नारदस्मृतिः/व्यवहारपदानि/निक्षिपः

विकिस्रोतः तः

स्वद्रव्यं यत्र विश्रम्भान्निक्षिपत्यविशङ्कितः ।
निक्षेपो नाम तत्प्रोक्तं व्यवहारपदं बुधैः । । २.०१ । ।

अन्यद्रव्यव्यवहितं द्रव्यं अव्याकृतं च यत् ।
निक्षिप्यते परगृहे तदौपनिधिकं स्मृतम् । । २.०२ । ।

स पुनर्द्विविधः प्रोक्तः साक्षिमानितरस्तथा ।
प्रतिदानं तथैवास्य प्रत्ययः स्याद्विपर्यये । । २.०३ । ।

याच्यमानस्तु यो दात्रा निक्षेपं न प्रयच्छति ।
दण्ड्यः स राज्ञा दाप्यश्च नष्टे दाप्यश्च तत्समम् । । २.०४ । ।

यश्चार्थं साधयेत्तेन निक्षेप्तुरननुज्ञया ।
तत्रापि दण्ड्यः स भवेत्तच्च सोदयं आवहेत् । । २.०५ । ।

ग्रहीतुः सह योऽर्थेन नष्टो नष्टः स दायिनः ।
दैवराजकृते तद्वन्न चेत्तज्जिह्मकारितम् । । २.०६ । ।

एष एव विधिर्दृष्टो याचितान्वाहितादिषु ।
शिल्पिषूपनिधौ न्यासे प्रतिन्यासे तथैव च । । २.०७ । ।

प्रतिगृह्णाति पोगण्डं यश्च सप्रधनं नरः ।
तस्याप्येष भवेद्धर्मः षडेते विधयः समाः । । २.०८ । ।