पाणिनीयशिक्षा/सप्तमखण्डः

विकिस्रोतः तः
(पाणिनीयशिक्षा/सप्तमाखण्डः इत्यस्मात् पुनर्निर्दिष्टम्)
← खण्डः ६ पाणिनीयशिक्षा
खण्डः ७
पाणिनी
खण्डः ८ →

गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः ।
अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ।। ३२ ।।

माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः ।
धैर्यं लयसमर्थं च षडेते पाठकाः गुणाः ।। ३३ ।।

शङ्कितं भीतिमुद्घृष्टमव्यक्तमनुनासिकम् ।
काकस्वरं शिरसि गतं तथा स्थानविवजिर्तम् ।। ३४ ।।

उपांशु दष्टं त्वरितं निरस्तं विलम्बितं गद्गदितं प्रगीतम् ।
निष्पीडितं ग्रस्तपदाक्षरं च वदेन्न दीनं न तु सानुनास्यम् ।। ३५ ।।
 
प्रातः पठेन्नित्यमुरःस्थितेन स्वरेण शार्दूलरुतोपमेन ।
मध्यन्दिने कण्ठगतेन चैव चक्राह्वसङ्कूजितसन्निभेन ।। ३६ ।।

तारं तु विद्यात्सवनं तृतीयं शिरोगतं तच्च सदा प्रयोज्यम् ।
मयूरहंसान्यभृतस्वराणां तुल्येन नादेन शिरःस्थितेन ।। ३७ ।।