बृहत्संहिता/अध्यायः ३९

विकिस्रोतः तः
← अध्यायः ३८ बृहत्संहिता
अध्यायः ३९
वराहमिहिरः
अध्यायः ४० →

३९ सस्यजातकाध्यायः ।।

 वृश्चिकवृषप्रवेशे भानोर्ये बादरायणेनौक्ताः ।
 ग्रीष्मशरत्सस्यानां सदसद्योगाः कृतास्त इमे ।। ३९.०१ ।।

 भानोरलिप्रवेशे केन्द्रैस्तस्मात्शुभग्रहऽक्रान्तैः ।
 बलवद्भिः सौम्यैर्वा *निरीक्षिते[क्.निरीक्षितैर्] ग्रैष्मिकविवृद्धिः ।। ३९.०२ ।।

 अष्टमराशिगते +अर्के गुरुशशिनोः कुम्भसिंह*संस्थितयोः[क्.स्थितयोः] ।
 सिंहघटसंस्थयोर्वा निष्पत्तिर्ग्रीष्मसस्यस्य ।। ३९.०३ ।।

 अर्कात्सिते द्वितीये बुधे +अथ वा युगपदेव वा स्थितयोः ।
 व्ययगतयोरपि तद्वन्निष्पत्तिरतीव गुरुदृष्ट्या ।। ३९.०४ ।।

 शुभमध्ये +अलिनि सूर्याद्गुरुशशिनोः सप्तमे परा सम्पत् ।
 अल्यादिस्थे सवितरि गुरौ द्वितीये +अर्धनिष्पत्तिः ।। ३९.०५ ।।

 लाभहिबुकार्थयुक्तैः सूर्यादलिगात्सितैन्दुशशिपुत्रैः ।
 सस्यस्य परा सम्पत्कर्मणि जीवे गवां चाग्र्या ।। ३९.०६ ।।

 कुम्भे गुरुर्गवि शशी सूर्यो +अलिमुखे कुजार्कजौ मकरे ।
 निष्पत्तिरस्ति महती पश्चात्परचक्रभयरोगम् ।। ३९.०७ ।।

 मध्ये पापग्रहयोः सूर्यः सस्यं विनाशयत्यलिगः ।
 पापः सप्तमराशौ जातं जातं विनाशयति ।। ३९.०८ ।।

 अर्थस्थाने क्रूरः सौम्यैरनिरीक्षितः प्रथमजातम् ।
 सस्यं निहन्ति पश्चादुप्तं निष्पादयेद्व्यक्तम् ।। ३९.०९ ।।

 जामित्रकेन्द्रसंस्थौ क्रूरौ सूर्यस्य वृश्चिकस्थस्य ।
 सस्यविपत्तिं कुरुतः सौम्यैर्दृष्टौ न सर्वत्र ।। ३९.१० ।।

 वृश्चिकसंस्थादर्कात्सप्तमषष्ठौपगौ यदा क्रूरौ ।
 भवति तदा निष्पत्तिः सस्यानां अर्घपरिहानिः ।। ३९.११ ।।

 विधिनाअनेनएव रविर्वृषप्रवेशे शरत्समुत्थानाम् ।
 विज्ञेयः सस्यानां नाशाय शिवाय वा तज्ज्ञैः ।। ३९.१२ ।।

 त्रिषु मेषऽदिषु सूर्यः सौम्ययुतो वीक्षितो +अपि वा विचरन् ।
 *ग्रैष्मिक[क्.ग्रष्मिक]धान्यं कुरुते *समर्घम्[क्.समर्थम्] अभयौपयोग्यं च ।। ३९.१३ ।।

 कार्मुकमृगघटसंस्थः *शारदसस्यस्य[क्.शारदस्य] तद्वदेव रविः ।
 संग्रहकाले ज्ञेयो विपर्ययः क्रूरदृग्*योगात्[क्.यागात्] ।। ३९.१४ ।।