नारायणीयम्/दशकम् ५५

विकिस्रोतः तः
← दशकम् ५४ नारायणीयम्
दशकम् ५५
[[लेखकः :|]]
दशकम् ५६ →

दशकम् ५६ →


अथ वारिणि घोरतरं फणिनं
प्रतिवारयितुं कृतधीर्भगवन् ।
द्रुतमारिथ तीरगनीपतरुं
विषमारुतशोषितपर्णचयम् ॥ ५५१ ॥

अधिरुह्य पदाम्बुरुहेण च
तं नवपल्लवतुल्यमनोज्ञरुचा ।
ह्रदवारिणि दूरतरं न्यपतः
परिघूर्णितघोरतरङ्गगणे ॥ ५५२ ॥

भुवनत्रयभारभृतो भवतो
गुरुभारविकम्पिविजृम्भिजला ।
परिमज्जयति स्म धनुःशतकं
तटिनी झटिति स्फुटघोषवती ॥ ५५३ ॥

अथ दिक्षु विदिक्षु परिक्षुभित-
भ्रमितोदरवारिनिनादभरैः ।
उदकादुदगादुरगाधिपति-
स्त्वदुपान्तमशान्तरुषान्धमनाः ॥ ५५४॥

फणशृङ्गसहस्रविनिस्सृमर-
ज्वलदग्निकणोग्रविषाम्बुधरम् ।
पुरतः फणिनं समलोकयथा
बहुशृङ्गिणमञ्जनशैलमिव ॥ ५५५ ॥

ज्वलदक्षिपरिक्षरदुग्रविष-
श्वसनोष्मभरः स महाभुजगः ।
परिदश्य भवन्तमनन्तबलं
समवेष्टयदस्फुटचेष्टमहो ॥ ५५६ ॥

अविलोक्य भवन्तमथाकुलिते
तटगामिनि बालकधेनुगणे ।
व्रजगेहतलेऽप्यनिमित्तशतं
समुदीक्ष्य गता यमुनां पशुपाः ॥ ५५७ ॥

अखिलेषु विभो भवदीयदशा-
मवलोक्य जिहासुषु जीवभरम् ।
फणिबन्धनमाशु विमुच्य
जवादुदगम्यत हासजुषा भवता ॥ ५५८ ॥

अधिरुह्य ततः फणिराजफणा-
न्ननृते भवता मृदुपादरुचा ।
कलशिञ्जितनूपुरमञ्जुमिल-
त्करकङ्कणसंकुलसङ्क्वणितम् ॥ ५५९ ॥

जहृषुः पशुपास्तुतुषुर्मुनयो
ववृषुः कुसुमानि सुरेन्द्रगणाः ।
त्वयि नृत्यति मारुतगेहपते
परिपाहि स मां त्वमदान्तगदात् ॥ ५५१० ॥


"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_५५&oldid=316684" इत्यस्माद् प्रतिप्राप्तम्