नारायणीयम्/दशकम् ५९

विकिस्रोतः तः
← दशकम् ५८ नारायणीयम्
दशकम् ५९
[[लेखकः :|]]
दशकम् ६० →

त्वद्वपुर्नवकलायकोमळं प्रेमदोहनमशेषमोहनम् ।
ब्रह्मा तत्त्वपरचिन्मुदात्मकं वीक्ष्य सम्मुमुहुरन्वहं स्त्रियः ॥ ५९१ ॥

मन्मथोन्मथितमानसाः क्रमात्त्वद्विलोकनरतास्ततस्ततः ।
गोपिकास्तव न सेहिरे हरे काननोपगतिमप्यहर्मुखे ।। ५९२ ॥

निर्गते भवति दत्तदृष्टयस्त्वद्गतेन मनसा मृगेक्षणाः ।
वेणुनादमुपकर्ण्य दूरतस्त्वद्विलासकथयाभिरेमिरे ॥ ५९३॥

काननान्तमितवान्भवानपि स्निग्धपादपतले मनोरमे ।
व्यत्ययाकलितपादमास्थितः प्रत्यपूरयत वेणुनाळिकाम् ॥ ५९४॥

मारबाणधुतखेचरीकुलं निर्विकारपशुपक्षिमण्डलम् ।
द्रावणं च दृषदामपि प्रभो तावकं व्यजनि वेणुकूजितम् ॥ ५९५ ॥

वेणुरन्ध्रतरलाङ्गुलीदलं ताळसञ्चलितपादपल्लवम् ।
तत्स्थितं तव परोक्षमप्यहो संविचिन्त्य मुमुहुर्व्रजाङ्गनाः ॥ ५९६ ॥

निर्विशङ्कभवदङ्गदर्शिनीः खेचरीः खगमृगान्पशूनपि ।
त्वत्पदप्रणयि काननं च ताः धन्यधन्यमिति नन्वमानयन् ॥ ५९७ ॥

आपिषेयमधरामृतं कदा वेणुभुक्तरसशेषमेकदा ।
दूरतो बत कृतं दुराशयेत्याकुला मुहुरिमाः समामुहन् ॥ ५९८॥

प्रत्यहं च पुनरित्थमङ्गनाश्चित्तयोनिजनितादनुग्रहात् ।
बद्धरागविवशास्त्वयि प्रभो नित्यमापुरिह कृत्यमूढताम् ॥ ५९९ ॥

रागस्तावज्जायते हि स्वभावान्मोक्षोपाये यत्नतः स्यान्न वा स्यात् ।
तासां त्वेकं तद्द्वयं लब्धमासीद्भाग्यं भाग्यं पाहि मां मारुतेश ॥ ५९१० ॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_५९&oldid=32298" इत्यस्माद् प्रतिप्राप्तम्