दैवज्ञवल्लभा/अध्यायः ११ (वृष्टिनिर्णयः)

विकिस्रोतः तः
(दैवज्ञ वल्लभा 11 इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १० ज्योतिषम्
दैवज्ञवल्लभा
अध्यायः १२ →

चन्द्रार्कयोः शनिसितौ यदि सप्तमस्थौ तुर्येऽष्टमे च भवतो यदि वा विलग्नात्।
स्यातां धने च सहजे यदि तौ विलग्नाद्वर्षासु वर्षणमचिरेण तदा विधत्तः॥ १॥

पक्षे सिते सलिलराशिगताः शुभाश्चेत् केन्द्रद्वितीयसहजालयगाश्च सम्यक्।
चन्द्रोऽथवा सलिलराशिविलग्नगश्चेत् वृष्टिं वदेन्नियतमेव तदा धरित्र्याम्॥ २॥

कर्कटमृगमीनानामुदये चन्द्रं सितोऽपि वृष्टिकरः।
तद्वत्केन्द्रोपगतौ सितचन्द्रौ वा शुभैर्दृष्टौ॥ ३॥

शीतद्युतिः सलिलराशि विलग्नगामी वीर्यान्वितेन भृगुजेन निरीक्ष्यमाणः।
वृष्टिं करोति महतीं भृगुजोऽपितद्वच्छीतांशुना बलयुतेन विलोकितश्चेत्॥ ४॥