बृहत्पाराशरहोराशास्त्रम्/अध्यायः ९७ (अथोपसंहाराध्यायः)

विकिस्रोतः तः
← अध्यायः ९६ ज्योतिषम्
बृहत्पाराशरहोराशास्त्रम्

अथोपसंहाराध्यायः ॥ ९७॥


यच्छास्त्रं ब्रह्मणा प्रोक्तं नारदाय महात्मने ।
तदेव शौनकादिभ्यो नारदः प्राह सादरम् ॥ १॥

ततो मया यथा ज्ञातं तुभ्यमुक्तं तथा द्विज ।
नासूयकाय दातव्यं परनिन्दारताय वा ॥ २॥

जडाय दुर्विनीताय नाज्ञाताय कदाचन ।
देयमेतत्सुरिलाय भक्ताय सत्यवादिने ॥ ३॥

मेधाविने विनीताय सम्यग् ज्ञातकुलाय च ।
पुण्यदं ज्यौतिषं शास्त्रमग्र्यं वेदाङ्गमुत्तमम् ॥ ४॥

जानाति कालमानं यो ग्रहर्क्षाणां च संस्थितिम् ।
होराशास्त्रमिदं सम्यक् स विजानाति नाऽपरः ॥ ५॥

होराशास्त्रार्थतत्त्वज्ञः सत्यवाग् विजितेन्द्रियः ।
शुभाऽशुभं फलं वक्ति सत्यं तद्वचनं भवेत् ॥ ६॥

ये सुशास्त्रं पठन्तीदं ये वा शृण्वन्ति भक्तितः ।
तेषांमायुर्बलं वित्तं वृद्धिमेति यशः सदा ॥ ७॥

इत्थं पराशरेणोक्तं होराशास्त्रं चमत्कृतम् ।
नवं नवजनप्रीत्यै विविधाध्यायसंयुतम् ॥ ८॥

श्रेष्ठं जगद्धितायेदं मैत्रेयाय द्विजन्मने ।
ततः प्रचरितं पृथ्व्यामादृतं सादरं जनैः ॥ ९॥

ग्रन्थेऽस्मिन् पृथगध्यायैर्विषया विनिवेशिताः ।
सृष्टिक्रमोऽवताराश्च गुणाः खेटस्य भस्य च ॥ १०॥

विशेषलग्नं वर्गाश्च तद्विवेकश्च राशिदृक् ।
अरिष्टं तद्विभङ्गश्च विवेको भावजस्तथा ॥ ११॥

भावानां च फलाध्यायो भावेशोत्थफलं तथा ।
अप्रकाशफलं स्पष्टखेटदृष्टिप्रसाधनम् ॥ १२॥

ततः स्पष्टबलाध्यायः इष्टकष्टप्रसाधनम् ।
पदं चोपपदं तद्वदर्गला त्वथ कारकाः ॥ १३॥

कारकांशफलं योगकारकाध्याय एव च ।
नाभसा विविधा योगाश्चन्द्रयोगोऽर्कयोगकः ॥ १४॥

राजयोगस्ततः प्रोक्तो राजसम्बन्धयोगकः ।
विशेषधनयोगाश्च योगा दारिद्र्यकारकाः ॥ १५॥

आयुर्मारकभेदाश्च ग्रहावस्थाः फलान्विताः ।
नानाविधदशाध्यायास्तत्फलाध्यायः संयुताः ॥ १६॥

अन्तःप्रत्यन्तरप्राणसूक्ष्मसंज्ञाश्च तद्भिदाः ।
सूर्याद्यष्टकवर्गश्च त्रिकोणपरिशोधनम् ॥ १७॥

एकाधिपत्यसंशुद्धिस्ततः पिण्डप्रसाधनम् ।
ततश्चाऽष्टकवर्गाणां प्रस्फुटानि फलानि च ॥ १८॥

ततोऽप्यष्टकवर्गायुःसाधनं च ततः परम् ।
समुदायाष्टवर्गोत्थफलाध्यायः परिस्फुटः ॥ १९॥

ग्रहरश्मिफलाध्यायः सुदर्शनफलं तथा ।
महापुरुषचिह्नानि महाभूतफलानि च ॥ २०॥

गुणत्रयफलाध्यायस्ततोऽप्यज्ञातजन्मनाम् ।
जन्मलग्नादिविज्ञानं प्रव्रज्यालक्षणानि च ॥ २१॥

स्त्रीणां च फलवैष्ट्यमङ्गलक्ष्मफलानि च ।
पूर्वपापोत्थशापोत्थयोगा वैपुत्र्यकारकाः ॥ २२॥

सत्पुत्रप्राप्त्युपायाश्च सहैव प्रतिपादिताः ।
जन्मन्यनिष्टलग्नर्क्षतिथ्यादिप्रतिपादनम् ॥ २३॥

तत्तच्छान्तिविधिश्चैव संक्षेपेण प्रदर्शितः ।
प्रसवस्य विकाराश्च कथिताः शान्तिसंयुताः ॥ २४॥

एवं जातकवर्येऽत्र निविष्टा विषयाः शतम् ।
विज्ञाय विबुधास्त्वेतान् प्राप्नुवन्तु यशः श्रियम् ॥ २५॥