पाणिनीयशिक्षा/द्वितीयखण्डः

विकिस्रोतः तः
(पाणिनीयशिक्षा/द्वितीयाखण्डः इत्यस्मात् पुनर्निर्दिष्टम्)
← खण्डः १ पाणिनीयशिक्षा
खण्डः २
पाणिनी
खण्डः ३ →

आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया ।
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ।। ६ ।।

मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् ।
प्रातःसवनयोगं तं छन्दो गायत्रमाश्रितम् ।। ७ ।।

कण्ठे माध्यन्दिनयुगं मध्यमं त्रैष्टुभानुगम् ।
तारं तार्तीयसवनं शीर्षण्यं जागतानुगम् ।। ८ ।।

सोदीर्णो मूर्ध्न्यभिहतो वक्त्रमापद्य मारुतः ।
वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः ।। ९ ।।

स्वरतः कालतः स्थानात्प्रयत्नानुप्रदानतः ।
इति वर्णविदः प्राहुर्निपुणं तन्निबोधत ।। १० ।। २ ।।