बृहत्संहिता/अध्यायः २०

विकिस्रोतः तः
← अध्यायः १९ बृहत्संहिता
अध्यायः २०
वराहमिहिरः
अध्यायः २१ →

२० ग्रहशृङ्गाटकाध्यायः ।।

 यस्यां दिशि दृश्यन्ते विशन्ति ताराग्रहा रविं सर्वे ।
 भवति भयं दिशि तस्यां आयुधकोपक्षुधऽआतङ्कैः ।। २०.०१ ।।

 चक्रधनुःशृङ्गाटकदण्डपुरप्रासवज्रसंस्थानाः ।
 क्षुद्वृष्टिकरा[क्.ऊ.अवृष्टिकरा] लोके समराय च मानवैन्द्राणाम् ।। २०.०२ ।।

 यस्मिन्खांशे दृश्या ग्रहमाला दिनकरे दिनान्तगते ।
 तत्र +अन्यो भवति नृपः परचक्रौपद्रवश्च महान् ।। २०.०३ ।।

 *तस्मिन्न्[क्.यस्मिन्न्] ऋक्षे कुर्युः समागमं तज्जनान्ग्रहा हन्युः ।
 *अविभेदिनः[क्.अविभेदनाः] परस्परं अमलमयूखाः शिवास्तेषाम् ।। २०.०४ ।।

 ग्रहसंवर्तसमागमसम्मोहसमाजसन्निपातऽख्याः ।
 कोशश्चेत्येतेषां अभिधास्ये लक्षणं सफलं ।। २०.०५ ।।

 एकऋक्षे चत्वारः सह पौरैर्यायिनो +अथ वा पञ्च ।
 संवर्तो नाम भवेत्शिखिराहुयुतः स सम्मोहः ।। २०.०६ ।।

 पौरः पौरसमेतो यायी सह यायिना समाजाख्यः ।
 यमजीवसङ्गमे +अन्यो यद्यागच्छेत्तदा कोशः ।। २०.०७ ।।

 उदितः पश्चादेकः प्राक्चान्यो यदि स सन्निपाताख्यः ।
 अविकृततनवः स्निग्धा विपुलाश्च समागमे धन्याः ।। २०.०८ ।।

 समौ तु संवर्तसमागमाख्यौ सम्मोहकोशौ भयदौ प्रजानाम् ।
 *समाजसंज्ञो सुसमा प्रदिष्टा[क्.समाज्ञः सुसमः प्रदिष्टो] वैरप्रकोपः खलु सन्निपाते ।। २०.०९ ।।