बृहत्संहिता/अध्यायः ६२

विकिस्रोतः तः
← अध्यायः ६१ बृहत्संहिता
अध्यायः ६२
वराहमिहिरः
अध्यायः ६३ →

६२ कुक्कुटलक्षणाध्यायः ।।

 कुक्कुटस्त्वृजुतनूरुहाङ्गुलिस्ताम्रवक्त्रनखचूलिकः सितः ।
 रौति सुस्वरं उषात्यये च यो वृद्धिदः स नृपराष्ट्रवाजिनाम् ।। ६२.०१ ।।

यवग्रीवो यो वा बदरसदृशो वाअपि विहगो
बृहन्मूर्धा वर्णैर्भवति बहुभिश्च रुचिरः ।
स शस्तः संग्रामे मधुमधुपवर्णश्च जयकृद्
न शस्तो यो +अतो +अन्यः कृशतनुरवः खञ्जचरणः ।। ६२.०२ ।।

 कुक्कुटी च मृदुचारुभाषिणी स्निग्धमूर्तिरुचिरऽननईषणा ।
 सा ददाति सुचिरं महीक्षितां श्रीयशोविजयवीर्यसम्पदः ।। ६२.०३ ।।