बृहत्संहिता/अध्यायः ७१

विकिस्रोतः तः
← अध्यायः ७० बृहत्संहिता
अध्यायः ७१
वराहमिहिरः
अध्यायः ७२ →

७१ चामरलक्षणाध्यायः ।।

देवैश्चमर्यः किल वालहेतोः
सृष्टा हिमक्ष्माधरकन्दरेषु ।
आपीतवर्णाश्च भवन्ति तासां
कृष्णाश्च लाङ्गूलभवाः सिताश्च ।। ७१.०१ ।।

स्नेहो मृदुत्वं बहुवालता[क्.वालता च]
वैशद्यं अल्पास्थिनिबन्धनत्वम् ।
शौक्ल्यं च तासां[क्.तेषां] गुणसम्पदुक्ता
विद्धाल्पलुप्तानि न शोभनानि ।। ७१.०२ ।।

अध्यर्धहस्तप्रमितो +अस्य दण्डो
हस्तो +अथ वाअरत्निसमो +अथ वाअन्यः ।
काष्ठात्शुभात्काञ्चनरूप्यगुप्ताद्
रत्नैश्*च सर्वैश्[क्.विचित्रैश्] च हिताय राज्ञाम् ।। ७१.०३ ।।

 यष्ट्यातपत्राङ्कुशवेत्रचापवितानकुन्तध्वजचामराणाम् ।
 व्यापीततन्त्रीमधुकृष्णवर्णा वर्णक्रमेणएव हिताय दण्डाः ।। ७१.०४ ।।

मातृभूधनकुलक्षयावहा
रोगमृत्युजननाश्च पर्वभिः ।
द्व्यादिभिर्द्विकविवर्धितैः क्रमात्
द्वादशान्तविरतैः समैः फलम् ।। ७१.०५ ।।

यात्राप्रसिद्धिर्द्विषतां विनाशो
लाभाः प्रभूता[क्.प्रभूतो] वसुधागमश्च ।
वृद्धिः पशूनां अभिवञ्छितऽप्तिस्
ञ्याद्येष्वयुग्मेषु तदीश्वराणाम् ।। ७१.०६ ।।