पाणिनीयशिक्षा/अष्टमखण्डः

विकिस्रोतः तः
(पाणिनीयशिक्षा/अष्टमाखण्डः इत्यस्मात् पुनर्निर्दिष्टम्)
← खण्डः ७ पाणिनीयशिक्षा
खण्डः ८
पाणिनी
खण्डः ९ →

अचोऽस्पृष्टा यणस्त्वीषन्नेमस्पृषष्टाः शलः स्मृताः ।
शेषाः स्पृष्टा हलः प्रोक्ता निबोधानुप्रदानतः ।। ३८ ।।

अमोनुनासिका नह्रौ नादिनो हझषः स्मृताः ।
ईषन्नादा यमो ङश्च श्वासिनस्तु खफादयः ।। ३९ ।।

ईषच्छ्वासांश्चरो विद्याद्गोर्धामैतत्प्रचक्षते ।
दाक्षीपुत्रः पाणिनिना येनेदं व्यापितं भुवि ।। ४० ।।

छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते ।
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ।। ४१ ।।

शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।
तस्मात्साङ्गमधीत्येव ब्रह्मलोके महीयते ।। ४२ ।।