बृहत्संहिता/अध्यायः २३

विकिस्रोतः तः
← अध्यायः २२ बृहत्संहिता
अध्यायः २३
वराहमिहिरः
अध्यायः २४ →

२३ प्रवर्षणाध्यायः ।।

 ज्यैष्ठ्यां समतीतायां पूर्वाषाढादिसम्प्रवृष्टेन ।
 शुभं अशुभं वा वाच्यं परिमाणं चाम्भसस्तज्ज्ञैः ।। २३.०१ ।।

 हस्तविशालं कुण्डकं अधिकृत्याम्बुप्रमाणनिर्देशः ।
 पञ्चाशत्पलं आढकं अनेन मिनुयाज्जलं पतितम् ।। २३.०२ ।।

 येन धरित्री मुद्रा जनिता वा बिन्दवस्तृणाआग्रेषु ।
 वृष्टेन तेन वाच्यं परिमाणं वारिणः प्रथमम् ।। २३.०३ ।।

 के चिद्यथाभिवृष्टं दशयोजनमण्डलं वदन्त्यन्ये ।
 गर्गवसिष्ठपराशरमतं एतद्द्वादशान्न परम् ।। २३.०४ ।।

 येषु च भेष्वभिवृष्टं भूयस्तेष्वेव वर्षति प्रायः ।
 यदि नऽप्यऽदिषु वृष्टं सर्वेषु तदा त्वनावृष्टिः ।। २३.०५ ।।

 हस्तऽप्यसौम्यचित्रापौष्णधनिष्ठासु षोडश द्रोणाः ।
 शतभिषगैन्द्रस्वातिषु चत्वारः कृत्तिकासु दश ।। २३.०६ ।।

 श्रवणे मघाअनुराधाभरणीमूलेषु दश चतुर्युक्ताः ।
 फल्गुन्यां पञ्चकृतिः पुनर्वसौ विंशतिर्द्रोणाः ।। २३.०७ ।।

 *ऐन्द्राग्न्याख्ये[क्.ऐन्द्राग्नाख्ये] वैश्वे च विंशतिः सार्पभे दश त्र्यधिकाः ।
 आहिर्बुध्न्यऽर्यम्णप्राजापत्येषु पञ्चकृतिः । २३.०८ ।।

 पञ्चदशऽजे पुष्ये च कीर्तिता वाजिभे दश द्वौ च ।
 रौद्रे +अष्टादश कथिता द्रोणा निरुपद्रवेष्व्*एते[क्.एषु] ।। २३.०९ ।।

 रविरविसुतकेतुपीडिते भे क्षितितनयत्रिविधाद्भुतऽहते च ।
 भवति *च[क्.हि] न शिवं न चापि वृष्टिः शुभसहिते निरुपद्रवे शिवं च ।। २३.१० ।।