बृहत्संहिता/अध्यायः ७२

विकिस्रोतः तः
← अध्यायः ७१ बृहत्संहिता
अध्यायः ७२
वराहमिहिरः
अध्यायः ७३ →

७२ छत्रलक्षणाध्यायः ।।

 निचितं तु[क्ऽस्त्र्. नु] हंसपक्षैः कृकवाकुमयूरसारसानां वा ।
 दौकूल्येन[क्.दौकूलेन] नवेन तु समन्ततश्छादितं शुक्लम् ।। ७२.०१ ।।

 मुक्ताफलैरुपचितं प्रलम्बमालाआविलं स्फटिकमूलम् ।
 षड्ढस्तशुद्धहैमं नवपर्वनगएकदण्डं तु ।। ७२.०२ ।।

 दण्डार्धविस्तृतं तत्समावृतं रत्नभूषितम्[क्.रत्नविभूषितम्, क्ऽस्त्र्. रत्नभूषितम्] उदग्रम् ।
 नृपतेस्तदातपत्रं कल्याणपरं विजयदं च ।। ७२.०३ ।।

 युवराजनृपतिपत्न्योः सेनापतिदण्डनायकानां च ।
 दण्डो +अर्धपञ्चहस्तः समपञ्च*कृतो +अर्ध[क्.कृतार्ध]विस्तारः ।। ७२.०४ ।।

 अन्येषां उष्णघ्नं प्रसादपट्टैर्विभूषितशिरस्कम् ।
 व्यालम्बिरत्नमालं छत्रं कार्यं तु[क्.च] मायूरम् ।। ७२.०५ ।।

 अन्येषां तु नराणां शीतऽतपवारणं तु चतुरस्रम्[क्.चतुरश्रम्] ।
 समवृत्तदण्डयुक्तं छत्रं कार्यं तु विप्राणाम् ।। ७२.०६ ।।