बृहत्संहिता/अध्यायः ६६

विकिस्रोतः तः
← अध्यायः ६५ बृहत्संहिता
अध्यायः ६६
वराहमिहिरः
अध्यायः ६७ →

६६ हस्तिलक्षणाध्यायः ।।

मध्वाभदन्ताः सुविभक्तदेहा
न च*उपदिग्धा न[क्.दिग्धाश्च] कृशाः क्षमाश्च ।
गात्रैः समैश्चापसमानवंशा
वराहतुल्यैर्जघनैश्च भद्राः ।। ६६.०१ ।।

वक्षो +अथ कक्षावलयः श्लथाश्च
लम्बौदरस्त्वग्बृहती गलश्च ।
स्थूला च कुक्षिः सह पेचकेन
सैंही च दृग्मन्दमतङ्गजस्य ।। ६६.०२ ।।

मृगास्तु ह्रस्वाधरवालमेढ्रास्
तन्वङ्घ्रि[क्.तन्वंह्रि]कण्ठद्विजहस्तकर्णाः ।
स्थूलईक्षणाश्चैति यथाउक्तचिह्नैः
सङ्कीर्णनागा व्यतिमिश्रचिह्नाः ।। ६६.०३ ।।

पञ्चौन्नतिः सप्त मृगस्य दैर्घ्यम्
अष्टौ च हस्ताः परिणाहमानम् ।
एकद्विवृद्धावथ मन्दभद्रौ
सङ्कीर्ननागो +अनियतप्रमाणः ।। ६६.०४ ।।

भद्रस्य वर्णो हरितो *मदश्च[क्.मदस्य]
मन्दस्य हारिद्रकसन्निकाशः ।
कृष्णो मदश्चाभिहितो मृगस्य
सङ्कीर्णनागस्य मदो विमिश्रः ।। ६६.०५ ।।

ताम्रओष्ठतालुवदनाः कलविङ्कनेत्राः
स्निग्धौन्नताग्रदशनाः पृथुलऽयतऽस्याः ।
चापौन्नतऽयतनिगूढनिमग्नवंशास्
तन्वेकरोमचितकूर्मसमानकुम्भाः ।। ६६.०६ ।।

विस्तीर्णकर्णहनुनाभिललाटगुह्याः
कूर्मौन्नतद्विनवविंशतिभिर्नखैश्च ।
रेखात्रयौपचितवृत्तकराः सुवाला
धन्याः सुगन्धिमदपुष्करमारुताश्च ।। ६६.०७ ।।

 दीर्घाङ्गुलिरक्तपुष्कराः सजलाम्भोदनिनादबृंहिणः ।
 बृहदायतवृत्तकन्धरा धन्या भूमिपतेर्मतङ्गजाः ।। ६६.०८ ।।

निमर्द[क्.ऊ.निर्मदा]अभ्यधिकहीननखाङ्गान्
कुब्जवामनकमेषविषाणान् ।
दृश्यकोशफलपुष्करहीनान्
श्यावनीलशबलासिततालून् ।। ६६.०९ ।।

स्वल्पवक्त्ररुहमत्कुणषण्ढान्
हस्तिनीं च गजलक्षणयुक्ताम् ।
गर्भिणी च नृपतिः परदेशं
प्रापयेदतिविरूपफलास्ते ।। ६६.१० ।।