नारायणीयम्/दशकम् ५६

विकिस्रोतः तः
← दशकम् ५५ नारायणीयम्
दशकम् ५६
[[लेखकः :|]]
दशकम् ५७ →

रुचिरकम्पितकुण्डलमण्डलः सुचिरमीश ननर्तिथ पन्नगे ।
अमरताडितदुन्दुभिसुन्दरं वियति गायति दैवतयौवते ॥ ५६१॥

नमति यद्यदमुष्य शिरो हरे परिविहाय तदुन्नतमुन्नतम् ।
परिमथन्पदपङ्करुहा चिरं व्यहरथाः करताळमनोहरम् ॥ ५६२ ॥

त्वदवभग्नविभुग्नफणागणे गलितशोणितशोणितपाथसि ।
फणिपताववसीदति सन्नतास्तदबलास्तव माधव पादयोः ॥ ५६३॥

अयि पुरैव चिराय परिश्रुतत्वदनुभावविलीनहृदो हि ताः ।
मुनिभिरप्यनवाष्यपथैः स्तवैर्नुनुवुरीश भवन्तमयन्त्रितम् ॥ ५६४ ॥

फणिवधूजनभक्तिविलोकनप्रविकसत्करुणाकुलचेतसा ।
फणिपतिर्भवताच्युत जीवितस्त्वजि समर्पितमूर्तिरवानमत् ॥ ५६५ ॥

रमणकं व्रजे वारिधिमध्यगं फणिरिपुर्न करोति विरोधिताम् ।
इति भवद्वचनान्यतिमानयन् फणिपतिर्निरगादुरगैः समम् ॥ ५६६ ॥

फणिवधूजनदत्तमणिव्रजज्वलितहारदुकूलविभूषितः ।
तटगतैः प्रमदाश्रुविमिश्रितैः समगथाः स्वजनैर्दिवसावधौ ॥ ५६७ ॥

निशि पुनस्तमसा व्रजमन्दिरं व्रजितुमक्षम एव जनोत्करे ।
स्वपति तत्र भवच्चरणाश्रये दवकृशानुररुन्ध समन्ततः ॥ ५६८ ॥

प्रबुधितानथ पालय पालयेत्युदयदार्तरवान् पशुपालकान् ।
अवितुमाशु पपाथ महानलं किमिह चित्रमयं खलु ते मुखम् ॥ ५६९ ॥

शिखिन वर्णत एव हि पीतता परिलसत्युधना क्रिययाऽप्यसौ ।
इति नुतः पशुपैर्मुदितैर्विभो हर हरे दुरितैः सह मे गदान् ॥ ५६१० ॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_५६&oldid=32294" इत्यस्माद् प्रतिप्राप्तम्