बृहत्संहिता/अध्यायः ११

विकिस्रोतः तः
← अध्यायः १० बृहत्संहिता
अध्यायः ११
वराहमिहिरः
अध्यायः १२ →

११ केतुचाराध्यायः ।।

 गार्गीयं शिखिचारं पाराशरं असितदेवलकृतं च ।
 अन्यांश्च बहून्दृष्ट्वा क्रियते +अयं अनाकुलश्चारः ।। ११.०१ ।।

 दर्शनं अस्तमयो वा न गणितविधिनाअस्य शक्यते ज्ञातुम् ।
 दिव्यान्तरिक्षभौमास्त्रिविधाः स्युः केतवो यस्मात् ।। ११.०२ ।।

 अहुताशे +अनलरूपं यस्मिंस्तत्केतुरूपं एवौक्तम् ।
 खद्योतपिशाचालयमणिरत्नऽदीन्परित्यज्य ।। ११.०३ ।।

 ध्वजशस्त्रभवनतरुतुरगकुञ्जरऽद्येष्वथान्तरिक्षास्ते ।
 दिव्या नक्षत्रस्था भौमाः स्युरतो +अन्यथा शिखिनः ।। ११.०४ ।।

 शतं एकाधिकं एके सहस्रं अपरे वदन्ति केतूनाम् ।
 बहुरूपं एकं एव प्राह मुनिर्नारदः केतुम् ।। ११.०५ ।।

 यद्येको यदि बहवः किं अनेन फलं तु सर्वथा वाच्यम् ।
 उदयास्तमयैः स्थानैः स्पर्शैराधूमनैर्वर्णैः । ११.०६ ।।

 यावन्त्यहानि दृश्यो मासास्तावन्त एव फलपाकः ।
 मासैरब्दांश्च वदेत्प्रथमात्पक्षत्रयात्परतः ।। ११.०७ ।।

 ह्रस्वस्तनुः प्रसन्नः स्निग्धस्त्वृजुरचिरसंस्थितः शुक्लः ।
 उदितो *+अथ वाअभिवृष्टः[क्.वाअप्यभिदृष्टः] सुभिक्षसौख्यावहः केतुः ।। ११.०८ ।।

 उक्तविपरीतरूपो न शुभकरो धूमकेतुरुत्पन्नः ।
 इन्द्रायुधानुकारी विशेषतो द्वित्रिचूलो वा ।। ११.०९ ।।

 हारमणिहेमरूपाः किरणऽख्याः पञ्चविंशतिः सशिखाः ।
 प्रागपरदिशोर्दृश्या नृपतिविरोधावहा रविजाः ।। ११.१० ।।

 शुकदहनबन्धुजीवकलाक्षाक्षतजौपमा हुताशसुताः ।
 आग्नेय्यां दृश्यन्ते तावन्तस्ते +अपि शिखिभयदाः ।। ११.११ ।।

 वक्रशिखा मृत्युसुता रूक्षाः कृष्णाश्च ते +अपि तावन्तः ।
 दृश्यन्ते याम्यायां जनमरकऽवेदिनस्ते च ।। ११.१२ ।।

 दर्पणवृत्तऽकारा विशिखाः किरणान्विता धरातनयाः ।
 क्षुद्भयदा द्वाविंशतिरैशान्यां अम्बुतैलनिभाः ।। ११.१३ ।।

 शशिकिरणरजतहिमकुमुदकुन्दकुसुमौपमाः सुताः शशिनः ।
 उत्तरतो दृश्यन्ते त्रयः सुभिक्षावहाः शिखिनः ।। ११.१४ ।।

 ब्रह्मसुत एक एव त्रिशिखो वर्णैस्त्रिभिर्युगान्तकरः ।
 अनियतदिक्सम्प्रभवो विज्ञेयो ब्रह्मदण्डाख्यः ।। ११.१५ ।।

 शतं अभिहितं एकसमेतं एतदेकेन विरहितान्यस्मात् ।
 कथयिष्ये केतूनां शतानि नव लक्षणैः स्पष्टैः ।। ११.१६ ।।

 सौम्यैशान्योरुदयं शुक्रसुता यान्ति चतुरशीत्याख्याः ।
 विपुलसिततारकास्ते स्निग्धाश्च भवन्ति तीव्रफलाः ।। ११.१७ ।।

 स्निग्धाः प्रभासमेता द्विशिखाः षष्टिः शनैश्चराङ्गरुहाः ।
 अतिकष्टफला दृश्याः सर्वत्रैते कनकसंज्ञाः ।। ११.१८ ।।

 विकचा नाम गुरुसुताः सितएकताराः शिखापरित्यक्ताः ।
 षष्टिः पञ्चभिरधिका स्निग्धा याम्याश्रिताः पापाः ।। ११.१९ ।।

 नातिव्यक्ताः सूक्ष्मा दीर्घाः शुक्ला यथाइष्टदिक्प्रभवाः ।
 बुधजास्तस्करसंज्ञाः पापफलास्त्वेकपञ्चाशत् ।। ११.२० ।।

 क्षतजानलानुरूपास्त्रिचूलताराः कुजात्मजाः षष्टिः ।
 नाम्ना च कौङ्कुमास्ते सौम्याशासंस्थिताः पापाः ।। ११.२१ ।।

 त्रिंशत्यधिका राहोस्ते तामसकीलका इति ख्याताः ।
 रविशशिगा दृश्यन्ते तेषां फलं अर्कचारोक्तम् ।। ११.२२ ।।

 विंशत्यधिकं अन्यत्शतं अग्नेर्विश्वरूपसंज्ञानाम् ।
 तीव्रानलभयदानां ज्वालामालाकुलतनूनाम् ।। ११.२३ ।।

 श्यामारुणा विताराश्चामररूपा विकीर्णदीधितयः ।
 अरुणाख्या वायोः सप्तसप्ततिः पापदाः परुषाः ।। ११.२४ ।।

 तारापुञ्जनिकाशा गणका नाम प्रजापतेरष्टौ ।
 द्वे च शते चतुरधिके *चतुरस्रा[क्.चतुरश्रा] ब्रह्मसन्तानाः ।। ११.२५ ।।

 कङ्का नाम वरुणजा द्वात्रिंशद्वंशगुल्मसंस्थानाः ।
 शशिवत्प्रभासमेतास्तीव्रफलाः केतवः प्रोक्ताः ।। ११.२६ ।।

 षण्णवतिः कालसुताः कबन्धसंज्ञाः कबन्धसंस्थानाः ।
 *पुण्ड्र[क्.चण्ड]अभयप्रदाः स्युर्विरूपताराश्च ते शिखिनः ।। ११.२७ ।।

 शुक्लविपुलएकतारा नव विदिशां केतवः समुत्पन्नाः ।
 एवं केतुसहस्रं विशेषं एषां अतो वक्ष्ये ।। ११.२८ ।।

 उदगायतो महान्स्निग्धमूर्तिरपरोदयी वसाकेतुः ।
 सद्यः करोति मरकं सुभिक्षं अप्युत्तमं कुरुते ।। ११.२९ ।।

 तल्लक्षणो +अस्थिकेतुः स तु रूक्षः क्षुद्भयऽवहः प्रोक्तः ।
 स्निग्धस्तादृक्प्राच्यां शस्त्राख्यो डमरमरकाय ।। ११.३० ।।

 दृश्यो +अमावास्यायां कपालकेतुः सधूम्ररश्मिशिखः ।
 प्राङ्नभसो +अर्धविचारी क्षुत्मरकावृष्टिरोगकरः ।। ११.३१ ।।

 प्राग्*वैश्वानर[क्.वश्वानर, क्ऽस्त्र्. वैश्वानर]मार्गे शूलाग्रः श्यावरूक्षताम्रार्चिः ।
 नभसस्त्रिभागगामी रौद्र इति कपालतुल्यफलः ।। ११.३२ ।।

 अपरस्यां चलकेतुः शिखया याम्याग्रयाङ्गुलौच्छ्रितया ।
 गच्छेद्यथा यथोदक्तथा तथा दैर्घ्यं आयाति ।। ११.३३ ।।

 सप्तमुनीन्संस्पृश्य ध्रुवं अभिजितं एव च प्रतिनिवृत्तः ।
 नभसो +अर्धमात्रं इत्वा याम्येनास्तं समुपयाति ।। ११.३४ ।।

 हन्यात्प्रयागकूलाद्यावदवन्तीं च *पुष्करारण्यम्[क्.पुष्कराण्यम्] ।
 उदगपि च देविकां अपि भूयिष्ठं मध्यदेशाख्यम् ।। ११.३५ ।।

 अन्यानपि स देशान्क्व चित्क्व चिद्धन्ति रोगदुर्भिक्षैः ।
 दश मासान्फलपाको +अस्य कैश्चिदष्टादश प्रोक्तः ।। ११.३६ ।।

 प्रागर्धरात्रदृश्यो याम्याग्रः श्वेतकेतुरन्यश्च ।
 क इति युगाकृतिरपरे युगपत्तौ सप्तदिनदृश्यौ ।। ११.३७ ।।

 स्निग्धौ सुभिक्षशिवदावथाधिकं दृश्यते कनामा यः ।
 दश वर्षाण्युपतापं जनयति शस्त्रप्रकोपकृतम् ।। ११.३८ ।।

 श्वेत इति जटाकारो रूक्षः श्यावो वियत्त्रिभागगतः ।
 विनिवर्तते +अपसव्यं त्रिभागशेषाः प्रजाः कुरुते ।। ११.३९ ।।

 आधूम्रया तु शिखया दर्शनं आयाति कृत्तिकासंस्थः ।
 ज्ञेयः स रश्मिकेतुः श्वेतसमानं फलं धत्ते ।। ११.४० ।।

 ध्रुवकेतुरनियतगतिप्रमाणवर्णऽकृतिर्भवति विष्वक् ।
 दिव्यान्तरिक्षभौमो भवत्ययं स्निग्ध इष्टफलः ।। ११.४१ ।।

 सेनाङ्गेषु नृपाणां गृहतरुशैलेषु चापि देशानाम् ।
 गृहिणां उपस्करेषु च विनाशिनां दर्शनं याति ।। ११.४२ ।।

 कुमुद इति कुमुदकान्तिर्वारुण्यां प्राक्शिखो निशां एकाम् ।
 दृष्टः सुभिक्षं अतुलं दश किल वर्षाणि स करोति ।। ११.४३ ।।

 सकृदेकयामदृश्यः सुसूक्ष्मतारो +अपरेण मणिकेतुः ।
 ऋज्वी शिखास्य शुक्ला स्तनोद्गता क्षीरधारेव ।। ११.४४ ।।

 उदयन्नेव सुभिक्षं चतुरो मासान्करोत्यसौ सार्धान् ।
 प्रादुर्भावं प्रायः करोति च क्षुद्रजन्तूनाम् ।। ११.४५ ।।

 जलकेतुरपि च पश्चात्स्निग्धः शिखयापरेण चौन्नतया ।
 नव मासान्स सुभिक्षं करोति शान्तिं च लोकस्य ।। ११.४६ ।।

 भवकेतुरेकरात्रं दृश्यः प्राक्सूक्ष्मतारकः स्निग्धः ।
 हरिलाङ्गूलौपमया प्रदक्षिणावर्तया शिखया ।। ११.४७ ।।

 यावत एव मुहूर्तान्दर्शनं आयाति निर्दिशेत्मासान् ।
 तावदतुलं सुभिक्षं रूक्षे प्राणान्तिकान्रोगान् ।। ११.४८ ।।

 अपरेण पद्मकेतुर्मृणालगौरो भवेन्निशां एकाम् ।
 सप्त करोति सुभिक्षं वर्षाण्यतिहर्षयुक्तानि ।। ११.४९ ।।

 आवर्त इति निशार्धे सव्यशिखो +अरुणनिभो +अपरे स्निग्धः ।
 यावत्क्षणान्स दृश्यस्तावन्मासान्सुभिक्षकरः ।। ११.५० ।।

 पश्चात्सन्ध्याकाले संवर्तो नाम धूम्रताम्रशिखः ।
 आक्रम्य वियत्त्र्यंशं शूलाग्रावस्थितो रौद्रः ।। ११.५१ ।।

 यावत एव मुहूर्तान्दृश्यो वर्षाणि हन्ति तावन्ति ।
 भूपान्शस्त्रनिपातैरुदयऋक्षं चापि पीडयति ।। ११.५२ ।।

 ये शस्तास्तान्हित्वा केतुभिर्*आधूपिते[क्.आधूमिते] +अथ वा स्पृष्टे ।
 नक्षत्रे भवति वधो येषां राज्ञां प्रवक्ष्ये तान् ।। ११.५३ ।।

 अश्विन्यां अश्मकपं भरणीषु किरातपार्थिवं हन्यात् ।
 बहुलासु कलिङ्गेशं रोहिण्यां शूरसेनपतिम् ।। ११.५४ ।।

 औशीनरं अपि सौम्ये जलजाजीवाधिपं तथार्द्रासु ।
 आदित्ये +अश्मक*नाथान्[क्.नाथं] पुष्ये मघधाधिपं हन्ति ।। ११.५५ ।।

 असिकेशं भौजङ्गे पित्र्ये +अङ्गं पाण्ड्यनाथं अपि भाग्ये ।
 *औज्जयिनिकम्[क्.औज्जयनिकम्] आर्यम्णे सावित्रे दण्डकाधिपतिम् ।। ११.५६ ।।

 चित्रासु कुरुक्षेत्राधिपस्य मरणं समादिशेत्तज्ज्ञः ।
 काश्मीरककाम्बोजौ नृपती प्राभञ्जने न स्तः ।। ११.५७ ।।

 इक्ष्वाकुरलक*नाथश्[क्.नाथौ, क्ऽस्त्र्. नाथो] च हन्यते यदि भवेद्विशाखासु ।
 मैत्रे पुण्ड्राधिपतिर्*ज्येष्ठासु च[क्.ज्येष्ठास्वथ] सार्वभौमवधः ।। ११.५८ ।।

 मूले +अन्ध्रमद्रकपती जलदेवे काशिपो मरणं एति ।
 यौधेयकार्जुनायनशिविचैद्यान्वैश्वदेवे च ।। ११.५९ ।।

 हन्यात्कैकयनाथं पाञ्चनदं सिंहलाधिपं वाङ्गम् ।
 नैमिषनृपं किरातं श्रवणादिषु षट्स्विमान्क्रमशः ।। ११.६० ।।

 उल्काभिताडितशिखः शिखी शिवः शिवतरो *+अतिदृष्टो[क्.अभिवृष्टो] यः ।
 अशुभः स एव चोलावगाणसितहूणचीनानाम् ।। ११.६१ ।।

नम्रा यतः शिखिशिखाअभिसृता यतो वा
ऋक्षं च यत्स्पृशति तत्कथितांश्च देशान् ।
दिव्यप्रभावनिहतान्स यथा गरुत्मान्
भुङ्क्ते गतो नरपतिः परभोगिभोगान् ।। ११.६२ ।।