारं कुरुतः प्रजानाम् ।
 पापः प्रमाथी वृषविक्रमौ तु सुभिक्षदौ रोगभयप्रदौ च ।। ८.३४ ।।

 श्रेष्ठं च चतुर्थस्य युगस्य पूर्वं यच्चित्रभानुं कथयन्ति वर्षम् ।
 मध्यं द्वितीयं तु सुभानुसञ्ज्ञं रोगप्रदं मृत्युकरं *न तं च[क्.न तच्च] ।। ८.३५ ।।

 तारणं तदनु भूरिवारिदं सस्यवृद्धि*मुदिताति[क्.मुदितं च]पार्थिवम् ।
 पञ्चमं व्ययं उशन्ति शोभनं मन्मथप्रबलं उत्सवऽकुलम् ।। ८.३६ ।।

 त्वाष्ट्रे युगे सर्वजिदाद्य उक्तः संवत्सरो +अन्यः खलु सर्वधारी ।
 तस्माद्विरोधी विकृतः खरश्च शस्तो द्वितीयो +अत्र भयाय शेषाः ।। ८.३७ ।।

 नन्दनो +अथ विजयो जयस्तथा मन्मथो +अस्य परतश्च दुर्मुखः ।
 कान्तं अत्र युग आदितस्त्रयं मन्मथः समफलो +अधमो +अपरः ।। ८.३८ ।।

 हेमलम्ब इति सप्तमे युगे स्याद्विलम्बि परतो विकारि च ।
 शर्वरीति तदनु प्लवः स्मृतो वत्सरो गुरुवशेन पञ्चमः ।। ८.३९ ।।

ईतिप्राया[क्.इतिप्रायः] प्रचुरपवना वृष्टिरब्दे तु पूर्वे
मन्दं सस्यं न बहुसलिलं वत्सरे +अतो द्वितीये ।
अत्युद्वेगः प्रचुरसलिलः स्यात्तृतीयश्चतुर्थो
दुर्भिक्षाय प्लव इति ततः शोभनो भूरितोयः ।। ८.४० ।।

 वैश्वे युगे *शोकहृद्[क्.शोभकृद्] इत्यथऽद्यः संवत्सरो +अतः शुभकृद्द्वितीयः ।
 क्रोधी तृतीयः परतः क्रमेण विश्वावसुश्चैति पराभवश्च ।। ८.४१ ।।

 पूर्वापरौ प्रीतिकरौ प्रजानां एषां तृतीयो बहुदोषदो +अब्दः ।
 अन्त्यौ समौ किन्तु पराभवे +अग्निः शस्त्रऽमयऽर्तिर्द्विजगोभयं च ।। ८.४२ ।।

 आद्यः प्लवङ्गो नवमे युगे +अब्दः स्यात्कीलको +अन्यः परतश्च सौम्यः ।
 साधारणो रोधकृदित्य्*अथएवं[क्.अथाब्दः] शुभप्रदौ कीलकसौम्यसंज्ञौ ।। ८.४३ ।।

 कष्टः प्लवङ्गो बहुशः प्रजानां साधारणे +अल्पं जलं ईतयश्च ।
 यः पञ्चमो रोधकृदित्यथाब्दश्चित्रं जलं तत्र च सस्यसम्पत् ।। ८.४४ ।।

 इन्द्राग्निदैवं दशमं युगं यत्*तत्रऽद्यवर्षं[क्.तराद्यमब्दं] परिधाविसंज्ञम् ।
 *प्रमादिनं विक्रमं अप्यतो +अन्यत्[क्.प्रमाद्यथानन्दमतः परं यत्] स्याद्राक्षसं चानलसंज्ञितं च ।। ८.४५ ।।

 परिधाविनि मध्यदेशनाशो नृपहानिर्जलं अल्पं अग्निकोपः ।
 अलसस्तु जनः प्रमादिसंज्ञे डमरं रक्तकपुष्पबीजनाशः ।। ८.४६ ।।

 *विक्रमः[क्.तत्परः] सकललोकनन्दनो राक्षसः क्षयकरो +अनलस्तथा ।
 ग्रीष्मधान्यजननो +अत्र राक्षसो वह्निकोपमरकप्रदो +अनलः ।। ८.४७ ।।

 एकादशे पिङ्गलकालयुक्तसिद्धार्थरौद्राः खलु दुर्मतिश्च ।
 आद्ये तु व्षृटिर्महती सचौरा श्वासो हनूकम्पयुतश्च कासः ।। ८.४८ ।।

 यत्कालयुक्तं तदनेकदोषं सिद्धार्थसंज्ञे बहवो गुणाश्च ।
 रौद्रो +अतिरौद्रः क्षयकृत्प्रदिष्टो यो दुर्मतिर्मध्यमवृष्टिकृत्सः ।। ८.४९ ।।

 भाग्ये युगे दुन्दुभिसंज्ञं आद्यं सस्यस्य वृद्धिं महतीं करोति ।
 *अङ्गारसंज्ञं[क्.उद्गारिसंज्ञं] तदनु क्षयाय नरेश्वराणां विषमा च वृष्टिः ।। ८.५० ।।

 रक्ताक्षं अब्दं कथितं तृतीयं तस्मिन्भयं दंष्ट्रिकृतं गदाश्च ।
 क्रोधं बहुक्रोधकरं चतुर्थं राष्ट्राणि शून्यीकुरुते विरोधैः ।। ८.५१ ।।

 क्षयं इति युगस्यान्त्यस्यान्त्यं बहुक्षयकारकं
जनयति भयं तद्विप्राणां कृषीबलवृद्धिदम् ।
उपचयकरं विट्शूद्राणां परस्वहृतां तथा
कथितं अखिलं षष्ट्यब्दे यत्तदत्र समासतः ।। ८.५२ ।।

 अकलुषांशुजटिलः पृथुमूर्तिः कुमुदकुन्दकुसुमस्फटिकऽभः ।
 ग्रहहतो न यदि सत्पथवर्ती *हितकरो[क्.हतकिरो] +अमरगुरुर्मनुजानाम् ।। ८.५३ ।।