बृहत्संहिता/अध्यायः १

विकिस्रोतः तः
बृहत्संहिता
अध्यायः १
वराहमिहिरः
अध्यायः २ →

१ उपनयनाध्यायः

 जयति जगतः प्रसूतिर्विश्वात्मा सहजभूषणं नभसः ।
 द्रुतकनकसदृशदशशतमयूखमालाअर्चितः सविता ।। १.०१ ।।

 प्रथममुनिकथितं अवितथं अवलोक्य ग्रन्थविस्तरस्य अर्थम् ।
 नातिलघुविपुलरचनाभिरुद्यतः स्पष्टं अभिधातुम् ।। १.०२ ।।

 मुनिविरचितं इदं इति यच्चिरन्तनं साधु न मनुजग्रथितम् ।
 तुल्ये +अर्थे +अक्षरभेदादमन्त्रके का विशेषौक्तिः ।। १.०३ ।।

 क्षितितनयदिवसवारो न शुभकृदिति यदि पितामहप्रोक्ते ।
 कुजदिनं अनिष्टं इति वा को +अत्र विशेषो नृदिव्य*कृतेः[क्.कृते] ।। १.०४ ।।

 आब्रह्मऽदिविनिःसृतं आलोक्य ग्रन्थविस्तरं क्रमशः ।
 क्रियमाणकं एव +एतत्समासतो +अतो ममौत्साहः ।। १.०५ ।।

 आसीत्तमः किलैदं तत्रापां तैजसे +अभवद्धैमे ।
 स्वर्भूशकले ब्रह्मा विश्वकृदण्डे +अर्कशशिनयनः ।। १.०६ ।।

 कपिलः प्रधानं आह द्रव्यऽदीन्कणकभुगस्य विश्वस्य ।
 कालं कारणं एके स्वभावं अपरे जगुः कर्म ।। १.०७ ।।

 तदलं अतिविस्तरेण प्रसङ्गवादार्थनिर्णयो +अतिमहान् ।
 ज्योतिःशास्त्राङ्गानां वक्तव्यो निर्णयो +अत्र मया ।। १.०८ ।।

 ज्योतिःशास्त्रं अनेकभेदविषयं स्कन्धत्रयाधिष्ठितं
 तत्कार्त्स्न्यौपनयस्य नाम मुनिभिः संकीर्त्यते संहिता ।
 स्कन्धे +अस्मिन्गणितेन या ग्रहगतिस्तन्त्राभिधानस्त्वसौ
 होराअन्यो +अङ्गविनिश्चयश्च कथितः स्कन्धस्तृतीयो +अपरः ।। १.०९ ।।

 वक्रानुवक्रास्तमयौदयऽद्यास्ताराग्रहाणां करणे मयाउक्ताः ।
 होरागतं विस्तरशश्च जन्मयात्राविवाहैः सह पूर्वं उक्तम् ।। १.१० ।।

 प्रश्नप्रतिप्रश्नकथाप्रसङ्गान्स्वल्पौपयोगान्ग्रहसम्भवाम्श्च ।
 सन्त्यज्य फल्गूनि च सारभूतं भूतार्थं अर्थैः सकलैः प्रवक्ष्ये ।। १.११ ।।