बुद्धचरितम्/चतुर्दशः सर्गः

विकिस्रोतः तः
← त्रयोदशः सर्गः बुद्धचरितम्
चतुर्दशः सर्गः
अश्घोषविरचितम्
पञ्चदशः सर्गः →

ततो मारबलं जित्वा धैर्येण च शमेन च
परमार्थं विजिज्ञासुः स दध्यौ ध्यानकोविदः ।। १४.१ ।।

सर्वेषु ध्यानविधिषु प्राप्य चैश्वर्यं उत्तमं
सस्मार प्रथमे यामे पूर्वजन्मपरंपरां ।। १४.२ ।।

अमुत्राहं अयं नाम च्युतस्तस्मादिहागतः
इति जन्मसहस्राणि सस्मारानुभवन्निव ।। १४.३ ।।

स्मृत्वा जन्म च मृत्युं च तासु तासूपपत्तिषु
ततः सत्त्वेषु कारुण्यं चकार करुणात्मकः ।। १४.४ ।।

कृत्वेह स्वजनोत्सर्गं पुनरन्यत्र च क्रियाः
अत्राणः खलु लोकोऽयं परिभ्रमति चक्रवथ् ।। १४.५ ।।

इत्येवं स्मरतस्तस्य बभूव नियतात्मनः
कदलीगर्भनिःसारः संसार इति निश्चयः ।। १४.६ ।।

द्वितीये त्वागते यामे सोऽद्वितीयपराक्रमः
दिव्यं (लेभे चक्षुः )परं (चक्षुः लेभे सर्वचक्षुष्मतां वरः ।। १४.७ ।।

ततस्तेन स दिव्येन परिशुद्धेन चक्षुषा
ददर्श निखिलं लोकं आदर्शए इव निर्मले ।। १४.८ ।।

सत्त्वानां पश्यतस्तस्य निकृष्टोत्कृष्टकर्मणां
प्रच्युतिं चोपपत्तिं च ववृधे करुणात्मता ।। १४.९ ।।

इमे दुष्कृतकर्माणः प्राणिनो यान्ति दुर्गतिं
इमेऽन्ये शुभकर्माणः प्रतिष्ठन्ते त्रिपिष्टपे ।। १४.१० ।।

उपपन्नाः प्रतिभये नरके भृशदारुणे
अमी दुःखैर्बहुविधैः पीड्यन्ते कृपणं (बत वत ) ।। १४.११ ।।

पाय्यन्ते क्वथितं केचिद् अग्निवर्णं अयोरसं
आरोप्यन्ते रुवन्तोऽन्ये निष्टप्तस्तम्भं आयसं ।। १४.१२ ।।

पच्यन्ते पिष्टवत्केचिद् अयस्कुम्भीष्ववाङ्मुखाः
दह्यन्ते करुणं केचिद् दीप्तेष्वङ्गारराशिषु ।। १४.१३ ।।

केचित्तीक्ष्णैरयोदंष्ट्रैर् भक्ष्यन्ते दारुणैः श्वभिः
केचिद्धृष्टैरयस्तुण्डैर् वायसैरायसैरिव ।। १४.१४ ।।

केचिद्दाहपरिश्रान्ताः शीतच्छायाभिकाङ्क्षिणः
असि(पत्त्रवनं पत्रं वनं )नीलं बद्धा इव विशन्त्यमी ।। १४.१५ ।।

पाट्यन्ते दारुवत्केचिथ् कुठारैर्(बद्धबहु)बाहवः
दुःखेऽपि न (विपच्यन्ते विपद्यन्ते कर्मभिर्धारितासवः ।। १४.१६ ।।

सुखं स्यादिति यत्कर्म कृतं दुःखनिवृत्तये
फलं तस्येदं अवशैर् दुःखं एवोपभुज्यते ।। १४.१७ ।।

सुखार्थं अशुभं कृत्वा यए एते भृशदुःखिताः
आस्वादः स किं एतेषां करोति सुखं अण्वपि ।। १४.१८ ।।

हसद्भिर्यत्कृतं कर्म कलुषं कलुषात्मभिः
एतत्परिणते काले क्रोशद्भिरनुभूयते ।। १४.१९ ।।

यद्य्(एवं एव )पापकर्माणः पश्येयुः कर्मणां फलं
वमेयुर्(उष्णं रुधिरं उष्णरुधिरं मर्मस्वभिहता इव ।। १४.२० ।।

शारीरेभ्योऽपि दुःखेभ्यो नारकेभ्यो मनस्विनः
अनार्यैः सह संवासो मम कृच्छ्रमतमो मतः ।। [Pरिन्तेदस्स्पुरिओउस्वेर्से इन फ़ूत्नोते इनेद्. EःJ.] ।।
इमेऽन्ये कर्मभिश्चित्रैश् चित्तविस्पन्दसंभवैः
तिर्यग्योनौ विचित्रायां उपपन्नास्तपस्विनः ।। १४.२१ ।।

मांसत्वग्बालदन्तार्थं वैरादपि मदादपि
हन्यन्ते (कृपणं कृपणा )यत्र बन्धूनां पश्यतां अपि ।। १४.२२ ।।

अशक्नुवन्तोऽप्यवशाः क्षुत्तर्षश्रमपीडिताः
गोअश्वभूताश्च वाह्यन्ते प्रतोदक्षतमूर्तयः ।। १४.२३ ।।

वाह्यन्ते गजभूताश्च बलीयांसोऽपि दुर्बलैः
अङ्कुशक्लिष्टमूर्धानस् ताडिताः पादपार्ष्णिभिः ।। १४.२४ ।।

सत्स्वप्यन्येषु दुःखेषु दुःखं यत्र विशेषतः
परस्परविरोधाच्च पराधीनतयैव च ।। १४.२५ ।।

खस्थाः खस्थैर्हि बाध्यन्ते जलस्था जलचारिभिः
स्थलस्थाः स्थलसंस्थैश्(च प्राप्य चैवेतरेतरैः तु प्राप्यन्ते चेतरेतरैः ) ।। १४.२६ ।।

उपपन्नास्तथा चेमे मात्सर्याक्रान्तचेतसः
पितृलोके निरालोके कृपणं भुञ्जते फलं ।। १४.२७ ।।

सूचीछिद्रोपममुखाः पर्वतोपमकुक्षयः
क्षुत्तर्षजनितैर्दुःखैः पीड्यन्ते दुःखभागिनः ।। १४.२८ ।।

आशया (समतिक्रान्ता समभिक्रान्ता धार्यमाणाः स्वकर्मभिः
लभन्ते न ह्यमी भोक्तुं प्रविद्धान्यशुचीन्यपि [थिस्वेर्से इस्प्लचेदफ़्तेर्१४.३० इनेद्. .] ।। १४.२९ ।।

पुरुषो यदि जानीत मात्सर्यस्येदृशं फलं
सर्वथा (शिबिवद्शिविवद्)दद्याछ् छरीरावयवानपि ।। १४.३० ।।

इमेऽन्ये (नरकप्रख्ये नरकं प्राप्य गर्भसंज्ञेऽशुचिह्रदे
उपपन्ना मनुष्येषु दुःखं अर्छन्ति जन्तवः ।। १४.३१ ।।