दैवज्ञवल्लभा/अध्यायः १३ (स्त्रीपुंजन्म)

विकिस्रोतः तः
(दैवज्ञवल्लभा 13 इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १२ ज्योतिषम्
दैवज्ञवल्लभा
अध्यायः १४ →


स्थिरे विलग्ने स्थिरलग्नगामिभिर्ग्रहैः शुभैश्चापि विलोकिते च।
भृतं युवत्या ध्रुवमेव गर्भं ब्रूयादिति श्रीयवनाधिनाथः॥ १॥

लग्नतो विषमराशिगः शनिः पुत्रजन्मनि भवेत्सकारणम्।
स्त्रीजनिश्च समगे शनैश्चरे प्राह दिव्यगणको बृहस्पतिः॥ २॥

पुरुषवर्गगते च तथोदये नरनभोगतिनाऽभिनिरीक्षिते।
बलिनि निश्चितमेव सुतोद्भवो वरमपीह शुभं लभतेऽङ्गना॥ ३॥

उदयगते स्त्रीराशौ स्त्रीनवभागेऽपि पुंग्रहाऽदृष्टे।
स्त्रीजन्म भवति तद्वत्स्त्रीद्रेष्काणोदये यवनः॥ ४॥

ओजर्क्षे पुरुषांशकेषु बलिभिर्लग्नार्कगुर्विन्दुभिः
पुंजन्म प्रवदेत्समांशकगतैर्युग्मेषु तैर्योषितः।
गुर्वर्कौ विषमे नरं शशिसितौ वक्रश्च युग्मे स्त्रियं
धीलाभोपगतैः शुभैरुदयतः स्त्री गर्भयुक्ता ध्रुवम्॥ ५॥

चन्द्रलग्नान्तरगतैर्ग्रहैः स्युरूपसूतिकाः।
बहिरन्तश्च चक्रार्धे दृश्याऽदृश्याऽन्यथा परे॥ ६॥

बलयुक्तौ स्वगृहांशेष्वर्कसितावुपचयर्क्षगौ पुंसाम्।
स्त्रीणां वा कुजचन्द्रौ यदा तदा सम्भवति गर्भः॥ ७॥

सौरांशेऽब्जांशे वा चन्द्रः सौरान्वितोऽथवा हिबुके।
शान्तो दीपो जन्मन्याधाने प्रश्नकाले वा॥ ८॥

पापद्वयमध्यसंस्थितौ लग्नेन्दूः न च सौम्यवीक्षितौ।
युगपत्पृथगेव वा वदेन्नारी गर्भयुता विपद्यते॥ ९॥

भृगुसुतो वसुधातनयो गुरुर्दिनपतिः शशभृद्रविनन्दनः।
शशिसुतोऽपि च लग्नपतीरविः शशधरोऽपि च मासपतिः क्रमात्॥ १०॥

एते यदा शत्रुगृहे वसन्ति युद्धे जिताः शत्रुभिरस्तगा वा।
अन्यत्र वा पीडितदेहभाजो गर्भस्थ पातं जनयन्ति खेटाः॥ ११॥

रक्तस्तीक्ष्णतनुर्दिनेश उदितः सौन्दर्यवान् शीतगुः
क्रूराक्षोधरणीसुतोऽतिविनयी सोमात्मजोऽपि स्मृतः।

जीवः पण्डितमण्डलीषु सहितः शुक्रश्च काणः शनिः
खञ्जो लग्नसमन्वितो निजफलं दत्ते बलं चिन्त्याम्॥ १२॥