बृहत्पाराशरहोराशास्त्रम्/अध्यायः ५३ (चन्द्रान्तर्दशाफलाध्यायः)

विकिस्रोतः तः
← अध्यायः ५२ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ५४ →


 
 अथ चन्द्रान्तर्दशाफलाध्यायः ||५३||

स्वोच्चे स्वक्षेत्रगे चन्द्रे त्रिकोणे लाभगेऽपि वा |
भाग्यकर्माधिपैर्युक्ते गजाश्वाम्बरसंकुलम् ||१||

देवतागुरुभक्तिश्च पुण्यश्लोकादिकीर्तनम् |
राज्यलाभो महत्सौख्यं यशोवृद्धिः सुखावहा ||२||

पूर्णे चन्द्रे बलं पूर्णं सेनापत्यं महत्सुखम् |
पापयुक्तेऽथवा चन्द्रे नीचे वा रिष्फषष्ठगे ||३||

अतकाले धननाशः स्यात्स्थानच्युतिरथापि वा |
देहलस्यं मनस्तपो राजमन्त्रिविरोधकृत् ||४||

मातृक्लेशो मनोदुःखं निगडं बन्धुनाशनम् |
द्वितीयद्यूननाथे तु रन्ध्ररिष्फेशसंयुते ||५||

देहजाड्यं महाभङ्गमपमृत्योभयं वदेत् |
श्वेतां गां महिषीं दद्यात् स्वदशान्तर्गते विधौ ||६||

चन्द्रस्यान्तर्गते भौमे लग्नात्केन्द्रत्रिकोणगे |
सौभाग्यं राजसन्मानं वस्त्रभरणभूषणम् ||७||

यत्नात् कार्यार्थसिद्धिस्तु भविष्यति न सम्शयः |
गृहक्षेत्राभिवृद्धिश्च व्यवहारे जयो भवेत् ||८||

कार्यलाभो महत्सौख्यं स्वोच्चे स्वक्षेत्रगे फलम् |
तथाऽष्टमव्यये भौमे पापयुक्तेऽथ वा यदि ||९||

दायशादशुभस्थाने देहार्तिः परवीक्षिते |
गृहक्षेत्रादिहानिश्च व्यवहारे तथा क्षतिः ||१०||

मृत्युवर्गेषु कलहो भूपालस्य विरोधनम् |
आत्मबन्धुवियोगश्च नित्यं निष्ठुरभाषणम् ||११||

द्वितीये द्यूननाथे तु रन्ध्रे रन्ध्राधिपो यदा |
तत्तोषपरिहारार्थं ब्राह्मणस्याऽर्चनं चरेत् ||१२||

चन्द्रस्यान्तर्गते राहौ लग्नात्केन्द्रत्रिकोणगे |
आदौ स्वल्फलं ज्ञेयं शत्रुपीडा महद्भयम् ||१३||

चौराहिराजभीतिश्च चतुष्पाज्जिवपीडनम् |
बन्धुनाशो मित्रहानिर्मानहानिर्मनोव्यथा ||१४||

शुभयुक्ते शुभैर्दृष्टे लग्नादुपचयेऽपि वा |
योगकारकसम्बन्धे सर्वकार्यार्थसिद्धिकृत् ||१५||

नैरृत्ये पश्चिमे भावे क्वचित्प्रभुसमागमः |
वाहनामबरलाभश्च स्वेष्टकार्यार्थसिद्धिकृत् ||१६||

दायेशादथ रन्ध्रथे व्यये वा बलवर्जिते |
स्थानभ्रंशो मनोदुखं पुत्रक्लेशो महद्भयम् ||१७||

दारपीडा क्वचिज्ज्ञेया क्वचित्स्वाङ्गे रुजोभयम् |
वृश्चिकादिविषाद्भीतिश्चौराहिनृपपीडनम् ||१८||

दायेशात्केन्द्रकोणे व दुश्चिक्ये लाभगेऽपि वा |
पुण्यतीर्थफलावाप्तिर्देवतादर्शनं महत् ||१९||

परोपकारकर्मादिपुण्यकर्मादिसंप्रहः |
द्वितीयद्यूनराशिअथे देहबाधा भविष्यति ||२०||

तद्दोषपरिहारार्थं रुद्रजाप्यं समाचरेत् |
छागदानं प्रकुर्वीत देहारोग्यं प्रजायते ||२१||

चन्द्रस्यान्तर्गते जीवे लग्नात्केन्द्रत्रिकोणगे |
स्वगेहे लाभगे स्वोच्चे राज्यलाभो महोत्सवः ||२२||

वस्त्राऽलङ्कारभूषाप्ती राजप्रीतिर्धनागमः |
इष्टदेवप्रसादेन गर्भाधानादिकं फलम् ||२३||

तथा शोभनकार्याणि गृहे लक्ष्मीः कटाक्षकृत् |
राजाश्रयं धनं भूमिगजवाजिसमन्वितम् ||२४||

महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा |
ष.ष्ठाष्टमव्यये जीवे नीच वास्तङ्गते यदि ||२५||

पापयुक्तेऽशुभं कर्म गुरुपुत्रादिनाशनम् |
स्थानभ्रंशो मनोदुःखमकस्मात्कलहो ध्रुवम् ||२६||

गृहक्षेत्रादिनाशश्च वाहनाम्बरनाशनम् |
दायेशात्केन्द्रकोणे वा दुश्चिक्ये लाभगेऽपि वा ||२७||

भोजनाम्बरपरवादि=लाभं सौख्यं करोति च |
ब्र्हात्रादिसुखसम्पत्तिं धैर्यं वीर्यपराक्रमम् ||२८||

यज्ञव्रतविवाहादिराज्यश्रीधनसम्पदः |
दायेशाद्रिपुरन्ध्रस्थे व्यये वा बलवर्जिते ||२९||

करोति कुत्सिनान्नं च विदेशगमनं तथा |
भुक्त्यादौ शोभनं प्रोक्तमन्ते क्लेशकरं भवेत् ||३०||

द्वितीयद्यूननाथे च ह्यपमृत्युर्भविष्यति |
तद्दोषपरिहारार्थं शिवसाहस्रकं जपेत् |
स्वर्णदानमिति प्रोक्तं सर्वकष्टनिवारकम् ||३१||

चन्द्रस्यान्तर्गते मन्दे लग्नात्केन्द्रत्रिकोणगे |
स्वक्षेत्रे स्वांशगे चैव मन्दे तुङ्गांशसंयुते ||३२||

शुभदृष्टयुते वाऽपि लाभे वा बलसंयुते |
पुत्रमित्रार्थसम्पत्तिः शूद्रप्रभुसमागमात् ||३३||

व्ययसायात्फलाधिक्यं गृहे क्षेत्रादिवृद्धिदम् |
पुत्रलाभश्च कल्याणं राजानुग्रहवैभवम् ||३४||

षष्ठाष्टमव्यये मन्दे नीचे वा धनगेऽपि वा |
तद्भुक्त्यादौ पुण्यतीर्थे स्नानं चैव तु दर्शनम् ||३५||

अनेकजनत्रासश्च शस्त्रपीडा भविष्यति |
दायेशात्केन्द्रराशिस्थे त्रिकोणे बलगेऽपि वा ||३६||

क्वचित्सौख्यं धनाप्तिश्च दारपुत्रविरोधकृत् |
द्वितीयद्यूनरन्ध्रस्थे देहबाधा भविष्यति ||३७||

तद्दोषपरिहारार्थं मृत्युञ्जयजपं चरेत् |
कृष्णां गां महिषीं दद्याद्दानेमारोग्यमादिशेत् ||३८||

चन्द्रस्यान्तर्गते सौम्ये केन्द्रलाभत्रिकोणगे |
स्वर्क्षे निजांशके सौम्ये तुङ्गे वा बलसंयुते ||३९||

धनागमो राजमानप्रियवस्त्रादिलाभकृत् |
विद्याविनोदसद्गोष्ठी ज्ञानवृद्धिः सुखावहा ||४०||

सन्तानप्राप्तिः सन्तोषो वाणिज्याद्धनलाभ्कृत् |
वाहनच्छत्रसंयुक्तनानालङ्कारलाभकृत् ||४१||

दायेशात्केन्द्रकोणे वा लाभे वा धनगेऽपि वा |
विवाहो यज्ञदीक्षा च दानधर्मशुभादिकम् ||४२||

राजप्रीतिकरश्चैव विद्वज्जनसमागमः |
मुक्तामणिप्रवालानि वाहनाम्बरभूषणम् ||४३||

आरोग्यप्रीतिसौख्यं च सोमपानादिकं सुखम् |
दायेशाद्रिपुरन्ध्रस्थे व्यये वा नीचगेऽपि वा ||४४||

तद्भुक्तौ देहबाधा च कृर्षिगोभूमिनाशनम् |
कारागृहप्रवेशाश्च दारपुत्रादिपीडनम् ||४५||

द्वितीयद्यूननाथे तु ज्वरपीडा महद्भयम् |
छागदानं प्रकुर्वीत विष्णुसाहस्रकं जपेत् ||४६||

चन्द्रस्यान्तर्गते केतौ केन्द्रलाभत्रिकोणगे |
दुश्चिक्ये बलसंयुक्ते धनलाभं महत्सुखम् ||४७||

पुत्रदारादिसौख्यं च विधिकर्म करोति च |
भुक्त्यादौ धनहानिः स्यान्मध्यगे सुखमाप्नुयात् ||४८||

दायेशात्केन्द्रलाभे वा त्रिकोणे बलसंयुते |
क्वचित्फलं दशादौ तु दद्यात् सौख्यं धनागमम् ||४९||

गोमहिष्यादिलाभं च भुक्त्यन्ते चार्थनाशनम् |
पापयुक्तेऽथवा दृष्टे दायेशाद्रन्ध्ररिःफगे ||५०||

शत्रुतः कार्यहानिः स्यादकस्मात्कलहो ध्रुवम् |
द्वितीयद्यूनराशिस्त्य्हे ह्यनारोग्यं महद्भयम् ||५१||

मृत्युञ्जयजपं कुर्यात् सर्वसम्पत्प्रदायकम् |
ततः शान्तिमवाप्नोति शङ्करस्य प्रसादतः ||५२||

चन्द्रस्यान्तर्गते शुक्रे केन्द्रलाभत्रिकोणगे |
स्वोच्चे स्वक्षेत्रगे वापि राज्यलाभं करोति च ||५३||

महाराजप्रसादेन वाहनाम्बरभूषणम् |
चतुष्पाज्जिवलाभः स्याद्दारपुत्रादिवर्धनम् ||५४||

नूतनागारनिर्माणं नित्यं मिष्ठान्नभोजनं |
सुगन्धपुष्पमाल्यादिरम्यस्त्र्यारोग्यसम्पदम् ||५५||

दशाधिपेन संयुक्ते देहसौख्यं महत्सुखम् |
सत्कीर्तिसुखसम्पत्तिगृहक्षेत्रादिवृद्धिकृत् ||५६||

नीचे वाऽस्तङ्गते शुक्रे पापग्रहयुतेक्षिते |
भूनाशः पुत्रमित्रादिनाशनं पत्निनाशनम् ||५७||

चतुष्पाज्जिवहानिः स्याद्राजद्वारे विरोधकृत् |
धनस्थानगते शुक्रे स्वच्चे स्वक्षेत्रसंयुते ||५८||

निधिलाभं महत्सौख्यं भू लाभं पुत्रसम्भवम् |
भाग्यलाभादिपैर्युक्ते भाग्यवृद्धिः करोत्यसौ ||५९||

महाराजप्रसादेन स्वेष्टसिद्धिः सुखावहा |
देवब्राह्मणभक्तिश्च मुक्तविद्रुमलाभकृत् ||६०||

दायशाल्लाभगे शुक्रे त्रिकोणे केन्द्रगेऽपि वा |
गृहक्षेत्राभिवृद्धिश्च वित्तलाभो महत्सुखम् ||६१||

दायेशाद्रिपुरन्ध्रस्थे व्यये वा पापसंयुते |
विदेशवासदुःखार्तिमृत्युचौरादिपीडनम् ||६२||

द्वितीयद्यूननाथे तु अपमृत्युभयं भवेत् |
तद्दोषविनिवृत्त्यर्थं रुद्रजाप्यं च कारयेत् ||६३||

श्वेतां गां रजतं दद्याच्छन्तिमाप्नोत्यसंशयः |
शङ्करस्य प्रसादेन नाऽत्र कार्या विचारणा ||६४||

चन्द्रस्यान्तर्गते भानौ स्वोच्चे स्वक्षेत्रसंयुते |
केन्द्रे त्रिकोणे लाभे वा धने वा सोदरालये ||६५||

नष्टराज्यधनप्राप्तिर्गृहे कल्याणशोभनम् |
मित्रराजप्रसादेन ग्रामभूम्यादिलाभ्कृत् ||६६||

गर्भाधानफलप्राप्तिर्गृहे लक्ष्मीः कटाक्षकृत् |
भुक्त्यन्ते देह आलस्यं ज्वरपीडा भविष्यति ||६७||

दायेशादपि रन्ध्रस्थे व्यये वा पापसंयुते |
नृपचौराहिभीतिश्च ज्वररोगादिसम्भवः ||६८||

विदेशगमने चार्ति लभते न संशयः |
द्वितीयद्यूननाथे तु ज्वरपीडा भविष्यति ||६९||

तद्दोषपरिहारार्थं शिवपूजां च कारयेत् |
ततः शान्तिभवाप्नोति शाङ्करस्य प्रसादतः ||७०||

-