दैवज्ञवल्लभा/अध्यायः १५ (लग्नचिन्ता)

विकिस्रोतः तः
(दैवज्ञ वल्लभा 15 इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १४ ज्योतिषम्
दैवज्ञवल्लभा


देहः कोशो योधो वाह्यं मंत्रः शत्रुर्मार्गोऽथायुः ।
चित्तं कर्म प्राप्तिमन्त्री प्राग्लग्नाद्या भावाश्चिन्त्याः ॥ १ ॥

त्रिलाभवर्जं रविसौरिभौमा निघ्नन्ति नो कर्म च सूर्यभौमौ ।
पुष्णन्ति सौम्या रिपुराशिवर्ज्यं नास्तं भृगुर्मृत्युमिनर्क्षमिन्दुः ॥ २ ॥

लग्नोपगतैः सौम्यैरारोग्यं वित्तसौख्यं च ।
अर्थस्थैरर्थचयो योधविवृद्धिस्तृतीयस्थैः ॥ ३ ॥

वाहनसुहृदां वृद्धिश्चतुर्थगैः पंचमैस्तु मन्त्रबलम् ।
रिपुनाशं षष्ठस्था भृगुवर्ज्यं सप्तमेऽध्वहिताः ॥ ४ ॥

रक्षत्यायुर्निधने शशिवर्ज्यं नवमभे यशः संपत् ।
कर्मणि सिद्धिर्लाभो बलसंघातश्च दश्माद्यैः ॥ ५ ॥

भौमार्कार्किशशांकैर्लग्ने वधबन्धमरणसंत्रासाः ।
अर्थक्षयो द्वितीयैस्तृतीय संस्थैर्यशो द्युतिमत् ॥ ६ ॥

वाहनमित्रवियोगो मन्त्रस्रावो रिपुक्षयश्चेति ।
हिबुकादिषु सप्तमगैः स्वविषयनाशो भृगुसुते च ॥ ७ ॥

मृत्युर्निधनोपगतैः सेनाव्यसनं महन्नवमस्थैः ।
दशमस्थौ कुजसूर्यौ जयदौ भङ्गप्रदः सौरिः ॥ ८ ॥

जय एकादशसंस्थैः क्रूरैरन्त्योपगैः स्वबलभेदः ।
उपचयवर्जं सौम्यैर्यत्तत्पापैर्विपर्यस्तम् ॥ ९ ॥

क्रूरोऽप्यनुकूलस्थः शस्तो लग्ने शुभोऽपि नानिष्टः ।
वक्री न शुभः केन्द्रे तदहस्तद्वर्गलग्नं च ॥ १० ॥

प्रश्नगतद्रेष्काणे राजा नेता द्वितीयेऽस्य ।
परतो गणपुरोहितभिषजां परतोऽस्य भृत्यानाम् ॥ ११ ॥

स्थानपराक्रमचिन्ता परतो व्यवहारनृपसैन्ये ।
अभ्यवहार्यं शयनासने च तत्पंचसु क्रमशः ॥ १२ ॥

यानासनशय्यावाहनानि दशमे परतोऽन्नपानानि ।
वाहनयोधाः परतस्त्रयोदशेऽपि युवराजः ॥ १३ ॥

ज्ञेयं बलं प्रयातुर्मन्त्रस्य निश्चयश्च तत्परतः ।
परतः पंचदशाद्ये द्रेष्काणचतुष्टये रिपवः ॥ १४ ॥

एकोनविंशतितमे सैनिकशयने क्षणानि परतोऽर्थः ।
परतोऽस्य दण्डनेता सैन्यस्योपद्रवः परतः ॥ १५ ॥

सेनाछिद्रं तस्मात्सेनानेता भवेच्चतुर्विंशे ।
सेनारोग्यं सैन्यं चतुःपटंच क्रमात्रितये ॥ १६ ॥

कार्यं कोशः फलसिद्धयस्त्रये भूभुजस्त्रये परतः ।
धर्मक्रियार्थयोधार्चनं च यात्रासमाप्तिश्च ॥ १७ ॥

इत्युदयाद्या भावाद्रेष्काणैर्ये मयाऽऽदिष्टाः ।
सदसत्फलमादेश्यं सदसद्युतवीक्षणात्तेषाम् ॥ १८ ॥

नवमांशे तिग्मांशोर्वाहननाशो विलग्नसंप्राप्ते ।
कृच्छ्रात् स्वगृहगमनं प्रतापमृदुला च चन्द्रांशे ॥ १९ ॥

कौजेऽग्निभयं बौधे मित्र प्राप्तिर्धनागमो जैवे ।
भोगविवृद्धि शौक्रे भृत्यविनाशो रविसुतांशे च ॥ २० ॥

यदुदयति फलं प्रदिष्टं जनयति तस्य नवांशको विलग्ने ।
शुभभवननवांशके सहायं रिपुबलभाग उपैति यातुरर्थात् ॥ २१ ॥

शुभर्क्षे तन्नवांशे च यो याति मनुजेश्वरः ।
शत्रुबलान्नेता साहाय्यमुपगच्छति ॥ २२ ॥

यत्प्रोक्तं राश्युदये द्वादशभागेऽपि तत्फलं वाच्यम् ।
यच्च नवांशकविहितं त्रिंशांशस्योदये तत्स्यात् ॥ २३ ॥

उदयमुदयपं वा जन्मपं जन्मभं वा तदुपचयगृहं वा वीक्ष्य लग्ने यियासोः ।
विनिहतमरिपक्षं विद्धि शत्रोरिदं वा यदि हिबुकसमेतं पृच्छतोऽस्तस्थितं वा ॥ २४ ॥

शत्रोर्होरा राशिस्तदधिपतिर्जन्मभं तदीशो वा ।
यद्यस्ते हिबुके वा तथापि शत्रुर्हतो वाच्यः ॥ २५ ॥

क्षुत्तृष्णार्तिर्मार्गनाशोऽक्षिरोगः क्लेशस्याप्तिस्तिग्मगोः प्राग्विल्ग्ने ।
शस्तं चान्द्रे देवतार्थं स्वदेशे कौजे पित्तव्यालशस्त्राग्निपीडाः ॥ २६ ॥

बौधे तुष्टिर्वांछिताप्तिर्यशश्च जैवेऽर्थाप्तिः स्थानलाभोऽरिनाशः ।
स्त्रीरत्नाप्तिः कार्यसिद्धिश्च शौक्रे मान्दे वाह्निव्याधिनीचापमाना ॥ २७ ॥

वृषवृश्चिककर्कटैर्नृणामनुकूलैरपि लग्नमाश्रितैः ।
गमनं च वदन्त्यशोभनं मुनयोऽन्त्यर्क्षसमाश्रितैरपि ॥ २८ ॥

मीने कुटिलो मार्गो भवति तदंशेऽन्यराशिलग्नेऽपि ।
नो यानमाप्यलग्ने कार्यं तेषां नवांशेऽपि ॥ २९ ॥

सर्वं प्रमाणं मुनिनोदितत्वात्किं त्वत्र होराबलमेव योग्यम् ।
यस्मिन्सहस्रांशुरवस्थितोऽर्धे तिर्यङ्मुखी सा गणयेत्ततोऽन्याः ॥ ३० ॥

धत्ते वांछितकार्यमूर्ध्ववदना क्लेशाद्विना लग्नगा
क्लेशायासपरिक्षयांश्चकुरुते तिर्यङ्मुखी गच्छतः ।
सैन्यभ्रंशमधोमुखी प्रकुरुते कृच्छ्राद्गृहे चागमं
सर्वाः पुष्टफलप्रदाः स्वपतिना दृष्टा न पापग्रहैः ॥ ३१ ॥

आरुद्रमीशा रविभौमजीव विद्भार्गवैनीन्दव इत्यतोऽगुः ।
 यामार्धमिन्द्रानिलकालशंभुतोयाग्निचन्द्रासुरमध्यतोऽन्यत् ॥ ३२ ॥

वार प्रवृत्तेर्घटिका द्विनिघ्नाः कालाख्यहोरापतयः शराप्ताः ।
दिनाधिपाद्या रविशुक्रसौम्यशशांक सौरीज्यकुजाः क्रमेण ॥ ३३ ॥

व्यतिपातविष्टिवैधृतिपापग्रहलग्नदिवसेषु ।
चौर्यावस्कन्दानृतसंग्रामाः सिद्धिमायान्ति ॥ ३४ ॥

प्राच्यादिदिक्षु मेषाद्याः स्वपंचनवमैर्युताः ।
तत्रगे यामिनीनाथे तदाशागच्छतोऽग्रतः ॥ ३५ ॥

ओजदण्डे पुरश्चन्द्रे पृष्ठेराहौ रणेजयः ।
सिद्धिर्दक्षिणगे चन्द्रे हानिर्वामे परे मृतिः ॥ ३६ ॥

यात्रादिगीशाद्यदि पंचमेऽन्यो गृहे ग्रहो वीर्ययुतोऽवतिष्ठेत् ।
समुद्यताशाकथितानि भङ्क्ता फलानि वीर्यान्नयति स्वकाष्ठाम् ॥ ३७ ॥

एकोऽपि जीवज्ञसिताऽसितानां कुजात्त्रिकोणे रवितोऽथवेन्दुः ।
यत्रोद्यतस्तत्र न याति याता तयोर्बलीयान्नयति स्वकाष्ठाम् ॥ ३८ ॥

परस्परं सौरिकुजौ रवीन्दू त्रिकोणगौ भार्गवलोहितौ च ।
फलं यदुक्तं तदशेषमेव विनाश्य पश्चात्स्वदिशं नयेताम् ॥ ३९ ॥

ताराग्रहश्चेत्क्षितिजात्त्रिकोणे सूर्यादपि स्याद्यदि वा शशांकः ।
दिगीश्वरात्पंचमगो बली वा ग्रहः स्वकाष्ठां नयति प्रसह्य ॥ ४० ॥

दृष्टाऽदृष्टफलाप्त्यै शास्त्रं हृदये निधाय मिहिरस्य ।
दैवज्ञवल्लभाख्यं दृष्ट्वा प्रश्नं वदेत्तज्ज्ञः ॥ ४१ ॥

यदुपचितमन्यजन्मनि शुभाऽशुभं तस्य कर्मणः पंक्तिम् ।
व्यञ्जयति शास्त्रमेतत् तमसि द्रव्याणि दीप इव ॥ ४२ ॥

आदित्यदासतनयस्तदवाप्तबोधः कापित्थलः सवितृलब्धवरप्रसादः ।
आवन्तिको मुनिमतान्यवलोक्य यत्नादेतां वराहमिहिरो रचयांचकार ॥ ४३ ॥