पाणिनीयशिक्षा/एकादशमखण्डः

विकिस्रोतः तः
(पाणिनीयशिक्षा/एकादशमाखण्डः इत्यस्मात् पुनर्निर्दिष्टम्)
← खण्डः १० पाणिनीयशिक्षा
खण्डः ११
पाणिनी

शङ्करः शाङ्करीं प्रादाद्दाक्षीपुत्राय धीमते ।
वाङ्मयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः ।। ५६ ।।

येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ।। ५७ ।।

येन धौता गिरः पुंसां विमर्लः शब्दवारिभिः ।
तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ।। ५८ ।।

अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः ।। ५९ ।।

त्रिनयनमभिमुखनिःसृतामिमां य इह पठेत्प्रयतस्सदा द्विजः ।
स भवति धनधान्यपशुपुत्रकीर्तिमान् सुखमतुलं च समश्नुते दिवीति दिवीति ।। ६० ।।

अथ शिक्षामात्मोदात्तश्च हकारं स्वराणां यथा ।
गीत्यचोस्पृष्टोदात्तं चाषस्तु शङ्कर एकादश ।। ६१ ।।

इति पाणिनीयशिक्षा समाप्ता