नारदस्मृतिः/व्यवहारपदानि/अस्वामिविक्रयः

विकिस्रोतः तः

निक्षिप्तं वा परद्रव्यं नष्टं लब्ध्वापहृत्य वा ।
विक्रीयतेऽसमक्षं यद्विज्ञेयोऽस्वामिविक्रयः । । ७.१ । ।

द्रव्यं अस्वामिविक्रीतं प्राप्य स्वामी समाप्नुयात् ।
प्रकाशं क्रयतः शुद्धिः क्रेतुः स्तेयं रहः क्रयात् । । ७.२ । ।

अस्वाम्यनुमताद्दासादसतश्च जनाद्रहः ।
हीनमूल्यं अवेलायां क्रीणंस्तद्दोषभाग्भवेत् । । ७.३ । ।

न गूहेतागमं क्रेता शुद्धिस्तस्य तदागमात् ।
विपर्यये तुल्यदोषः स्तेयदण्डं च सोऽर्हति । । ७.४ । ।

विक्रेता स्वामिनेऽर्थं च क्रेतुर्मूल्यं च तत्कृतम् ।
दद्याद्दण्डं तथा राज्ञे विधिरस्वामिविक्रये । । ७.५ । ।

परेण निहितं लब्ध्वा राजन्युपहरेन्निधिम् ।
राजगामी निधिः सर्वः सर्वेषां ब्राह्मणादृते । । ७.६ । ।

ब्राह्मणोऽपि निधिं लब्ध्वा क्षिप्रं राज्ञे निवेदयेत् ।
तेन दत्तं च भूञ्जीत स्तेनः स्यादनिवेदयन् । । ७.७ । ।

स्वं अप्यर्थं तथा नष्टं लब्ध्वा राज्ञे निवेदयेत् ।
गृह्णीयात्तत्र तं शुद्धं अशुद्धं स्यात्ततोऽन्यथा । । ७.८ । ।