बृहत्संहिता/अध्यायः ६१

विकिस्रोतः तः
← अध्यायः ६० बृहत्संहिता
अध्यायः ६१
वराहमिहिरः
अध्यायः ६२ →

६१ श्वलक्षणाध्यायः ।।

पादाः पञ्चनखास्त्रयो +अग्रचरणः षड्भिर्नखैर्दक्षिणस्
ताम्रओष्ठाग्रनसो मृगेश्वरगतिर्जिघ्रन्भुवं याति च ।
लाङ्गूलं ससटं दृगृक्षसदृशी कर्णौ च लम्बौ मृदू
यस्य स्यात्स करोति पोष्टुरचिरात्पुष्टां श्रियं श्वा गृहे ।। ६१.०१ ।।

पादे पादे पञ्च पञ्चाग्रपादे
वामे यस्याः षण्नखा मल्लिकाक्ष्याः ।
वक्रं पुच्छं पिङ्गलालम्बकर्णा
या सा राष्ट्रं कुक्कुरी पाति पुष्टा[क्.पोष्टुः] ।। ६१.०२ ।।