बृहत्संहिता/अध्यायः ६३

विकिस्रोतः तः
← अध्यायः ६२ बृहत्संहिता
अध्यायः ६३
वराहमिहिरः
अध्यायः ६४ →

६३ कूर्मलक्षणाध्यायः ।।

स्फुटिकरजतवर्णो नीलराजीविचित्रः
कलशसदृशमूर्तिश्चारुवंशश्च कूर्मः ।
अरुणसमवपुर्वा सर्षपऽकारचित्रः
सकलनृपमहत्त्वं मन्दिरस्थः करोति ।। ६३.०१ ।।

 अञ्जनभृङ्गश्यामतनुर्वा बिन्दुविचित्रो +अव्यङ्गशरीरः ।
 सर्पशिरा वा स्थूलगलो यः सो +अपि नृपाणां राष्ट्रविवृद्ध्यै ।। ६३.०२ ।।

वैडूर्यत्विट्स्थूलकण्ठस्त्रिकोणो
गूढच्छिद्रश्चऊरु[क्.ऊ.चारु]वंशश्च शस्तः ।
क्रीडावाप्यां तोयपूर्णे मणौ वा
कार्यः कूर्मो मङ्गलार्थं नरेन्द्रैः ।। ६३.०३ ।।