परिव्रात् उपनिषद् (नारदपरिव्राजक)/उपदेशः ६

विकिस्रोतः तः
← उपदेशः ५ परिव्रात् उपनिषद् (नारदपरिव्राजक)
उपदेशः ६
[[लेखकः :|]]
उपदेशः ७ →

अथ नारदः पितामहमुवाच ।
भगवन् तदभ्यासवशात् भ्रमकीटन्यायवत्तदभ्यासः कथमिति ।
तमाह पितामहः ।
सत्यवाग्ज्ञानवैराग्याभ्यां विशिष्टदेहावशिष्टो
वसेत् । ज्ञानं शरीरं वैराग्यं जीवनं विद्धि
शान्तिदान्ती नेत्रे मनोमुखं बुद्धिः कला
पञ्चविंशतितत्त्वान्यवयव अवस्था
पञ्चमहाभूतानि कर्म भक्तिज्ञानवैराग्यं शाखा
जाग्रत्स्वप्नसुषुप्तितुरीयाश्चतुर्दशकरणानि
पङ्कस्तम्भाकाराणीति । एवमपि नावमतिपङ्कं कर्णधार
इव यन्तेव गजं स्वबुद्ध्या वशीकृत्य स्वव्यतिरिक्तं सर्वं
कृतकं नश्वरमिति मत्वा विरक्तः पुरुषः सर्वदा
ब्रह्माहमिति व्यवहरेन्नान्यत्किञ्चिद्वेदितव्यं स्वव्यतिरेकेण ।
जीवन्मुक्तो वसेत्कृतकृत्यो भवति । न नाहं ब्रह्मेति
व्यवहरेत्किन्तु ब्रह्माहमस्मीत्यजस्रं जाग्रत्स्वप्नसुषुप्तिषु ।
तुरीयावस्थां प्राप्य तुरीयातीतत्वं व्रजेद्दिवा जाग्रन्नक्तं
स्वप्नं सुषुप्तमर्धरात्रं गतमित्येकावस्थायां
चतस्रोऽवस्थास्त्वेकैककरणाधीनानां चतुर्दशकरणानां व्यापारश्चक्षुरादीनाम् ।
चक्षुषो रूपग्रहणं श्रोत्रयोः शब्दग्रहणं
जिह्वाया रसास्वादनं घ्राणस्य गन्धग्रहणं
वचसो वाग्व्यापारः पाणेरादानं पादयोः संचारः
पायोरुत्सर्ग उपस्थस्यानन्दग्रहणं त्वचः स्पर्शग्रहणम् ।
तदधीना च विषयग्रहणबुद्धिः बुद्ध्या बुद्ध्यति
चित्तेन चेतयत्यहङ्कारेणाहङ्करोति । विसृज्य जीव
एतान्देहाभिमानेन जीवो भवति । गृहाभिमानेन गृहस्थ
इव शरीरे जीवः संचरति । प्राग्दले पुण्यावृत्तिराग्नेयां
निद्रालस्यौ दक्षिणायां क्रौर्यबुद्धिर्नैरृत्यां पापबुद्धिः
पश्चिमे क्रीडारतिर्वायव्यां गमने बुद्धिरुत्तरे शान्तिरीशान्ये
ज्ञानं कर्णिकायां वैराग्यं केसरेष्वात्मचिन्ता इत्येवं
वक्त्रं ज्ञात्वा जीवदवस्थां प्रथमं जाग्रद्द्वितीयं
स्वप्नं तृतीयं सुषुप्तं चतुर्थं तुरीयं चतुर्भिर्विरहितं
तुरीयातीतम् । विश्वतैजसप्राज्ञतटस्थभेदैरेक एव एको देवः
साक्षी निर्गुणश्च तद्ब्रह्माहमिति व्याहरेत् ।
नो चेज्जाग्रदवस्थायां जाग्रदादिचतस्रोऽवस्थाः स्वप्ने
स्वप्नादिचतस्रोऽवस्थाः सुषुप्ते सुषुप्त्यादिचतस्रोऽवस्थाः
तुरीये तुरीयादिचतस्रोऽवस्थाः नत्वेवं तुरीयातीतस्य निर्गुणस्य ।
स्थूलसूक्ष्मकारणरूपैर्विश्वतैजसप्राज्ञेश्वरैः
सर्वावस्थासु साक्षी त्वेक एवावतिष्ठते । उत तटस्थो द्रष्टा
तटस्थो न द्रष्टा द्रष्टृत्वान्न द्रष्टैव कर्तृत्वभोक्तृत्व
अहङ्कारादिभिः स्पृष्टो जीवः जीवेतरो न स्पृष्टः । जीवोऽपि
न स्पृष्ट इति चेन्न । जीवाभिमानेन क्षेत्राभिमानः ।
शरीराभिमानेन जीवत्वम् । जीवत्वं घटाकाशमहाकाशव
द्व्यवधानेऽस्ति । व्यवधानवशादेव हंसः सोऽहमिति
मन्त्रेणोच्च्ह्वासनिःश्वासव्यपदेशेनानुसन्धानं करोति ।
एवं विज्ञाय शरीराभिमानं त्यजेन्न शरीराभिमानी भवति ।
स एव ब्रह्मेत्युच्यते।
त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः ।
पिधाय बुद्ध्या द्वाराणि मनो ध्याने निवेशयेत् ॥ १॥

शून्येष्वेवावकाशेषु गुहासु च वनेषु च ।
नित्ययुक्तः सदा योगी ध्यानं सम्यगुपक्रमेत् ॥ २॥

आतिथ्यश्राद्धयज्ञेषु देवयात्रोत्सवेषु च ।
महाजनेषु सिद्ध्यर्थी न गच्च्हेद्योगवित्क्वचित् ॥ ३॥

यथैनमवमन्यन्ते जनाः परिभवन्ति च ।
तथा युक्तश्चेद्योगी सतां वर्त्म न दूषयेत् ॥ ४॥

वाग्दण्डः कर्मदण्डश्च मनोदण्डश्च ते त्रयः ।
यस्यैते नियता दण्डाः स त्रिदण्डी महायतिः ॥ ५॥

विधूमे च प्रशान्ताग्नौ यस्तु माधुकरीं चरेत् ।
गृहे च विप्र्मुख्यानां यतिः सर्वोत्तमः स्मृतः ॥ ६॥

दण्डभिक्षां च यः कुर्यात्स्वधर्मे व्यसनं विना ।
यस्तिष्ठति न वैराग्यं याति नीचयतिर्हि सः ॥ ७॥

यस्मिन्गृहे विशेषेण लभेद्भिक्षां च वासनात् ।
तत्र नो याति यो भूयः स यतिर्नेतरः स्मृतः ॥ ८॥

यः शरीरेन्द्रियादिभ्यो विहीनं सर्वसाक्षिणम् ।
पारमार्थिक विज्ञानं सुखात्मानं स्वयंप्रभम् ॥ ९॥

परतत्त्वं विजानाति सोऽतिवर्णाश्रमी भवेत् ।
वर्णाश्रमादयो देहे मायया परिकल्पिताः ॥ १०॥

नात्मनो बोधरूपस्य मम ते सन्ति सर्वदा ।
इति यो वेद वेदान्तैः सोऽतिवर्णाश्रमी भवेत् ॥ ११॥

यस्य वर्णाश्रमाचारो गलितः स्वात्मदर्शनात् ।
स वर्णानाश्रमान्सर्वानतीत्य स्वात्मनि स्थितः ॥ १२॥

योऽतीत्य स्वाश्रमान्वर्णानात्मन्येव स्थितः पुमान् ।
सोऽतिवर्णाश्रमी प्रोक्तः सर्ववेदार्थवेदिभिः ॥ १३॥

तस्मादन्यगता वर्णा आश्रमा अपि नारद ।
आत्मन्यारोपिताः सर्वे भ्रान्त्या तेनात्मवेदिना ॥ १४॥

न विधिर्न निषेधश्च वर्ज्यावर्ज्य कल्पना ।
ब्रह्मविज्ञानिनामस्ति तथा नान्यच्च नारद ॥ १५॥

विरज्य सर्वभूतेभ्य आविरिञ्चिपदादपि ।
घृणां विपाठ्य सर्वस्मिन्पुत्रमित्रादिकेष्वपि ॥ १६॥

श्रद्धालुर्मुक्तिमार्गेषु वेदान्तज्ञानलिप्सया ।
उपायनकरो भूत्वा गुरुं ब्रह्मविदं व्रजेत् ॥ १७॥

सेवाभिः परितोष्यैनं चिरकालं समाहितः ।
सदा वेदान्तवाक्यार्थं श्रुणुयात्सुसमाहितः ॥ १८॥

निर्ममो निरहङ्कारः सर्वसङ्गविवर्जितः ।
सदा शान्त्यादियुक्तः सन्नात्मन्वात्मानमीक्षते ॥ १९॥

संसारदोषदृष्ट्यैव विरक्तिर्जायते सदा ।
विरक्तस्य तु संसारात्संन्यासः स्यान्न संशयः ॥ २०॥

मुमुक्षुः परहंसाख्यः साक्षान्मोक्षैकसाधनम् ।
अभ्यसेद्ब्रह्मविज्ञानं वेदान्तश्रवणादिना ॥ २१॥

ब्रह्मविज्ञानलाभाय परहंस समाह्वयः ।
शान्तिदान्त्यादिभिः सर्वैः साधनैः सहितो भवेत् ॥ २२॥

वेदान्ताभ्यासनिरतः शान्तो दान्तो जितेन्द्रियः ।
निर्भयो निर्ममो नित्यो निर्द्वन्द्वो निष्परिग्रहः ॥ २३॥

जीर्णकौपीनवासाः स्यान्मुण्डी नग्नोऽथवा भवेत् ।
प्राज्ञो वेदान्तविद्योगी निर्ममो निरहङ्कृतिः ॥ २४॥

मित्रादिषु समो मैत्रः समस्तेष्वेव जन्तुषु ।
एको ज्ञानी प्रशान्तात्मा स सन्तरति नेतरः ॥ २५॥

गुरूणां च हिते युक्तस्तत्र संवत्सरं वसेत् ।
नियमेष्वप्रमात्तस्तु यमेषु च सदाभवेत् ॥ २६॥

प्राप्य चान्ते ततश्चैव ज्ञानयोगमनुत्तमम् ।
अविरोधेन धर्मस्य संचरेत्पृथिवीमिमाम् ॥ २७॥

ततः संवत्सरस्यान्ते ज्ञानयोगमनुत्तमम् ।
आश्रमत्रयमुत्सृज्य प्राप्तश्च परमाश्रमम् ॥ २८॥

अनुज्ञाप्य गुरूंश्चैव चरेद्धि पृथिवीमिमाम् ।
त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः ॥ २९॥

द्वाविमौ न विरज्येते विपरीतेन कर्मणा ।
निरारम्भो गृहस्थश्च कार्यवांश्चैव भिक्षुकः ॥ ३०॥

माद्यति प्रमदां दृष्ट्वा सुरां पीत्वा च माद्यति ।
तस्माद्दृष्टिविषं नारीं दूरतः परिवर्जयेत् ॥ ३१॥

संभाषणं सह स्त्रीभिरालापः प्रेक्षणं तथा ।
नृत्तं गानं सहासं च परिवादांश्च वर्जयेत् ॥ ३२॥

न स्नानं न जपः पूजा न होमो नैव साधनम् ।
नाग्निकार्यादिकार्यं च नैतस्यास्तीह नारद ॥ ३३॥

नार्चनं पितृकार्यं च तीर्थयात्रा व्रतानि च ।
धर्माधर्मादिकं नास्ति न विधिर्लौकिकी क्रिया ॥ ३४॥

सन्त्यजेत्सर्वकर्माणि लोकाचारं च सर्वशः ।
कृमीकीटपतङ्गाश्च तथा योगी वनस्पतीन् ॥ ३५॥

न नाशयेद्बुधो जीवन्परमार्थमतिर्यतिः ।
नित्यमन्तर्मुखः स्वच्च्हः प्रशान्तात्मा स्वपूर्णधीः ॥ ३६॥

अन्तःसङ्गपरित्यागी लोके विहर नारद ।
नाराजके जनपदे चरत्येकचरो मुनिः ॥ ३७॥

निःस्तुतिर्निर्नमस्कारो निःस्वधाकार एव च ।
चलाचलनिकेतश्च यतिर्यादृच्च्हिको भवेदित्युपनिषत् ॥

इति षष्ठोपदेशः ॥ ६॥