पाराशरगीता ५

विकिस्रोतः तः
२८३

[पराज़र]
प्रतिग्रहागता विप्रे क्षत्रिये शस्त्रनिर्जिताः।
वैश्ये न्यायार्जिताश्चैव शूद्रे शुश्रूसयार्जिताः।
स्वलाप्यर्थाः प्रशस्यन्ते धर्मस्यार्थे महाफलाः॥१॥

नित्यं त्रयाणां वर्णानां शूद्रः शुश्रूसुरुच्यते।
क्षत्रधर्मा वैश्य धर्मा नावृत्तिः पतति द्विजः।
शूद्र कर्मा यदा तु स्यात्तदा पतति वै द्विजः॥२॥

वानिज्यं पाशुपाल्यं च तथा शिल्पोपजीवनम्।
शूद्रस्यापि विधीयन्ते यदा वृत्तिर्न जायते॥३॥

रङ्गावतरणं चैव तथारूपोपजीवनम्।
मद्य मांसोपजीव्यं च विक्रयो लोहचर्मणोः॥४॥

अपूर्विणा न कर्तव्यं कर्म लोके विगर्हितम्।
कृतपूर्विणस्तु त्यजतो महान्धर्म इति श्रुतिः॥५॥

संसिद्धिः पुरुषो लोके यदाचरति पापकम्।
मदेनाभिप्लुत मनास्तच्च न ग्राह्यमुच्यते॥६॥

श्रूयन्ते हि पुराणे वै प्रजा धिग्दन्द शासनाः।
दान्ता धर्मप्रधानाश्च न्यायधर्मानुवर्तकाः॥७॥

धर्म एव सदा नॄणामिह राजन्प्रशस्यते।
धर्मवृद्धा गुणानेव सेवन्ते हि नरा भुवि॥८॥

तं धर्ममसुरास्तात नामृष्यन्त जनाधिप।
विवर्धमानाः क्रमशस्तत्र तेऽन्वाविशन्प्रजाः॥९॥

तेषां दर्पः समभवत्प्रजानां धर्मनाशनः।
दर्पात्मनां ततः क्रोधः पुनस्तेषामजायत॥१०॥

ततः क्रोधाभिभूतानां वृत्तं लज्जा समन्वितम्।
ह्रीश्चैवाप्यनशद्राजंस्ततो मोहो व्यजायत॥११॥

ततो मोहपरीतास्ते नापश्यन्त यथा पुरा।
परस्परावमर्देन वर्तयन्ति यथासुखम्॥१२॥

तान्प्राप्य तु स धिग्दण्डो न कारणमतोऽभवत्।
ततोऽभ्यगच्छन्देवांश्च ब्राह्मणांश्चावमन्य ह॥१३॥

एतस्मिन्नेव काले तु देवा देववरं शिवम्।
अगच्छञ्शरणं वीरं बहुरूपं गणाधिपम्॥१४॥

तेन स्म ते गगनगाः सपुराः पातिताः क्षितौ।
तिस्रोऽप्येकेन बानेन देवाप्यायित तेजसा॥१५॥

तेषामधिपतिस्त्वासीद्भीमो भीमपराक्रमः।
देवतानां भयकरः स हतः शूलपाणिना॥१६॥

तस्मिन्हतेऽथ स्वं भावं प्रत्यपद्यन्त मानवाः।
प्रावर्तन्त च वेदा वै शास्त्राणि च यथा पुरा॥१७॥

ततोऽभ्यसिञ्चन्राज्येन देवानां दिवि वासवम्।
सप्तर्षयश्चान्वयुञ्जन्नराणां दन्द धारणे॥१८॥

सप्तर्षीणामथोर्ध्वं च विपृथुर्नाम पार्थिवः।
राजानः क्षत्रियाश्चैव मन्दलेषु पृथक्पृथक्॥१९॥

महाकुलेषु ये जाता वृत्ताः पूर्वतराश् च ये।
तेषामथासुरो भावो हृदयान्नापसर्पति॥२०॥

तस्मात्तेनैव भावेन सानुषङ्गेन पार्थिवाः।
आसुराण्येव कर्माणि न्यसेवन्भीमविक्रमाः॥२१॥

प्रत्यतिष्ठंश्च तेष्वेव तान्येव स्थापयन्ति च।
भजन्ते तानि चाद्यापि ये बालिशतमा नराः॥२२॥

तस्मादहं ब्रवीमि त्वां राजन्सञ्चिन्त्य शास्त्रतः।
संसिद्धाधिगमं कुर्यात्कर्म हिंसात्मकं त्यजेत्॥२३॥

न सङ्करेण द्रविणं विचिन्वीत विचक्षणः।
धर्मार्थं न्यायमुत्सृज्य न तत्कल्यानमुच्यते॥२४॥

स त्वमेवंविधो दान्तः क्षत्रियः प्रियबान्धवः।
प्रजा भृत्यांश्च पुत्रांश्च स्वधर्मेणानुपालय॥२५॥

इष्टानिष्ट समायोगो वैरं सौहार्दमेव च।
अथ जातिसहस्राणि बहूनि परिवर्तते॥२६॥

तस्माद्गुणेषु रज्येथा मा दोषेषु कदा चन।
निर्गुणो यो हि दुर्बुद्धिरात्मनः सोऽरिरुच्यते॥२७॥

मानुषेषु महाराज धर्माधर्मौ प्रवर्ततः।
न तथान्येषु भूतेषु मनुष्यरहितेष्विह॥२८॥

धर्मशीलो नरो विद्वानीहकोऽनीहकोऽपि वा।
आत्मभूतः सदा लोके चरेद्भूतान्यहिंसयन्॥२९॥

यदा व्यपेतद्धृल्लेखं मनो भवति तस्य वै।
नानृतं चैव भवति तदा कल्यानमृच्छति॥३०॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. पाराशरगीता
    1. पाराशरगीता १
    2. पाराशरगीता २
    3. पाराशरगीता ३
    4. पाराशरगीता ४
    5. पाराशरगीता ५
    6. पाराशरगीता ६
    7. पाराशरगीता ७
    8. पाराशरगीता ८
    9. पाराशरगीता ९
  2. गीता

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=पाराशरगीता_५&oldid=17378" इत्यस्माद् प्रतिप्राप्तम्