पुरुषसूक्तम्

विकिस्रोतः तः
पुरुषसूक्तम्
[[लेखकः :|]]
पुरुषसूक्तम्


|| श्री गणेशाय नम: ||

ॐ तच्छं योरावृणीमहे | गातुं यज्ञाय |
गातुं यज्ञपतये |
दैवी स्वस्तिरस्तु नः | स्वस्तिर्मानुषेभ्यः |
ऊर्ध्वं जिगातु भेषजम् |
शं नो अस्तु द्विपदे | शं चतुष्पदे ||

ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् |
स भूमिं विश्वतो वृत्वाSत्यतिष्ठ्द्दड्गुलम् || १ ||

पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् |
उतामृतत्वस्येशानो यद्न्नेनातिरोहति || २ ||

एतावानस्य महिमाSतो ज्यायांश्च पूरुषः |
पादोSस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि || ३ ||

त्रिपादूर्ध्व उदैत्पुरुषः पादोSस्येहाभवत्पुनः |
ततो विष्वड्व्यक्रामत्साशनानशने अभि || ४ ||

तस्माद्विराळजायत विराजो अधिपूरुषः |
स जातो अत्यरिच्यत पश्चाभ्दूमिमथो पुरः || ५ ||

यत्पुरुषेण हविषा देवा यज्ञमतन्वत |
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धवि: || ६ ||

तं यज्ञं बहिर्षि प्रौक्षन्पुरुषं जातमग्रतः |
तेन देवा अयजन्त साध्या ऋषयश्च ये || ७ ||

तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् |
पशून्तांश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये || ८ ||

तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे |
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत || ९ ||

तस्मादश्वा अजायन्त ये के चोभयादतः |
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः || १० ||

यत्पुरुषं व्यदधु: कतिधा व्यकल्पयन् |
मुखं किमस्य कौ बाहू का ऊरु पादा उच्येते || ११ ||

ब्राह्मणोSस्य मुखमासीद् बाहू राजन्यः कृतः |
ऊरुतदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत || १२ ||

चन्द्रमा मनसो जातश्चक्षो: सूर्यो अजायत |
मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत || १३ ||

नाभ्या आसीदन्तरिक्षं शीर्षणो द्यौ: समवर्तत |
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँअकल्पयन् || १४ ||

सप्तास्यासन्परिधयस्त्रि: सप्त समिधः कृता: |
देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् || १५ ||

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् |
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्या: सन्ति देवा: || १६ ||

"https://sa.wikisource.org/w/index.php?title=पुरुषसूक्तम्&oldid=312981" इत्यस्माद् प्रतिप्राप्तम्