बृहत्संहिता/अध्यायः ६०

विकिस्रोतः तः
← अध्यायः ५९ बृहत्संहिता
अध्यायः ६०
वराहमिहिरः
अध्यायः ६१ →

६० गोलक्षणाध्यायः ।।

पराशरः प्राह बृहद्रथाय
गोलक्षणं यत्क्रियते ततो +अयम् ।
मया समासः शुभलक्षणास्ताः
सर्वास्तथा +अप्यागमतो +अभिधास्ये ।। ६०.०१ ।।

 सास्रऽविलरूक्षाक्ष्यो मूषकनयनाश्न शुभदा गावः ।
 प्रचलच्चिपिटविषाणाः करटाः खरसदृशवर्णाश्[क्.वर्नाः] च ।। ६०.०२ ।।

 दशसप्तचतुर्दन्त्यः प्रलम्बमुण्डऽनना विनतपृष्ठ्यः[क्.पृष्ठाः ऊ.पृष्ठः] ।
 ह्रस्वस्थूलग्रीवा यवमध्या दारितखुराश्च ।। ६०.०३ ।।

 श्यावातिदीर्घजिह्वा गुल्फैरतितनुभिरतिबृहद्भिर्वा ।
 अतिककुदाः कृशदेहा नैष्टा हीनाधिकाङ्ग्यश्च ।। ६०.०४ ।।

 वृषभो +अप्येवं स्थूलातिलम्बवृषणः शिराततक्रोडः ।
 स्थूलशिराचितगण्डस्त्रिस्थानं मेहते यश्च ।। ६०.०५ ।।

 मार्जाराक्षः कपिलः करटो वा न शुभदो द्विजस्यएव[क्.द्विजस्येष्टः] ।
 कृष्णओष्ठतालुजिह्वः श्वसनो यूथस्य घातकरः ।। ६०.०६ ।।

 स्थूलशकृन्मणिशृङ्गः सितौदरः कृष्णसारवर्णश्च ।
 गृहजातो +अपि त्याज्यो यूथविनाशऽवहो वृषभः ।। ६०.०७ ।।

 श्यामकपुष्पचिताङ्गो भस्मारुणसन्निभो बिडालाक्षः ।
 विप्राणां अपि न शुभं करोति वृषभः परिगृहीतः ।। ६०.०८ ।।

 ये चौद्धरन्ति पादान्पङ्कादिव योजिताः कृशग्रीवाः ।
 कातरनयना हीनाश्च पृष्ठतस्ते न भारसहाः ।। ६०.०९ ।।

 मृदुसंहतताम्रओष्ठास्तनुस्फिजस्ताम्रतालुजिह्वाश्च ।
 ह्रस्वतनु[क्.तनुह्रस्वो]उच्चश्रवणाः सुकुक्षयः स्पृष्ट[क्.स्पष्ट]जङ्घाश्च ।। ६०.१० ।।

 आताम्रसंहतखुरा व्यूढौरस्का बृहत्ककुदयुक्ताः ।
 स्निग्धश्लक्ष्णतनुत्वग्रोमाणस्ताम्रतनुशृङ्गाः ।। ६०.११ ।।

 तनुभूस्पृग्वालधयो रक्तान्तविलोचना महोच्छ्वासाः ।
 सिंहस्कन्धास्तन्वल्पकम्बलाः पूजिताः सुगमाः[क्.ऊ.सुगताः] ।। ६०.१२ ।।

 वामऽवर्तैर्वामे दक्षिणपार्श्वे च दक्षिणऽवर्तैः ।
 शुभदा भवन्त्यनडुहो जङ्घाभिश्चएणकनिभाभिः ।। ६०.१३ ।।

 वैदूर्य[क्.वैडूर्य]मल्लिकाबुद्बुदईक्षणाः स्थूलनेत्रपक्ष्माणः[क्.वर्माणः] ।
 पार्ष्णिभिरस्फुटितऽभिः शस्ताः सर्वे च[क्.अपि] भारसहाः ।। ६०.१४ ।।

 घ्राणोद्देशे सवलिर्मार्जारमुखः सितश्च दक्षिणतः ।
 कमलौत्पललाक्षाआभः सुवालधिर्वाजितुल्यजवः ।। ६०.१५ ।।

 लम्बैर्वृषणैर्मेषौदरश्च संक्षिप्तवंक्षण[क्.क्षणा]क्रोडः ।
 ज्ञेयो भाराध्वसहो जवे +अश्वतुल्यश्च शस्तफलः ।। ६०.१६ ।।

 सितवर्णः पिङ्गाक्षस्ताम्रविषाणईक्षणो महावक्त्रः ।
 हंसो नाम शुभफलो यूथस्य विवर्धनः प्रोक्तः ।। ६०.१७ ।।

 भूस्पृग्वालधिराताम्रविषाणो[क्.वङ्क्षणो] रक्तदृक्ककुद्मांश्[क्.ककुद्मी] च ।
 कल्माषश्च स्वामिनं अचिरात्कुरुते पतिं लक्ष्म्याः ।। ६०.१८ ।।

 यो वा सितैकचरणैर्[क्.सितैकचरणो] यथेष्टवर्णश्च सो +अपि शुभफलकृत्[क्.शस्तफलः] ।
 मिश्रफलो +अपि ग्राह्यो यदि नएकान्तप्रशस्तो +अस्ति ।। ६०.१९ ।।