दैवज्ञवल्लभा/अध्यायः १ (प्रश्नावतारः)

विकिस्रोतः तः
(दैवज्ञ वल्लभा 01 इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
ज्योतिषम्
दैवज्ञवल्लभा
अध्यायः २ →

नत्वोद्गिरन्तमनलं भैरवमद्वैतमीश्वरं नृहरिम्।
वराहेणैषा क्रियते प्रश्ने दैवज्ञवल्लभारचना॥ १॥

दीप्ताद्यं दशभेदं व्योमचराणां निरूप्य भावफलम्।
पृष्टो यद्यत्कथयति शुभाशुभं तत्तदन्यथा नोक्तम्॥ २॥

दीप्तो दीनः स्वस्थो मुदितः सुप्तः प्रपीडितो मुषितः।
परिहीयमानवीर्यः प्रवृद्धवीर्योऽधिवीर्यश्च॥ ३॥

स्वोच्चे दीप्तो नीचे दीनः स्वगृहे व्यवस्थितः स्वस्थः।
मुदितो मित्रगृहस्थो रिपुगेहस्थो भवेत्सुप्तः॥ ४॥

अन्यैर्विजितो युद्धे निपीडितोऽस्तंगतो मुषितः।
परिहीयमानवीर्यो नीचाभिमुखं प्रसर्पश्च॥ ५॥

गच्छन् स्वोच्चाभिमुखं प्रवृधवीर्यः समाख्यातः।
शुभवर्गस्थः खेटोऽधिकवीर्यो विपुलरश्मिश्च॥ ६॥

दीप्ते सिद्धिरनुत्तमा नरपतेर्दीने च दैन्यागमः
स्वस्थे स्वे मनसि स्थितं च भवति श्रीकीर्तिसौख्यादिकम्।
आमोदो मुदिते यथेप्सितफलप्राप्तिः प्रसुप्ते विप-
-त्पीडाशत्रुकृता प्रपीडिततनौ मोषं गतेऽर्थक्षयः॥ ७॥

भवति प्रवृद्धवीर्ये गजतुरंगसुवर्णभूलाभः।
तद्वदधिवीर्ययुक्ते शक्तित्रयसंपदादिबाहुल्यम्॥ ८॥

पुष्पैः फलैः कनकरत्नयुतैः स्वभूमौ
नक्षत्रजातिसहितं ग्रहराशिचक्रम्।
श्रद्धां अभ्यर्च्यं भक्तिभरबंधुकंधराग्रः
विधाय निजचेतसि निर्विकल्पे॥ ९॥

प्रातः पुमान्विहितदेवगुरुप्रणामः पाणौ
वहन् कुसुमरत्नफलाक्षताश्च।
सत्कृत्य दैवविदमादरमादधानः
पृच्छेत्सकृच्छुभमनाः शुभदिङ्मुखस्थः॥ १०॥

प्रश्नाक्षरैरुदयहेतुभिरुल्लसद्भिर्बाह्यस्थितैश्च
शकुनैरधिगम्य सम्यक।
प्रष्टुः शुभं च यदि वाप्यशुभं प्रयत्नात्तत्कालजं
तदिह दैवविदाऽभिधेयम्॥ ११॥

फलभरकुसुमाभिरामभूमिरुहभुवि गोमयपुष्पतोयवत्याम्।
चरणसुखकृति प्रपृच्छतां स्यादभिमतसिद्धिरसंशयेन पुंसाम्॥ १२॥

दृक्चेतसोः सुखकरी यदि भूमिरस्ति
मांगल्यवस्तुविषये शुभदर्शने चेत्।
प्रच्छाविधौ शुभमुपस्थितमादरेण
तत्रापि वाच्यमिति वक्ति मयो मणित्थः॥ १३॥