बृहत्संहिता/अध्यायः ४

विकिस्रोतः तः
← अध्यायः ३ बृहत्संहिता
अध्यायः ४
वराहमिहिरः
अध्यायः ५ →

४ चन्द्रचाराध्यायः । ।।

 नित्यं अधःस्थस्यैन्दोर्भाभिर्भानोः सितं भवत्यर्धम् ।
 स्वच्छाययाअन्यदसितं कुम्भस्यैवऽतपस्थस्य ।। ४.०१ ।।

 सलिलमये शशिनि रवेर्दीधितयो मूर्छितास्तमो नैशम् ।
 क्षपयन्ति दर्पणौदर*निहिता[क्.निहता] इव मन्दिरस्यान्तः ।। ४.०२ ।।

 त्यजतो +अर्कतलं शशिनः पश्चादवलम्बते यथा शौक्ल्यम् ।
 दिनकरवशात्तथाइन्दोः प्रकाशते +अधः प्रभृत्युदयः ।। ४.०३ ।।

 प्रतिदिवसं एवं अर्कात्स्थानविशेषेण शौक्ल्यपरिवृद्धिः ।
 भवति शशिनो +अपराह्णे पश्चाद्भागे घटस्यैव ४.०४ ।।

 ऐन्द्रस्य शीतकिरणो मूलऽषाढाद्वयस्य *चऽयातः[क्.वा यातः] ।
 याम्येन *वीज[क्.ऊ.बीज]जलचरकाननहा वह्निभयदश्च ।। ४.०५ ।।

 दक्षिणपार्श्वेन गतः शशी विशाखाअनुराधयोः पापः ।
 मध्येन तु प्रशस्तः *पितृदेव[क्.पित्र्यस्य]विशाखयोश्चापि ।। ४.०६ ।।

 षडनागतानि पौष्णाद्द्वादश रौद्राच्च मध्ययोगीनि ।
 ज्येष्ठऽद्यानि नवऋक्षाण्युडुपतिनाअतीत्य युज्यन्ते ।। ४.०७ ।।

 उन्नतं ईषच्छृङ्गं नौसंस्थाने विशालता चौक्ता ।
 नाविकपीडा तस्मिन्भवति शिवं सर्वलोकस्य ।। ४.०८ ।।

 अर्द्धौन्नते च लाङ्गलं इति पीडा तदुपजीविनां तस्मिन् ।
 प्रीतिश्च निर्निमित्तं मनुजपतीनां सुभिक्षं च ।। ४.०९ ।।

 दक्षिणविषाणं अर्धौन्नतं यदा दुष्टलाङ्गलऽख्यं तत् ।
 पाण्ड्यनरेश्वरनिधनकृदुद्योगकरं बलानां च ।। ४.१० ।।

 समशशिनि सुभिक्षक्षेमवृष्टयः प्रथमदिवससदृशाः स्युः ।
 दण्डवदुदिते पीडा गवां नृपश्चौग्रदण्डो +अत्र ।। ४.११ ।।

 कार्मुकरूपे युद्धानि यत्र तु ज्या ततो जयस्तेषाम् ।
 स्थानं युगं इति याम्यौत्तरऽयतं भूमिकम्पाय ।। ४.१२ ।।

 युगं एव याम्यकोट्यां किं चित्तुङ्गं स पार्श्वशायीइति
 विनिहन्ति सार्थवाहान्वृष्टेश्च विनिग्रहं कुर्यात् ।। ४.१३ ।।

 अभ्युच्छ्रायादेकं यदि शशिनो +अवाङ्मुखं भवेत्छृङ्गम् ।
 आवर्जितं इत्यसुभिक्षकारि तद्गोधनस्यापि ।। ४.१४ ।।

 अव्युच्छिन्ना रेखा समन्ततो मण्डला च कुण्डऽख्यम् ।
 अस्मिन्माण्डलिकानां स्थानत्यागो नरपतीनाम् ।। ४.१५ ।।

 प्रोक्तस्थानाभावादुदगुच्चः क्षेमवृद्धिवृष्टिकरः ।
 दक्षिणतुङ्गश्चन्द्रो दुर्भिक्षभयाय निर्दिष्टः ।। ४.१६ ।।

 शृङ्गेणएकेन*इन्दुर्[क्.इन्दुं] विलीनं अथ वाअप्यवाङ्मुखं *शृङ्गम्[क्.अशृङ्गम्] ।
 सम्पूर्णं चाभिनवं दृष्ट्वाएको जीविताद्भ्रश्येत् ।। ४.१७ ।।

 संस्थानविधिः कथितो रूपाण्यस्माद्भवन्ति चन्द्रमसः ।
 स्वल्पो दुर्भिक्षकरो महान्सुभिक्षऽवहः प्रोक्तः ।। ४.१८ ।।

 मध्यतनुर्वज्रऽख्यः क्षुद्भयदः सम्भ्रमाय राज्ञां च ।
 चन्द्रो मृदङ्गरूपः क्षेमसुभिक्षऽवहो भवति ।। ४.१९ ।।

 ज्ञेयो विशालमूर्तिर्नरपतिलक्ष्मीविवृद्धये चन्द्रः ।
 स्थूलः सुभिक्षकारी प्रियधान्यकरस्तु तनुमूर्तिः ।। ४.२० ।।

प्रत्यन्तान्कुनृपांश्च हन्त्युडुपतिः शृङ्गे कुजेनऽहते
शस्त्रक्षुद्भयकृद्यमेन शशिजेनावृष्टिदुर्भिक्षकृत् ।
श्रेष्ठान्हन्ति नृपान्महेन्द्रगुरुणा शुक्रेण चाल्पान्नृपान्
शुक्ले याप्यं इदं फलं ग्रहकृतं कृष्णे यथोक्तऽगमम् ।। ४.२१ ।।

भिन्नः सितेन मगधान्यवनान्पुलिन्दान्
नेपालभृङ्गि*मरुकच्छ[क्ऽस्त्र्. मरुकुच्च]सुराष्ट्रमद्रान् ।
पाञ्चालकैकयकुलूतकपुरुषादान्
हन्यादुशीनरजनानपि सप्त मासान् ।। ४.२२ ।।

 गान्धारसौवीरकसिन्धुकीरान्धान्यानि शैलान्द्रविडाधिपांश्च ।
 द्विजांश्च मासान्दश शीतरश्मिः सन्तापयेद्वाक्पतिना विभिन्नः ।। ४.२३ ।।

उद्युक्तान्सह वाहनैर्नरपतींस्त्रैगर्तकान्मालवान्
कौलिन्दान्गणपुङ्गवानथ शिबीनायोध्यकान्पार्थिवान् ।
हन्यात्कौरवमत्स्यशुक्त्यधिपतीन्राजन्यमुख्यानपि
प्रालेयांशुरसृग्ग्रहे तनुगते षण्मासं अर्यादया ।। ४.२४ ।।

 यौधेयान्सचिवान्सकौरवान्प्रागीशानथ चार्जुनायनान् ।
 हन्यादर्कजभिन्नमण्डलः शीतांशुर्दशमासपीडया ।। ४.२५ ।।

 मगधान्मथुरां च पीडयेद्वेणायाश्च तटं शशाङ्कजः ।
 अपरत्र कृतं युगं वदेद्यदि भित्त्वा शशिनं विनिर्गतः ।। ४.२६ ।।

 क्षेमऽरोग्यसुभिक्षविनाशी शीतांशुः शिखिना यदि भिन्नः ।
 कुर्यादायुधजीविविनाशं चौराणां अधिकेन च पीडाम् ।। ४.२७ ।।

 उल्कया यदा शशी ग्रस्त एव हन्यते ।
 हन्यते तदा नृपो यस्य जन्मनि स्थितः ।। ४.२८ ।।

 भस्मनिभः परुषो +अरुणमूर्तिः शीतकरः किरणैः परिहीणः ।
 श्यावतनुः स्फुटितः स्फुरणो वा *क्षुड्डमर[क्.क्षुत्समरा]आमयचौरभयाय ।। ४.२९ ।।

 प्रालेयकुन्दकुमुदस्फटिकावदातो यत्नादिवाद्रिसुतया परिमृज्य चन्द्रः ।
 उच्चैः कृतो निशि भविष्यति मे शिवाय यो दृश्यते स भविता जगतः शिवाय ।। ४.३० ।।

 शुक्ले पक्षे सम्प्रवृद्धे प्रवृद्धिं ब्रह्मक्षत्रं याति वृद्धिं प्रजाश्च ।
 हीने हानिस्तुल्यता तुल्यतायां कृष्णे सर्वे तत्फलं व्यत्ययेन ।। ४.३१ ।।

 यदि कुमुदमृणालहारगौरस्तिथिनियमात्क्षयं एति वर्द्धते वा ।
 अविकृतगतिमण्डलांशुयोगी भवति नृणां विजयाय शीतरश्मिः ।। ४.३२ ।।