पुटम्:Kumarasambhavam - Mallinatha - 1888.djvu/24
शेषाङ्गनिर्माणविधौ विधातु-
र्लावण्य उत्पाद्य इवास यत्नः ।। ३५ ।।
नाग्रेन्द्रहस्तास्त्वचि कर्कशत्वा-
देकान्तशैत्यात्कदलीविशेषाः ।
लब्ध्वापि लोके परिणाहि रुपं
जातास्तदूर्वोरुपमानबाह्याः ।। ३६ ।।
एतावता नन्वनुमेयशोभि
काञ्चीगुणस्थानमनिन्दितायाः ।
पूर्वसंपादितस्य च जङ्घार्थमेव कार्त्स्त्येन विनियोगात्पुनर्लावण्यसंपादने यत्नः स्यादेवेत्येतादृक्सौन्दर्ये दज्जङ्गे इति भावः । आसेति बभूवार्थे "तिङन्तप्रतिरुपकमव्ययम्" इत्याह शाकटायनः । वल्लभस्तु- "न तिङन्तप्रतिरुपकमव्ययम्" 'अस्तेर्भूः' इति भ्वादेशनियमात्तादृक्तिङन्तस्यैवाभावात् । किंतु कवीनामयं प्रामादिकः प्रयेगः" इत्याह । वामनस्तु- "अस गतिदोप्त्यादानेष्वितिः धातोर्लिटि रुपमिदम्" इत्याह । अस इत्यनुदात्तेद्दीप्त्यर्थे आस दिदीपे । प्रवृत्त इत्यर्थः ।। ३५ ।।
नागेन्द्रेति । नागेन्द्राणामैरावतादीनां हस्ताः करास्त्वचि चर्मणि कर्कशत्वात्कदलीविशेषा रामरम्भादय एकान्तशैत्यान्नियतशैत्याद्धेतोः लोके परिणाहि वैपुल्ययुक्तम् । "परिणाहो विशालता" इत्यमरः । रुपं लब्ध्वापि । अपिशब्दात्करिकदलीमात्रस्य तादृक्परिणाहो नास्तीति भावः । तस्या ऊर्वोस्तदूर्वोरुपमानबाह्या जाता उपमानक्रियानर्हा बभृवुः । तदूर्वोर्न कार्कश्यं नाप्येकान्तशैत्यमिति भावः ।। ३६ ।।
एतावतेति । अनिन्दिताया अनवद्यायाः पार्वत्याः काञ्चीगुणस्थानं नितम्बबिम्बमेतावता नन्वेतावतैव ।। "प्रश्नावधारणानु-