प्रकाशसंहिता/प्रथमपरिच्छेदः/अध्यायः ३

विकिस्रोतः तः
← प्रथमपरिच्छेदः, अध्यायः २ प्रकाशसंहिता
अध्यायः ३
[[लेखकः :|]]
प्रथमपरिच्छेदः, अध्यायः ४ →

श्रीहंस उवाच

जालरन्ध्रात्ग्रहाविष्टा सूर्यरश्मिप्रभा भुवि ।
यदा भवन्ति तस्याः समीपे तिर्गास्थितः ।। ३.१ ।।

केशं यदोद्गमयतो सो मर्त्यानां परमाणुकः ।
मर्त्योत्तमो भक्तिपाकात्महरादिषु संस्थितः ।। ३.२ ।।

यं कालं सूक्ष्मदृग्वेद स कालः परमाणुकः ।
तच्छतांशो हि देवानां तच्छतांशोब्जजस्य तु ।। ३.३ ।।

भूमौ स्थितानां मर्त्यानां यः कालः परमाणुकः ।
तच्छतांशो देवलोके स्थितस्य परमाणुकः ।। ३.४ ।।

तत्कोट्यंशो रमायाश्च तदनन्तांशको हरेः ।
परमाणुरिति प्रोक्तः तदन्यैर्न्यैव बुध्यते ।। ३.५ ।।

परमाणुद्वयात्मातु कालो द्व्यणुकरिरितः ।
परमाणुत्रयात्मस्य त्र्यणुकः परिकीर्तितः ।। ३.६ ।।

त्रुटिः त्रिभिश्च त्र्यणुकैः वेधः स्यात्तत्रयेण तु ।
लवोवेधत्रयात्मास्यात्निमेषस्तु त्रिभिर्लवैः ।। ३.७ ।।

क्षणस्त्रिनमिषः प्रोक्तः काष्ठाख्या क्षणपञ्चकात् ।
काष्ठाभिः पञ्चदशभिः लघुकालः प्रकीर्तितः ।। ३.८ ।।

लघुभिः पञ्चदशभिः विनाडिका प्रकीर्तिता ।
विनाडिका षष्ठिभिर्या नाडिकैका भविष्यति ।। ३.९ ।।

ताभ्यां मुहूर्तत्रिंशद्भिः अहोरात्रमितीरितं ।
अष्टमांशान्न्यूनसप्तघटिकाभिश्च सप्तभिः ।। ३.१० ।।

सपादसप्तभिर्वापि सार्धसप्तभिरेव वा ।
यामः कालोष्टभिर्वापि कालभेदेन चोदितः ।। ३.११ ।।

यामैश्चतुर्भिः अहः स्यात्तावद्भिर्यामिनीमता ।
अहोरात्रत्रिंशता च मासः पक्षद्वयात्मकः ।। ३.१२ ।।

ताभ्यां ऋतुस्तत्रयेणैवा अयनं परिकीर्तितं ।
कर्कादि कार्मुकान्तेषु यदा चरति भस्करः ।। ३.१३ ।।

दक्षिणायनमुद्धिष्टं देवानां रात्रिसंज्ञकं ।
यावन्नक्रादिके भानौ मिथुनान्तेषु तिष्ठति ।। ३.१४ ।।

उत्तरायणमुद्धिष्टं तावत्कालं विचक्षणैः ।
अयनाभ्यां वत्सरस्तु द्विषण्मासात्मकः स्मृतः ।। ३.१५ ।।

षष्ठ्युत्तरत्रिशतकैः अहोरात्रैश्च वत्सरः ।
अष्टाविंशत्सहस्रैस्तु लक्षसप्तदशाब्दतः ।। ३.१६ ।।

क्ळ्प्तः कृतयुगस्तस्मात्त्रेतापादोनमुच्यते ।
सहस्रषण्णवत्येतलक्षद्वादश संमितः ।। ३.१७ ।।

त्रेतायुगस्ततः पादन्यूनो द्वापररिरितः ।
चतुःषष्ठिसहस्रेत अष्टलक्षमितिस्मृतः ।। ३.१८ ।।

द्वापररात्तु कलिस्तस्मादर्धपादमितिस्मृतः ।
द्विषोडशसहस्रेताच्चतुर्लक्षात्मकः कलिः ।। ३.१९ ।।

कृतत्रेताद्वापरश्च कलिश्चेति चतुर्युगाः ।
चतुर्युगात्मकः कालो महायुग इतीर्यते ।। ३.२० ।।

विंशत्सहस्रेतलक्षत्रिचत्वारिंशदब्दकैः ।
क्ळ्प्तः कालः कालदृग्भिः महायुग इतीर्यते ।। ३.२१ ।।

षष्ठ्युत्तराब्दत्रिंशताद्देवानामब्दरिरितः ।
तादृगब्दसहस्राणां चतुष्कोणः कृताह्वयः ।। ३.२२ ।।

त्रेता तु त्रिसहस्राब्दा द्विसहस्राब्दसंमितः ।
द्वापरस्तु ततो न्यूनसहस्राब्दमितः कलिः ।। ३.२३ ।।

कृतस्यादौ कृतान्ते च पृथगब्दश्चतुःशतं ।
सन्धिस्त्रेतायुगाद्यन्ते पृथगब्दशतत्रयं ।। ३.२४ ।।

सन्धिस्तु द्वापराद्यन्ते पृथगब्दशतद्वयं ।
शताब्दःसंमितः कालः सन्धिराद्यन्तयोः कलेः ।। ३.२५ ।।

एवं दैवेन मानेन द्वदशाब्दाःसहस्रतः ।
क्ळ्प्तः कालः कालविद्भिः महायुग इतीर्यते ।। ३.२६ ।।

सार्धाष्टादशलक्षाब्दे युगानां एकसप्तति ।
मिलितो मनुसन्धातभोगकाल उदीरितः ।। ३.२७ ।।

द्विषट्शताब्दसमितो लयः स्वायम्भुवोत्तरः ।
स्वारोचिषादिकानान्तु षण्णामप्यन्तरे लयः ।। ३.२८ ।।

पञ्चादशशताब्दात्मा लयः काल उदीरितः ।
चतुर्दशशताब्दात्मा लयः काल उदाहृतः ।। ३.२९ ।।

तदन्य मन्वन्तरेषु नियमात्सर्वदैव तु ।
चतुर्युगसहस्रन्तु ब्रह्मणो दिन उ(दिवमु)च्यते ।। ३.३० ।।

रीत्रिश्च तावती तस्य अहोरात्रा तु तादृशा ।
षष्ठ्युत्तरत्रिशतकाद्वत्सरोऽजस्य कीर्तितः ।। ३.३१ ।।

एवं विधशताब्दात्मा कालोऽजस्यायुषो मतः ।
वासुदेवात्सूक्ष्मतनुं स्वशताब्दादिमे क्षणे ।। ३.३२ ।।

यः प्राप सशताब्दायुः तद्रूपाणीतराणि तु ।
मासत्रयाधिकादब्दषट्कात्पूर्वतनादभूथ् ।। ३.३३ ।।

सृज्यानां सूक्ष्मसांशानां सूक्ष्मसृष्टिश्चतुस्तनोः ।
सृष्टानां सूक्ष्मतः पूर्वं स्थूलदेहस्ततोऽभवथ् ।। ३.३४ ।।

नारायणादजाद्रुद्रात्क्रमात्कालानुसारतः ।
यावतां सूक्ष्मतः सृष्टिः स्थूलसृष्टिस्तु तावता ।। ३.३५ ।।

अण्डादूर्ध्वं चावृतयः स्थूलदेहाश्च तन्मयाः ।
आद्यस्य ब्रह्मणः पूर्वं पञ्चाशद्वत्सरान्ति मे ।। ३.३६ ।।

दिने व्यतीते तद्रात्रावण्डसृष्टिरथाभवत् ।
तदन्तः स्वपतो विष्णोर्जलमध्यगतस्य तु ।। ३.३७ ।।

नाभ्युत्थिताल्लोकमयात्प्राकृतात्पद्मकोशतः ।
पाद्मः ब्रह्मोत्थितःसार्धं सप्तत्रिंशच्चतन्मये ।। ३.३८ ।।

दिनान्तिमे निशायां च नाशोऽण्डस्य जगत्पतेः ।
व्युत्क्रमात्पूर्वमानेन स्थूलसूक्ष्मस्य नाशनं ।। ३.३९ ।।

एवं शतायुषः पूर्णेद्विपरार्धात्मकायुषी ।
स्वयं चात्मस्वरूपाणां एकीभावं करोत्यजः ।। ३.४० ।।

यावत्कालेनात्मसृष्टिरेकीभावस्तु तावता ।
एकीभूतेपि रमति तथैकीभूतमायया ।। ३.४१ ।।

तावत्कालं ततः पश्चात्सुप्तवत्स्वापयत्यजः ।
सार्धद्विषड्ब्रह्मवर्षमिति शिष्टे निशान्ति मे ।। ३.४२ ।।

भागे पुनः पूर्ववच्च आत्मसृष्ट्यादिमीश्वरः ।
करोति पुरुषस्तस्य नायुर्मानं विधीयते ।। ३.४३ ।।

एवं विधापरिमितानन्तानन्तपरात्मके ।
काले भाविन्यपि हरिः सृष्ट्यादीशः करिष्यति ।। ३.४४ ।।

स्वन्तन्त्रस्यास्य मर्यादा अस्वतन्त्रैर्न शक्यते ।
लङ्घितुं पूर्णशक्तेर्हि वशे सर्वं चराचरं ।। ३.४५ ।।

येऽनन्तकालतस्तस्य मृतिजन्मजरादयः ।
आयासदुःखदौर्भाग्यचिन्तासन्तापपूर्वकाः ।। ३.४६ ।।

अज्ञानेर्ष्यासूयपीडा कामक्रोधभयादयः ।
कृशतारोगदुरितपुण्यलेपादयस्तथा ।। ३.४७ ।।

आशाहानिश्च वृद्धिश्च क्षुत्तृट्कम्पादयस्तथा ।
नासन्दोषाः नोत्तरत्र भविष्यन्त्यखिलेश्वरे ।। ३.४८ ।।

तत्तद्दुर्जनसङ्घैश्च ये कल्प्याः दोषसञ्चयाः ।
तत्तद्विरोधि सुगुणानन्त्यपूर्णस्य मीलुषः ।। ३.४९ ।।

तद्दोषलेशगन्धोपि न विष्णोरिति निश्चयः ।
यः कालः परमाण्वादि द्विपरार्धावसानकः ।। ३.५० ।।

तेषु सर्वेषु कालेषु तत्तन्नाम्ना रमापतिः ।
तत्सामर्थ्यव्यञ्जकश्च स्थित्वा रक्षत्यजः प्रभुः ।। ३.५१ ।।

नित्यः कालप्रवाहोयमनित्यास्तु क्षणादयः ।
नष्टेषु सत्सुकालेषु वर्तमानेषु वै क्रमाथ् ।। ३.५२ ।।

अविनाश्य स्वरूपोसौ तत्प्रवाहस्य रक्षकः ।
शताब्दःसंमितः कालो ब्रह्मणः परसंज्ञकः ।। ३.५३ ।।

सकालस्तु निमेषाख्यः अहश्च परमेशितुः ।
इत्यज्ञजनबुद्धीनां शुद्ध्यर्थमुपचर्यते ।। ३.५४ ।।

अत आहुर्महाप्राज्ञाः कालतोनन्तमीश्वरं ।
अथापि परकालान्तं ब्रह्माणं जनयन्विभुः ।। ३.५५ ।।

अङ्गीकरोति तं कालमहोयदखिलेश्वरः ।
रात्रिमानादि शून्योपि तावन्तं कालमीश्वरः ।। ३.५६ ।।

रात्रित्वेन चरत्येवं ब्रह्मादीन्स्वापयत्यजः ।
निशायाश्चरमे भागे आत्मसृष्ट्यादिमीश्वरः ।। ३.५७ ।।

करोति पुरुषस्तस्य आयुर्मानं विधीयते ।
एवं विधापरिमितानन्तानन्तपरात्मकः ।। ३.५८ ।।

कालाव्यतीता सृष्ट्यादि कर्तुर्विष्णोः परात्मनः ।
स्वरूपेन्द्रियवद्योसौ कालोरूपादिवर्जितः ।। ३.५९ ।।

पूर्वपूर्वसु कालेषु नष्टेष्वन्ये भवन्ति हि ।
उत्तरत्रायास्यमानपरमाणुप्रवाहतः ।। ३.६० ।।

संयोज्यघटिकाद्यास्तु कालोज्ञेयः समानतः ।
घटिकायाममासाद्या नैकदा सम्भवन्ति हि ।। ३.६१ ।।

आयुर्मानविहीनस्यानन्तानन्तपरात्मकैः ।
विष्णोः कालानन्त्यमितौ कालज्ञान(नं)प्रयोजकं ।। ३.६२ ।।

वेदानामक्षराणाञ्च देशन्याव्याकृतस्य च ।
रमायाः सर्वजीवानां मुक्तानां लिङ्गसंयुजां ।। ३.६३ ।।

समस्तलिङ्गदेहानां जडायाः प्रकृतेस्तथा ।
एतेषामस्वतन्त्राणां स्वतन्त्रवशवर्तिनां ।। ३.६४ ।।

कालानन्त्यमितौ नित्यं कालज्ञान(नं)प्रयोजकं ।
अनित्या(अनन्ता)नां जडानां च सूक्ष्मस्थूलशरीरिणां ।। ३.६५ ।।

आयुर्माने शरीराणां कालज्ञनं प्रयोजकं ।
एवं कालगतिं जानन्कालभीतिं तरिष्यति ।। ३.६६ ।।

एकस्मिन्परकालेतु एकमण्डं जगद्गुरुः ।
दशावरणसंयुक्तं सृजत्यवति हन्त्यजः ।। ३.६७ ।।

नैकदाजाण्डबहुलं स्रष्टुमिच्छति केशवः ।
ब्रह्माणं गरुडं शेषं इद्रं प्राणं रविं सुरान् ।। ३.६८ ।।

एकमेकं हरिर्मुक्तं(क्त)परकाले करोत्यजः ।
तथाप्यजाण्डानन्तानां नियन्ताजाण्डरूपवान् ।। ३.६९ ।।

हरिः तादृङ्महारूपानन्तानन्तानि वै हरेः ।
रोमाङ्कुरेष्वनन्तेषु संवसन्तीति हि श्रुतिः ।। ३.७० ।।

तादृशानन्तरूपाणां अनन्त्यानन्त्ययोगतः ।
अधश्चोर्ध्वं चाष्टदिक्षु संयुक्तानामनन्तशः ।। ३.७१ ।।

रूपानन्त्यैरपूर्णोरु देशे पूर्णतनुर्हरिः ।
अत्यभिन्नोरुचित्सौख्यबलादि गुणविग्रहः ।। ३.७२ ।।

निर्विशेषः सर्वगतः सूक्ष्मस्थूलादिरूपकः ।
समशक्तिः समज्ञानबलादिशुभसद्गुणः ।। ३.७३ ।।

समाधिकविहीनश्च रमयानन्तरुपया ।
सहस्वाधीनया सत्याशेषचिज्जडभृद्धरिः ।। ३.७४ ।।

स्वभिन्नायाः श्रियाः भिन्नाः मुक्तामक्तासुचिद्गुणैः ।
भिन्नैर्नित्यजडैःसत्यैः भिन्नैः जीवेश्वरैः सदा ।। ३.७५ ।।

विभिन्नो विश्वतो विष्णुः देशतो गुणतो विभुः ।
अनन्तानन्तरूपेण अभिन्नोभिन्नवद्धरिः ।। ३.७६ ।।

पूर्णोपि जडचिद्रूपं सृजत्यवति हन्त्यजः ।। ३.७७ ।।

इति श्री परतत्तवनर्णये प्रकाशसंहितायां प्रथमपरिच्छेदे तृतीयोऽध्यायः