पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
काव्यमाला

न्तमतरद्विशाल्यां सौमित्रेरयमुपनिनायौषधिवनात् । इति स्मारं स्मारं त्वदरिवलभीचित्रलिखितं हनूमन्तं दन्तैर्दशति कुपितो राक्षसगणः । 'अत्र राक्षसगणवृत्तान्तो वाच्यः सन् स्वसिद्धये परं कारणरूपमरिपलायनाद्याक्षिपति । तत्पलायनाद्यन्तरेण राक्षसवृत्तान्तस्यासंगतेः । अप्रस्तुतप्रशंसा यथा - 'प्राणा येन समर्पितास्तव बलाद्येन त्वमुत्थापितः स्कन्धे यस्य चिरं स्थितोऽसि विदधे यस्ते सपर्यामपि । तस्यास्य स्मितमात्रकेण जनयन्प्राणापहारक्रियां भ्रातः प्रत्युपकारिणां धुरि परं वेताल लीलायसे । 'अत्र वेतालचरितमप्रस्तुतं प्रकरणादिवशेन स्वयमनुपपद्यमानं सत्प्रस्तुते कृतघ्न​वृत्तान्ते स्वं समर्पयति । समासोक्तिर्यथा - 'दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे । दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि ॥ 'अत्र बोधिसत्वे नायकव्यवहारो न संभवतीति स्वसिद्ध्यर्थे नायकत्वमाक्षिपति । आक्षेपो यथा -- किं भणिमो भण्णइ कित्ति अध किं वा इमेण भणिएण । भण्णिहिसि तहवि अहवा भणामि किं वा ण भणिओसि ॥ 'अत्र वक्ष्यमाणविषयो भणननिषेधो वाच्यः सन्वक्तुमेवोपंक्रान्तस्य निषेधानुपपत्तेः स्वयमविश्राम्यन्स्वात्मसमर्पणेन त्वां प्रति मरिष्यामि अथवा म्रिये यद्वा मृता यावदहमिति विधित्रयमर्थान्तरमाक्षिपति । यत्वत्रान्यैः 'वाच्योऽर्थः स्वसिद्वयेऽर्थान्तरमाक्षिपति' इत्युक्तं तदैयुक्तमेव । तथात्वे हि निषेध एव पर्यवसितः स्यान्न निषेधाभास इत्याक्षेपालंकार एव न स्यात् । आमुखावभासमानो हि निषेध आक्षेपलक्षणम् । न च विधिनिषेधयोर्विरोधात्साध्यसाधनभावो युक्तः । व्याजस्तुतिर्यथा - 'इहिणं पहुणो पहुणो पहुत्तणं किं चिरंतनपहूण । गुणदोसा दोसगुणा एहिँ कआ णहु कआ तेहिँ ॥ 'अत्र चिरंतनानां निन्दा वाच्या सती स्वयमनुपपद्यमाना स्तुतावात्मानमर्पयति । तद्ग​तत्वेन वस्तुदर्शिताया निन्दाया असंभवात् । एवमद्यतनानामपि स्तुतिर्निन्दायामात्मानमर्पयति । तस्या अपि विपरीततया तद्ग​तत्वेनासंभवात् । यत्पुनरत्रान्यैः स्वसिद्धये पराक्षेपो व्याख्यातस्तदुपेक्ष्यमेव । यतोऽत्र चिरंतनानां स्तुत्याक्षेपेण निषिद्धा निन्दैव प्रतीयेत अद्यतनानां च निन्दाक्षेपेण निषिद्धा स्तुतिरेवेति वाक्यार्थविप्रलोप एव पर्यवसितः स्यादिति नैतद्युक्तम् । किं च लक्षणायामपि स्वसिद्धये पराक्षेपो न युक्तः । तथात्वे हि लक्षणायाः स्वरूपहानिः स्यात् । वाच्यलक्षणस्यैव स्वस्य सिद्धत्वान्मुख्याथैवाधाभावात् । न चैकदा एकस्य बाधः सिद्धिश्चेति वक्तुं युक्तम् । विप्रतिषिद्धं ह्येतत् । वाच्यस्यैव यद्यत्र सिद्धिस्तदभिधैव स्यान्न लक्षणा । तस्या हि मुख्यार्थबाध एव जीवितम् । 'कुन्ताः प्रविशन्ति’ इत्यादौ च कुन्तानां स्वयं प्रवेष्टमसंभवान्मुख्यार्थबाध ए-


१. 'किं भणामो भण्यते किमिति अथ किं वा अनेन भणितेन । भणिष्यसे तथापि अथवा भणामि किं वा न भणितोऽसि ॥' इति च्छाया. २. 'विधिरूपं' ख. ३. 'तदयुक्तमेव । अत्र सम्यङिषेिधः न निषेधाभासः' ख. ४. 'अधुना प्रभवः प्रभवः प्रभुत्वं किं चिरंतनप्रभूणाम् । गुणदोषा दोषगुणा एभिः कृता न खलु कृता तैः ॥' इति च्छाया .