बृहत्संहिता/अध्यायः २१

विकिस्रोतः तः
← अध्यायः २० बृहत्संहिता
अध्यायः २१
वराहमिहिरः
अध्यायः २२ →

२१ गर्भलक्षणाध्यायः ।।

 अन्नं जगतः प्राणाः प्रावृट्कालस्य चान्नं आयत्तम् ।
 यस्मादतः परीक्ष्यः प्रावृट्कालः प्रयत्नेन ।। २१.०१ ।।

 तल्लक्षणानि मुनिभिर्यानि निबद्धानि तानि दृष्ट्वाइदम् ।
 क्रियते गर्गपराशरकाश्यप*वज्रऽदि[क्.वात्स्यादि]रचितानि ।। २१.०२ ।।

 दैवविदविहितचित्तो[क्.अवहितचित्तो] द्युनिशं यो गर्भलक्षणे भवति ।
 तस्य मुनेरिव वाणी न भवति मिथ्याम्बुनिर्देशे ।। २१.०३ ।।

 किं वातः परं अन्यत्*शास्त्रज्यायो[क्.शास्त्रं ज्यायो] +अस्ति यद्विदित्वाएव ।
 प्रध्वंसिन्यपि काले त्रिकालदर्शी कलौ भवति ।। २१.०४ ।।

 के चिद्वदन्ति *कार्तिक[क्.कार्त्तिक]शुक्लान्तं अतीत्य गर्भदिवसाः स्युः ।
 न *च[क्.तु] तन्मतं बहूनां गर्गऽदीनां मतं वक्ष्ये ।। २१.०५ ।।

 *मार्गशिरःसित[क्.मार्गशिरशुक्ल]पक्षप्रतिपत्प्रभृति क्षपाकरे +अषाढाम् ।
 पूर्वां वा समुपगते गर्भाणां लक्षणं ज्ञेयम् ।। २१.०६ ।।

 यन्नक्षत्रं उपगते गर्भश्चन्द्रे भवेत्स चन्द्रवशात् ।
 पञ्चनवते दिनशते तत्रएव प्रसवं आयाति ।। २१.०७ ।।

 सितपक्षभवाः कृष्णे शुक्ले कृष्णा द्युसम्भवा रात्रौ ।
 नक्तंप्रभवाश्चाहनि सन्ध्याजाताश्च सन्ध्यायाम् ।। २१.०८ ।।

 मृगशीर्षाद्या गर्भा मन्दफलाः पौषशुक्लजाताश्च ।
 पौषस्य कृष्णपक्षेण निर्दिशेत्श्रावणस्य सितम् ।। २१.०९ ।।

 माघसितोत्था गर्भाः श्रावणकृष्णे प्रसूतिं आयान्ति ।
 माघस्य कृष्णपक्षेण निर्दिशेद्भाद्रपदशुक्लम् ।। २१.१० ।।

 फाल्गुनशुक्लसमुत्था भाद्रपदस्यासिते विनिर्देश्याः ।
 तस्यैव कृष्णपक्षौद्भवास्तु ये ते +अश्वयुक्शुक्ले ।। २१.११ ।।

 चैत्रसितपक्षजाताः कृष्णे +अश्वयुजस्य वारिदा गर्भाः ।
 चैत्रासितसम्भूताः *कार्तिकशुक्ले[क्.कार्त्तिकशुक्ले] +अभिवर्षन्ति ।। २१.१२ ।।

 पूर्वौद्भूताः पश्चादपरोत्थाः प्राग्भवन्ति जीमूताः ।
 शेषास्वपि दिक्ष्वेवं विपर्ययो भवति वायोश्च ।। २१.१३ ।।

 ह्लादिमृदुउदक्शिवशक्रदिग्भवो मारुतो वियद्विमलम् ।
 स्निग्धसितबहुलपरिवेषपरिवृतौ हिम*मयखार्कौ[क्.ऊ.मयूखार्कौ] ।। २१.१४ ।।

 पृथुबहुलस्निग्धघनं घनसूचीक्षुरकलोहिताभ्रयुतम् ।
 काकाण्डमेचकऽभं वियद्विशुद्धैन्दुनक्षत्रम् ।। २१.१५ ।।

 सुरचापमन्द्रगर्जितविद्युत्*प्रतिसूर्यका[क्.प्रतिसूर्यकाः] शुभा सन्ध्या ।
 शशिशिवशक्रऽशास्थाः शान्तरवाः पक्षिमृगसङ्घाः ।। २१.१६ ।।

 विपुलाः प्रदक्षिणचराः स्निग्धमयूखा ग्रहा निरुपसर्गाः ।
 तरवश्च निरुपसृष्टाङ्कुरा नरचतुष्पदा हृष्टाः ।। २१.१७ ।।

 गर्भाणां पुष्टिकराः सर्वेषां एव यो +अत्र तु विशेषः ।
 स्वर्तुस्वभावजनितो गर्भ*विवृद्ध्यै[क्.विवृद्धौ] तं अभिधास्ये ।। २१.१८ ।।

 पौषे समार्गशीर्षे सन्ध्यारागो +अम्बुदाः सपरिवेषाः ।
 नात्यर्थं मृगशीर्षे शीतं पौषे +अतिहिमपातः ।। २१.१९ ।।

 माघे प्रबलो वायुस्तुषारकलुषद्युती रविशशाङ्कौ ।
 अतिशीतं सघनस्य च भानोरस्तोदयौ धन्यौ ।। २१.२० ।।

 फाल्गुनमासे रूक्षश्चण्डः पवनो +अभ्रसम्प्लवाः स्निग्धाः ।
 परिवेषाश्चासकलाः कपिलस्ताम्रो रविश्च शुभः ।। २१.२१ ।।

 पवनघनवृष्टियुक्ताश्चैत्रे गर्भाः शुभाः सपरिवेषाः ।
 घनपवनसलिलविद्युत्स्तनितैश्च हिताय वैशाखे ।। २१.२२ ।।

 मुक्तारजतनिकाशास्तमालनीलोत्पलाञ्जनऽभासः ।
 जलचरसत्त्वाकारा ग्रभेषु घनाः प्रभूतजलाः ।। २१.२३ ।।

 तीव्रदिवाकरकिरणाभितापिता मन्दमारुता जलदाः ।
 रुषिता इव धाराभिर्विसृजन्त्यम्भः प्रसवकाले ।। २१.२४ ।।

 गर्भौपघातलिङ्गान्युल्काअशनिपांशुपातदिग्दाहः ।
 क्षितिकम्पखपुरकीलककेतुग्रहयुद्धनिर्घाताः ।। २१.२५ ।।

 रुधिरऽदिवृष्टिवैकृतपरिघैन्द्रधनूंषि दर्शनं राहोः ।
 इत्युत्पातैरेतैस्त्रिविधैश्चान्यैर्हतो गर्भः ।। २१.२६ ।।

 स्वर्तुस्वभावजनितैः सामान्यैर्यैश्च लक्षणैर्वृद्धिः ।
 गर्भाणां विपरीतैस्तैरेव विपर्ययो भवति ।। २१.२७ ।।

 भद्रपदाद्वयविश्वाम्बु*देव[क्.दैव]पैतामहेष्वथ ऋक्षेषु ।
 सर्वेष्वृतुषु विवृद्धो गर्भो बहुतोयदो भवति ।। २१.२८ ।।

 शतभिषगाश्लेषाआर्द्रास्वातिमघासंयुतः शुभो गर्भः ।
 पुष्णाति बहून्दिवसान्हन्त्युत्पातैर्हतस्त्रिविधैः ।। २१.२९ ।।

 मृगमासऽदिष्वष्टौ षट्षोडश विंशतिश्चतुर्युक्ता ।
 विंशतिरथ दिवसत्रयं एकतमऋक्षेण पञ्चभ्यः ।। २१.३० ।।

 पञ्चनिमित्तैः शतयोजनं तदर्धार्धं एकहान्या +अतः ।
 वर्षति *पञ्चनिमित्ताद्[क्.पञ्चसमन्ताद्] रूपेणएकेन यो गर्भः ।। २१.३१ ।।

 द्रोणः पञ्चनिमित्ते गर्भे त्रीण्याढकानि पवनेन ।
 षड्विद्युता नवाभ्रैः स्तनितेन द्वादश प्रसवे ।। २१.३२ ।।

 क्रूरग्रहसंयुक्ते करकाअशनिमत्स्यवर्षदा गर्भाः ।
 शशिनि रवौ वा शुभसंयुतईक्षिते भूरिवृष्टिकराः ।। २१.३३ ।।

 ग्रभसमये +अतिवृष्टिर्गर्भाभावाय निर्निमित्तकृता ।
 द्रोणाष्टांशे +अभ्यधिके वृष्टे गर्भः स्रुतो भवति ।। २१.३४ ।।

 गर्भः पुष्टः प्रसवे ग्रहौपघातऽदिभिर्यदि न वृष्टः ।
 आत्मीयगर्भसमये करकामिश्रं ददात्यम्भः ।। २१.३५ ।।

 काठिन्यं याति यथा चिरकालधृतं पयः पयस्विन्याः ।
 कालातीतं तद्वत्सलिलं काठिन्यं उपयाति ।। २१.३६ ।।

पवनसलिलविद्युद्गर्जिताअभ्रान्वितो यः
स भवति बहुतोयः पञ्चरूपाभ्युपेतः ।
विसृजति यदि तोयं गर्भकाले +अतिभूरि
प्रसवसमयं इत्वा शीकराम्भः करोति ।। २१.३७ ।।