फलदीपिका/अष्टाविंशोऽध्यायः (उपसंहाराध्यायः)

विकिस्रोतः तः
← अध्यायः २७ ज्योतिषम्
फलदीपिका

            
 उपसंहाराध्याय
संज्ञाध्यायः कारको वर्गसंज्ञो
वीर्याध्यायः कर्मजिवाऽथ योगः |
योगो राज्ञां राशिशीलो ग्रहाणां
मेषादिनां लग्नसम्प्राप्तशीलः || १||
भार्याभावो जातक कमिनीना
सूनुर्बालारिष्टयोगोऽथ रोगः |
भावस्तस्माद्द्वादशावाप्तभावा
निर्याणं स्याद् द्विग्रहाद्याश्च तस्मात् || २||
सूर्यादीनां यत्फलं तदृशाप्तं
भावादीनामीश्वराङ्का दशा च |
सूर्यादीनामन्तराख्या दशाऽथ
सव्यासव्या कालचक्रोऽष्टवर्गः || ३||
होरासारावाप्तयद्यष्टवर्गो
मान्द्यध्यायो गोचर स्यात्प्रव्रज्यः |
अध्यायानां विंशतिः सप्तयुक्तान्
जन्मन्येतद्गोलजं संवदामि || ४||
श्रीशालिवाटिजातेन मया मन्त्रेश्वरेण वै |
दैवज्ञेन द्विजाग्रेण सतां ज्योतिर्विदां मुदे || ५||
सुकुन्तलाम्बां सम्पूज्य सर्वभीष्टप्रदायिनीम् |
तत्कटाक्षविशेषेण कृता या फलदीपिका || ६||