बृहत्संहिता/अध्यायः ५०

विकिस्रोतः तः
← अध्यायः ४९ बृहत्संहिता
अध्यायः ५०
वराहमिहिरः
अध्यायः ५१ →

५० अङ्गविद्याध्याय ।।

दैवज्ञेन शुभाशुभं दिगुदितस्थानऽहृतानीक्षता
वाच्यं प्रष्टृनिजापराङ्गघटनां चऽलोक्य कालं धिया ।
सर्वज्ञो हि चराचरऽत्मकतयाअसौ सर्वदर्शो विभुश्
चेष्टाव्याहृतिभिः शुभाशुभफलं सन्दर्शयत्यर्थिनाम् ।। ५०.०१ ।।

स्थानं पुष्पसुहासिभूरिफलभृत्सुस्निग्धकृत्तिच्छद
असत्पक्षिच्युतशस्तसंज्ञिततरुच्छायौपगूढं समम् ।
देवऋषिद्विजसाधुसिद्धनिलयं सत्पुष्पसस्यौक्षितम्
सत्स्वादुउदकनिर्मलत्वजनितऽह्लादं च *सच्छाद्वलम्[क्.सच्छाड्वलम्] ।। ५०.०२ ।।

 छिन्नभिन्नकृमिखातकण्टकिप्लुष्टरूक्षकुटिलैर्न सत्कुजैः ।
 क्रूरपक्षियुतनिन्द्यनामभिः शुष्कशीर्णबहुपर्ण*चर्मभिः[क्.वर्मभिः] ।। ५०.०३ ।।

श्मशानशून्यायतनं चतुष्पथं
तथा+अमनोज्ञं विषमं सदऊषरम् ।
अवस्कराङ्गारकपालभस्मभिश्
चितं तुषैः शुष्कतृणैर्नशोभनम् ।। ५०.०४ ।।

 प्रव्रजितनग्ननापितरिपुबन्धन*सौनिकैस्[क्.सूनिकैस्] तथा श्वपचैः ।
 कितवयतिपीडितैर्युतं आयुधमाध्वीकविक्रयैर्न शुभम् ।। ५०.०५ ।।

प्रागुत्तरईशाश्च दिशः प्रशस्ताः
प्रष्टुर्न वाय्वम्बुयमाग्निरक्षः ।
पूर्वाह्नकाले +अस्ति शुभं न रात्रौ
सन्ध्याद्वये प्रश्नकृतो +अपराह्णे ।। ५०.०६ ।।

यात्राविधाने हि शुभाशुभं यत्
प्रोक्तं निमित्तं तदिहापि वाच्यम् ।
दृष्ट्वा पुरो वा जनताहृतं वा
प्रष्टुः स्थितं पाणितले +अथ वस्त्रे ।। ५०.०७ ।।

अथाङ्गान्यूरूओष्ठस्तनवृषणपादं च दशना
भुजौ हस्तौ गण्डौ कचगलनखाङ्गुष्ठं अपि यत् ।
सशङ्खं *कक्षांसं श्रवण[क्.कषांसश्रवण]गुदसन्धिइति पुरुषे
स्त्रियां भ्रूनासास्फिग्वलिकटिसुलेखाअङ्गुलिचयम् ।। ५०.०८ ।।

जिह्वा ग्रीवा पिण्डिके पार्ष्णियुग्मं
जङ्घे नाभिः कर्णपाली कृकाटी ।
वक्त्रं पृष्ठं जत्रुजानुअस्थिपार्श्वं
हृत्तालुअक्षी मेहनौरस्त्रिकं च ।। ५०.०९ ।।

 नपुंसकऽख्यं च शिरो ललाटं आश्वाद्यसंज्ञैरपरैश्चिरेण ।
 सिद्धिर्भवेज्जातु नपुंसकैर्नो रूक्षक्षतैर्भग्नकृशैश्च पूर्वैः ।। ५०.१० ।।

 स्पृष्टे वा चालिते वाअपि पादाङ्गुष्ठे +अक्षिरुग्भवेत् ।
 अङ्गुल्यां दुहितुः शोकं शिरोघाते नृपाद्भयम् ।। ५०.११ ।।

 विप्रयोगं उरसि स्वगात्रतः कर्पटाहृतिरनर्थदा भवेत् ।
 स्यात्प्रियाप्तिरभिगृह्य कर्पटं पृच्छतश्चरणपादयोजितुः ।। ५०.१२ ।।

 पादाङ्गुष्ठेन विलिखेद्भूमिं क्षेत्रौत्थचिन्तया ।
 हस्तेन पादौ कण्डूयेत्तस्य *दासीमयी[क्.दासीमया] च सा ।। ५०.१३ ।।

 तालभूर्जपटदर्शने +अंशुकं चिन्तयेत्कचतुषास्थिभस्मगम् ।
 व्याधिराश्रयति रज्जुजालकं वल्कलं च समवेक्ष्य बन्धनम् ।। ५०.१४ ।।

 पिप्पलीमरिचशुण्ठिवारिदै रोध्रकुष्ठवसनाम्बुजीरकैः ।
 गन्धमांसिशतपुष्पया वदेत्पृच्छतस्तगरकेण *चिन्तयेत्[क्.चिन्तनम्] ।। ५०.१५ ।।

 स्त्रीपुरुषदोषपीडितसर्व*अर्थ[क्.अध्व]सुतार्थधान्यतनयानाम् ।
 द्विचतुष्पदक्षितीनां विनाशतः कीर्तितैर्दृष्टैः ।। ५०.१६ ।।

 न्यग्रोधमधुकतिन्दुकजम्बूप्लक्षऽम्र*बदर[क्.बदरि]जातिफलैः ।
 धनकनकपुरुषलोहांशुकरूप्य*औदुम्बरऽप्तिर्[क्.उदुम्बराप्तिर्] अपि करगैः ।। ५०.१७ ।।

 धान्यपरिपूर्णपात्रं कुम्भः पूर्णः कुटुम्बवृद्धिकरौ ।
 गजगोशुनां पुरीषं धनयुवतिसुहृद्विनाशकरम् ।। ५०.१८ ।।

 पशुहस्तिमहिषपङ्कजरजतव्याघ्रैर्लभेत सन्दृष्टैः ।
 अविधननिवसनमलयजकौशेयऽभरणसङ्घातम् ।। ५०.१९ ।।

 पृच्छा वृद्धश्रावकसुपरिव्राड्दर्शने नृभिर्विहिता ।
 मित्रद्यूतार्थभवा गणिकानृपसूतिकाअर्थकृता ।। ५०.२० ।।

 शाक्यौपाध्याय*अर्हत्[क्.आर्हत]*निर्ग्रन्थि[क्.निर्ग्रन्थ]निमित्तनिगमकैवर्तैः ।
 चौरचमूपतिवणिजां दासीयोधऽपणस्थवध्यानाम् ।। ५०.२१ ।।

 तापसे शौण्डिके दृष्टे प्रोषितं पशुपालनम् ।
 हृद्गतं *प्रच्छकस्य[क्.पृच्छकस्य] स्यादुञ्छवृटौ विपन्नता ।। ५०.२२ ।।

 इच्छामि प्रष्टुं भण पश्यत्वार्यः समादिशैत्युक्ते ।।
 संयोगकुटुम्बौत्था लाभाइश्वर्यौद्गता चिन्ता ।। ५०.२३ ।।

निर्दिशैति गदिते *जयाध्वजा[क्.जयाध्वगा]
प्रत्यवेक्ष्य मम चिन्तितं वद ।
आशु सर्वजनमध्यगं त्वया
दृश्यतां इति च बन्धुचौरजा ।। ५०.२४ ।।

अन्तःस्थे +अङ्गे स्वजन उदितो बाह्यजे बाह्य *एव[क्.एवम्]
पादाङ्गुष्ठाङ्गुलिकलनया दासदासीजनः स्यात् ।
जङ्घे प्रेष्यो भवति भगिनी नाभितो हृत्स्वभार्या
पाण्यङ्गुष्ठाङ्गुलिचयकृतस्पर्शने पुत्रकन्ये ।। ५०.२५ ।।

 मातरं जठरे मूर्ध्नि गुरुं दक्षिणवामकौ ।
 बाहू भ्राताअथ तत्पत्नी स्पृष्ट्वाएवं चौरं आदिशेत् ।। ५०.२६ ।।

 अन्तरङ्गं अवमुच्य बाह्यगस्पर्शनं यदि करोति पृच्छकः ।
 श्लेष्ममूत्रशकृतस्*त्यजन्त्यथो[क्.त्यजन्नधः] पातयेत्करतलस्थवस्तु चेत् ।। ५०.२७ ।।

भृशं अवनामिताङ्गपरिमोटनतो +अप्यथ वा
जनधृतरिक्तभाण्डं अवलोक्य च चौरजनम् ।
हृतपतितक्षतास्मृतविनष्टभग्नगत
उन्मुषितमृतऽद्यनिष्टरवतो लभते न हृतम् ।। ५०.२८ ।।

निगदितं इदं यत्तत्सर्वं तुषास्थिविषऽदिकैः
सह मृतिकरं पीडाअर्तानां समं रुदित*क्षतैः[क्.क्षुतैः] ।
अवयवं अपि स्पृष्ट्वाअन्तःस्थं दृढं मरुदाहरेद्
अतिबहु तदा भुक्त्वाअन्नं संस्थितः सुहितो वदेत् ।। ५०.२९ ।।

 ललाटस्पर्शनात्शूकदर्शनात्शालिजौदनम् ।
 उरःस्पर्शात्षष्टिक*आख्यं[क्.अन्नम्] ग्रीवास्पर्शे च यावकम् ।। ५०.३० ।।

 कुक्षिकुचजठरजानुस्पर्शे माषाः पयस्तिलयवाग्वः ।
 *आस्वादयते[क्.आस्वादयतश्] चओष्ठौ लिहते मधुरं रसं ज्ञेयम् ।। ५०.३१ ।।

 *विसृक्के[क्.विस्पृक्के] स्फोटयेज्जिह्वां आम्ले वक्त्रं विकूणयेत् ।
 *कटुके +अथ कषाये +अथ[क्.कटुतिक्तकषायोष्णैर्] हिक्केत्ष्ठीवेच्च सैन्धवे ।। ५०.३२ ।।

श्लेष्मत्यागे शुष्कतिक्तं तदल्पं
श्रुत्वा क्रव्यादं वा प्रेक्ष्य वा मांसमिश्रम् ।
भूगण्डओष्ठस्पर्शने शाकुनं तद्
भुक्तं तेनैत्युक्तं एतन्निमित्तम् ।। ५०.३३ ।।

 मूर्धगलकेशहनुशङ्खकर्णजङ्घं वस्तिं च स्पृष्ट्वा ।
 गजमहिषमेषशूकरगोशशमृग*महिष[क्.ओमित्तेद्]मांसयुग्भुक्तम् ।। ५०.३४ ।।

 दृष्टे श्रुते +अप्यशकुने गोधामत्स्यऽमिषं वदेद्भुक्तम् ।
 गर्भिण्या गर्भस्य च निपतनं एवं प्रकल्पयेत्प्रश्ने ।। ५०.३५ ।।

 पुंस्त्रीनपुंसकऽख्ये दृष्टे +अनुमिते पुरःस्थिते स्पृष्टे ।
 तज्जन्म भवति पानान्नपुष्पफलदर्शने च शुभम् ।। ५०.३६ ।।

अङ्गुष्ठेन भ्रूउदरं वाअङ्गुलिं वा
स्पृष्ट्वा पृच्छेद्गर्भचिन्ता तदा स्यात् ।
मध्वाज्याद्यैर्हेमरत्नप्रवालैर्
अग्रस्थैर्वा मातृधात्र्यात्मजैश्च ।। ५०.३७ ।।

गर्भयुता जठरे करगे स्याद्
दुष्टनिमित्तवशात्तदुदासः ।
कर्षति तज्जठरं यदि पीठ
उत्पीडनतण् करगे च करे +अपि ।। ५०.३८ ।।

 घ्राणाया दक्षिणे द्वारे स्पृष्टे मासोत्तरं वदेत् ।
 वामे *+अब्दौ[क्.द्वौ] कर्ण एवं मा द्विचतुर्घ्नः श्रुतिस्तने ।। ५०.३९ ।।

वेणीमूले त्रीन्सुतान्कन्यके द्वे
कर्णे पुत्रान्पञ्च हस्ते त्रयं च ।
अङ्गुष्ठान्ते पञ्चकं चानुपूर्व्या
पादाङ्गुष्ठे पार्ष्णियुग्मे +अपि कन्याम् ।। ५०.४० ।।

 सव्यासव्यऊरुसम्स्पर्शे सूते कन्यासुतद्वयम् ।
 स्पृष्टे ललाटमध्यान्ते चतुस्त्रितनया भवेत् ।। ५०.४१ ।।

 शिरोललाटभ्रूकर्णगण्डं हनुरदा गलम्
 सव्यापसव्यस्कन्धश्च हस्तौ चिबुकनालकम् ।। ५०.४२ ।।

उरः कुचं दक्षिणं अप्यसव्यं
हृत्पार्श्वं एवं जठरं कटिश्च ।
स्फिक्पायुसन्धिऊरुयुगं च जानू
जङ्घे +अथ पादाविति कृत्तिकाआदौ ।। ५०.४३ ।।

इति निगदितं एतद्गात्रसंस्पर्शलक्ष्म
प्रकटं अभिमताप्त्यै वीक्ष्य शास्त्राणि सम्यक् ।
विपुलमतिरुदारो वेत्ति यः सर्वं एतन्
नरपतिजनताभिः पूज्यते +असौ सदैव ।। ५०.४४ ।।