पाणिनीयशिक्षा/पञ्चमखण्डः

विकिस्रोतः तः
(पाणिनीयशिक्षा/पञ्चमाखण्डः इत्यस्मात् पुनर्निर्दिष्टम्)
← खण्डः ४ पाणिनीयशिक्षा
खण्डः ५
पाणिनी
खण्डः ६ →

स्वराणामूष्मणां चैव विवृतं करणं स्मृतम् ।
तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव च ।। २१ ।।

अनुस्वारयमानां च नासिका स्थानमुच्यते ।
अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ।। २२ ।।

अलाबुवीणानिर्घोषो दन्त्यमूल्यस्वराननु ।
अनुस्वारस्तु कर्तव्यो नित्यं ह्रोः शषसेषु च ।। २३ ।।

अनुस्वारे विवृत्त्यां तु विरामे चाक्षरद्वये ।
द्विरोष्ठ्यौ तु विगृह्णीयाद्यत्रोकारवकारयोः ।। २४ ।।

व्याघ्री यथा हरेत्पुत्रान्दंष्ट्राभ्यां न च पीडयेत् ।
भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत् ।। २५ ।।