बृहत्पाराशरहोराशास्त्रम्/अध्यायः ४७ (दशाफलाद्यायः)

विकिस्रोतः तः
← अध्यायः ४६ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्
अध्यायः ४८ →



 अथ दशाफलाद्यायः ||४७||

श्रुताश्च बहुधा भेदा दशानां च मया मुने |
फलं च कीदृशं तासां कृपया मे तदुच्यताम् ||१||

साधारणं विशिष्टञ्च दशानां द्विविधं फलम् |
ग्रहाणां च स्वभावेन स्थानस्थितिवशेन च ||२||

ग्रहवीर्यानुसारेण फलं ज्ञेयं दशासु च |
आद्यद्रेष्काणगे खेटे दशारम्भे फलं वदेत् ||३||

दशामध्ये फलं वाच्यं मध्यद्रेष्काणगे खगे |
अन्ते फलं तृतीयस्थे व्यस्तं खेटे च वक्रगे ||४||

दशारम्भे दशादीशे लग्नगे शुभदृग्युते |
स्वोच्चे स्वभे स्वमैत्रे वा शुभं तस्य दशाफलम् ||५||

षष्ठाऽष्टमव्ययस्थे च नीचास्तरिपुभस्थिते |
अशुभं तत्फलं चाऽथ ब्रुवे सर्वदशाफलम् ||६||

मूलत्रिकोणे स्वक्षेत्रे स्वोच्चे वा परमोच्चगे |
केन्द्रत्रिकोणलाभस्थे भाग्यकर्माधिपैर्युते ||७||

सूर्ये बलसमायुक्ते निजवर्गबलैर्युते |
तस्मिन्दाये महत् सौख्यं धनलाभादिकं शुभम् ||८||

अत्यन्तं राजसन्मानमश्वांदोल्यादिकं शुभम् |
सुताधिपसमायुक्ते पुत्रलाभं च विन्दति ||९||

धनेशस्य च सम्बन्धे गजान्तैश्वर्यमादिशेत् |
वाहनाधिपसम्बन्धे वाहनात्रयलाभकृत् ||१०||

नृपलतुष्टिर्वित्ताढ्यः सेनाधीशः सुखी नरः |
वस्त्रवाहनलाभश्च दशायां बलिनो रवेः ||११||

नीचे षडष्टके रिःफे दुर्बले पापसंयुते |
राहुकेतुसमायुक्ते दुह्स्थानाधिपसंयुते ||१२||

तस्मिन्दाये महापीडा धनधान्यविनाशकृत |
राजकोपः प्रवासश्च राजदण्डो धनक्षयः ||१३||

ज्वरपीडा यशोहानिर्बन्धुमित्रविरोधकृत |
पितृक्षयभयं चैव गृहे त्वशुभमेव च ||१४||

पितृवर्गे मनस्तापं जन्द्वेषं च विन्दति |
शुभदृष्टियुते सूर्ये मध्ये तस्मिन् क्वचित्सुखम् |

पापग्र्हेण सन्दृष्टे वदेत्पापफलं बुधः ||१५||
एवं सूर्यफलं विप्र संक्षेपादुदितं मया |

विंशोत्तरीमतेनाथ ब्रुवे चन्द्रदशाफलम् ||१६||
स्वोच्चे स्वक्षेत्रगे चैव केन्द्रे लाभत्रिकोणगे |

शुभग्रहेण संयुक्ते पूर्णे चन्द्रेबलैर्युते ||१७||
कर्मभाग्याधिपैर्युक्ते वाहनेशबलैर्युते |

आद्यन्तैश्वर्यसौभाग्यधनधान्यादिलाभकृत ||१८||
गृहे तु शुभकार्याणि वाहनं राजदर्शनम् |

यत्नकार्यार्थसिद्धिः स्याद् गृहे लक्ष्मीकटाक्षकृत् ||१९||
मित्रप्रभुवशाद्भाग्यं राज्यलाभं महत्सुखम् |

अश्वान्दोल्यादिलाभं च श्वेतवस्त्रादिकं लभेत् ||२०||
पुत्रलाभादिसन्तोषं गृहगोधनसंकुलम् |

धनस्थानगते चन्द्रे तुङ्गे स्वक्षेत्रगेऽपि वा ||२१||
अनेकधनलाभं च भाग्यवृद्धिर्महत्सुखम् |

निक्षेपराजसन्मानं विद्यालाभं च विन्दति ||२२||
नीचे वा क्षीणचन्द्रे वा धनहानिर्भविष्यति |

दुश्चिक्ये बलसंयुक्ते क्वचित्सौख्यं क्वचिद्धनम् ||२३||
दुर्बले पापसंयुक्ते देहजाड्यं मनोरुजम् |

भृत्यपीडा वित्तहानिर्मातृवर्गजनाद्वधः ||२४||
षष्ठाष्टमव्यये चन्द्रे दुर्बले पापसंयुते |

राजद्वेषो मनोदुःखं धनधान्यादिनाशनम् ||२५||
मातृक्लेषं मनस्तापं देहजाड्यं मनोरुजम् |

दुःस्थे चन्द्रे बलैर्युक्ते क्वचिल्लाभं क्वचित्सुखम् |
देहजाड्यं क्वचिच्चैव शान्त्या तत्र शुभं दिशेत् ||२६||

स्वभोच्चादिगतस्यैवं नीचशत्रुभगस्य च |
ब्रवीमि भूमिपुर्तस्य शुभाऽशुभदशाफलम् ||२७||

परमोच्चगते भौमे स्वोच्चे मूलत्रिकोणगे |
स्वर्क्षे केन्द्रत्रिकोणे वा लाभे वा धनगेऽपि वा ||२८||

सम्पूर्णबलसंयुक्ते शुभदृष्टे शुभांशके |
राज्यलाभं भूमिलाभं धनधान्यादिलाभकृत् ||२९||

आधिक्यं राजसम्मानं वाहनाम्बरभूषणम् |
विदेशे स्थानलाभं च सोदराणां सुखं लभेत् ||३०||

केन्द्रे गते सदा भौमे दुश्चिक्ये बलसंयुते |
पराक्रमाद्वित्तलाभो युद्धे शत्रुजयो भवेत् ||३१||

कलत्रपुत्रविभवं राजसम्मानमेव च |
दशादौ सुखमाप्नोति दशान्ते कष्टमादिशेत् ||३२||

नीचादिदुष्टभावस्थे भौमे बलविवर्जिते |
पापयुक्ते पापदृष्टे सा दशा नेष्टदायिका ||३३||

एवं राहोश्च केतोश्च कथयामि गृहादिकम् |
तयोर्दशाफलज्ञप्त्यै तवाऽग्रे द्विजनन्दन ||३४||

राहोस्तु वृषभं केतोर्वृश्चिकं तुङ्गसंज्ञकम् |
मूलत्रिकोणकं ज्ञेयं युग्मं चापं क्रमेण च ||३५||

कुम्भाली च गृहौ प्रोक्तौ कन्यामीनौ च केनचित् |
तद्दाये बहुसौख्यं च धनधान्यादिसम्पदाम् ||३६||

मित्र्प्रभुवशादिष्टं वाहनं पुत्रसम्भवः |
नवीनगृहनिर्माणं धर्मचिन्ता महोत्सवः ||३७||

विदेशराजसन्मानं वस्त्रालङ्कारभूषणम् |
शुभयुक्ते शुभैर्दृष्टे योगकारकसंयुते ||३८||

केन्द्रत्रिकोओणलाभे वा दुश्चिक्ये शुभराशिगे |
महाराजप्रसादेन सर्वसम्पत्सुखावहम् ||३९||

यवनप्रभुसन्मानं ग्र्हे कल्याणसम्भवम् |
रन्ध्रे वा व्ययगे राहौ तद्दाये कष्टमादिशेत् ||४०||

पापग्रहेण सम्बन्धे मारकग्र्हसंयुते |
नीचराशिगते वापि स्थानभ्रंशो मनोव्यथा ||४१||

विनाशो दारपुत्राणां कुत्सितान्नं च भोजनम् |
दशादौ देहपीडा च धनधान्यपरिच्युतिः ||४२||

दशामध्ये तु सौख्यं स्यात् स्वदेशे धनलाभकृत् |
दशान्ते कष्टमाप्नोति स्थानभ्रंशो मनोव्यथा ||४३||

यः सर्वेषु नाभोगेषु बुधैरतिशुभः स्मृतः |
तस्य देवेन्द्रपूज्यस्य कथयामि दशाफलम् ||४४||

स्वोच्चे स्वक्षेत्रगे जीवे केन्द्रे लाभत्रिकोणगे |
मूलत्रिकोणलाभे वा तुंगांशे स्वांशगेऽपि वा ||४५||

राज्यलाभं महापौरुषं राजसन्मानकीर्तनम् |
गजवाजिसमायुक्तं देवब्राह्मणपूजनम् ||४६||

दारपुत्रादिसौख्यं च वाहनांबरलाभजम् |
यज्ञादिकर्मसिद्धिः स्याद्वेदान्तश्रवणादिकम् ||४७||

महाराजप्रसादेनाऽभीष्टसिद्धिः सुखावहा |
आन्दोलिकादिलाभश्च कल्याणं च महत्सुखम् ||४८||

पुत्रदारादिलाभश्च अन्नदानं महत्प्रियम् |
नीचास्तपापसंयुक्ते जीवै रिष्फाष्टसंयुते ||४९||

स्थानभ्रंशं मनस्तापं पुत्रपीडामहद्भयम् |
पश्वादिधनहानिश्च तीर्थयात्रादिकं लभेत् ||५०||

आदौ कष्टफलं चैव चतुष्पाज्जीवलाभकृत् |
मध्यान्ते सुखमाप्नोति राजसम्मानवैभवम् ||५१||

अथ सर्वेषु खेटेषु योऽतिहीनः प्रकीर्तितः |
तस्य भास्करपुत्रस्य कथयामि दशाफलम् ||५२||

स्वोच्चे स्वक्षेत्रगे मन्दे मित्रक्षेत्रेऽथ वा यदि |
मूलत्रिकोणे भाग्ये वा तुंगांशे स्वांशगेऽपि वा ||५३||

दुश्चिक्ये लाभगे चैव राजसम्मानवैभवम् |
सत्कीर्तिर्धनलाभश्च विद्यावादविनोदकृत् ||५४||

महाराजप्रसादेन गजवाहनभूषणम् |
राजयोगं प्रकुर्वीत सेनाधीशान्महत्सुखम् ||५५||

लक्ष्मीकटाक्षचिह्नानि राज्यलाभं करोति च |
गृहे कल्याणसम्पत्तिर्दारपुत्रादिलाभकृत् ||५६||

षष्ठाष्टमव्यये मन्दे नीचे वाऽस्तङ्गतेऽपि वा |
विषशस्त्रादिपीडा च स्थाभ्रंशं महद्भयम् ||५७||

पितृमातृवियोगं च दारपुत्रादिपीडनम् |
राजवैसःअम्यकार्याणि ह्यनिष्टं बन्धनं तथा ||५८||

शुभयुक्तेक्षिते मन्दे योगकारकसंयुते |
केन्द्रत्रिकोणलाभे वा मीनगे कार्मुके शनौ ||५९||

राज्यलाभं महोत्साहं गजश्वाम्बरसंकुलम् ||६०||
अथ सर्वनभोगेषु यः कुमारः प्रकीर्तितः |

तस्य तारेशपुत्रस्य कथयामि दशाफलम् ||६१||
स्वोच्चे स्वक्षेत्रसंयुक्ते केन्द्रलाभत्रिकोणगे |

मित्रक्षेत्रसमायुक्ते सौम्ये दाये महत्सुखम् ||६२||
धनधान्यादिलाभं च सत्कीर्तिधनसम्पदाम् |

ज्ञानाधिक्यं नृपप्रीतिं सत्कर्मगुणवर्द्धनम् ||६३||
पुत्रदारादिसौख्यं च देहारोग्यं महत्सुखम् |

क्षीरेण भोजनं सौख्यं व्यापाराल्लभते धनम् ||६४||
शुभदृष्टियुते सौम्ये भाग्ये कर्माधिपे दशा |

आधिपत्ये बलवती सम्पूर्ण्फलदादिका ||६५||
पापग्रहयुते दृष्टे राजद्वेषं मनोरुजम् |

बन्धुजनविरोधं च विदेशगमनं लभेत् ||६६||
परप्रेष्यं च कलहं मूर्तकृर्च्छान्महन्भयम् |

षष्ठाष्टमव्यये सौम्ये लाभभोगार्थनाशनम् ||६७||
वातपीडां धनं चैवं पाण्डुरोगं विनिर्दिशेत् |

नृपचौराग्निभीतिं च कृषिगोभूमिनाशनम् ||६८||
दशादौ धनधान्यं च विद्यालाभं महत्सुखम् |

पुत्रकल्याणसम्पत्तिः सन्मार्गे धनलाभकृत् ||६९||
मध्ये नरेन्द्रसन्मानमन्ते दुःखं भविष्यति ||७०||

यस्तमोग्रहयोर्मध्ये कबन्धः कथ्यते बुधैः |
तस्य केतोरिदानीं ते कथेयामि दशाफलम् ||७१||

केन्द्रे लाभे त्रिकोणे व शुभराशौ शुभेक्षिते |
स्वोच्चे वा शुभवर्गे वा राजप्रीतिं मनोनुगम् ||७२||

देशाग्रामाधिपत्यं च वाहनं पुत्रसम्भवम् |
देशान्तरप्रयाणं च निर्दिशेत् तत् सुखावहम् ||७३||

पुत्रदारसुखं चैव चतुष्पाज्जीवलाभकृत् |
दुश्चिक्ये षष्ठलाभे वा केतुर्दाये सुखं दिशेत् ||७४||

राज्यं करोति मित्रांशं गजवाजिसमन्वितम् |
दशदौ राजयोगश्च दशामध्ये महद्भयम् ||७५||

अन्ते दूराटनं चैव देहविश्रमणं तथा |
धने रन्ध्रे व्यये केतौ पापदृष्टियुतेक्षिते ||७६||

निगडं बन्धुनाशं च स्थानभ्रंशं मनोरुजम् |
शूद्रसङ्गादिलाभं च कुरुते रोगसंकुलम् ||७७||

अथ भूतेषु यः शुक्रा मदरूपेण तिष्ठति |
तस्य दैत्यगुरोर्विप्र कथयामि दशाफलम् ||७८||

परमोच्चगते शुक्रे स्वोच्चे स्वक्षेत्रकेन्द्रगे |
नृपाऽभिषेकसम्प्राप्तिर्वाहनाऽम्बरभूषणम् ||७९||

गजाश्वपशुलाभं च नित्यं मिष्ठान्नभोजनम् |
अखण्डमण्डलाधीशाराजसन्मानवैभवम् ||८०||

मृदङ्गवाद्यघोषं च गृहे लक्ष्मीकटाक्षकृत् |
त्रिकोणस्थे निजे तस्मिन् राज्यार्थगृहहसम्पदः ||८१||

विवाहोत्सवकार्याणि पुत्रकल्याणवैभवम् |
सेनाधिपत्यं कुरुते इष्टबन्धुसमागनम् ||८२||

नष्टराज्याद्धनप्राप्तिं गृहे गोधनसङ्ग्रहम् |
षष्ठाष्टमव्यये शुक्रे नीचे वा व्ययराशिगे ||८३||

आत्मबन्धुजनद्वेषं दारवर्गादिपीडनम् |
व्यवसायात्फ्लं नष्टं गोमहिष्यादिहानिकृत् ||८४||

दारपुत्रादिपीडा वा आत्मबन्धुवियोगकृत् |
भाग्यकर्माधिपत्येन लग्नवाहनराशिगे ||८५||

तद्दशायां महत्सौख्यं देशग्रामाधिपालता |
देवालयतडागादिपुण्यकर्मसु संग्रहः ||८६||

अन्नदाने महत्सौख्यं नित्यं मिष्ठान्नभोजनम् |
उत्साहः कीर्तिसम्पत्ती स्त्रीपुत्रधनसम्पदः ||८७||

स्वभुक्तौ फलमेवं स्याद्बलान्यन्यानि भुक्तिषु |
द्वितीयद्यूननाथे तु देहपीडा भविष्यति ||८८||

तद्दोषपरिहारार्थं रुद्रं वा त्र्यम्बकं जपेत् |
स्वेतां गां महिषीं दव्यादारोग्यं च ततो भवेत् ||८९||

-