बृहत्संहिता/अध्यायः ४०

विकिस्रोतः तः
← अध्यायः ३९ बृहत्संहिता
अध्यायः ४०
वराहमिहिरः
अध्यायः ४१ →

४० द्रव्यनिश्चयाध्यायः ।।

 ये येषां द्रव्याणां अधिपतयो राशयः समुद्दिष्टाः ।
 मुनिभिः शुभाशुभार्थं तानागमतः प्रवक्ष्यामि ।। ४०.०१ ।।

 वस्त्रऽविककुतुपानां मसूरगोधूमरालकयवानाम् ।
 स्थलसम्भवओषधीनां कनकस्य च कीर्तितो मेषः ।। ४०.०२ ।।

 गवि वस्त्रकुसुमगोधूमशालियवमहिषसुरभितनयाः स्युः ।
 मिथुने +अपि धान्यशारदवल्लीशालूककार्पासाः ।। ४०.०३ ।।

 कर्किणि कोद्रवकदलीदूर्वाफलकन्दपत्रचोचानि ।
 सिंहे तुषधान्यरसाः सिंहऽदीनां त्वचः सगुडाः ।। ४०.०४ ।।

 षष्ठे +अतसीकलायाः कुलत्थगोधूममुद्गनिष्पावाः ।
 सप्तमराशौ माषा *यवगोधूमाः ससर्षपाश्चएव[क्.गोधूमाः सर्षपाः सयवाः] ।। ४०.०५ ।।

 अष्टमराशाविक्षुः सैक्यं लोहान्यजऽविकं चापि ।
 नवमे तु तुरगलवणाम्बरास्त्रतिलधान्यमूलानि ।। ४०.०६ ।।

 मकरे तरुगुल्मऽद्यं सैक्यैक्षुसुवर्णकृष्णलोहानि ।
 कुम्भे सलिलजफलकुसुमरत्नचित्राणि रूपाणि ।। ४०.०७ ।।

 मीने कपालसम्भवरत्नान्यम्बुउद्भवानि वज्राणि ।
 स्नेहाश्च नैकरूपा व्याख्याता मत्स्यजातं च ।। ४०.०८ ।।

 राशेश्चतुर्दशार्थायसप्तनवपञ्चमस्थितो जीवः ।
 द्व्येकादशदशपञ्चाष्टमेषु शशिजश्च वृद्धिकरः ।। ४०.०९ ।।

 षट्सप्तमगो हानिं वृद्धिं शुक्रः करोति शेषेषु ।
 उपचयसंस्थाः क्रूराः शुभदाः शेषेषु हानिकराः ।। ४०.१० ।।

 राशेर्यस्य क्रूराः पीडास्थानेषु संस्थिता बलिनः ।
 तत्प्रोक्तद्रव्याणां महार्घता दुर्लभत्वं च ।। ४०.११ ।।

 इष्टस्थाने सौम्या बलिनो येषां भवन्ति राशीनाम् ।
 तद्द्रव्याणां वृद्धिः *सामर्घ्यं वल्लभत्वं च[क्.सामर्थयमदुर्लभत्वं च] ।। ४०.१२ ।।

 गोचरपीडायां अपि राशिर्बलिभिः शुभग्रहैर्दृष्टः ।
 पीडां न करोति तथा क्रूरैरेवं विपर्यासः ।। ४०.१३ ।।