दैवज्ञवल्लभा/अध्यायः ३ (लाभाऽलाभौ)

विकिस्रोतः तः
(दैवज्ञवल्लभा 03 इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः २ ज्योतिषम्
दैवज्ञवल्लभा
अध्यायः ४ →


लाभास्तपंचसहजेषु शुभग्रहाः स्युर्लाभप्रदा ददति नेष्टफलानि पापाः।
स्थानं शुभा दशमसप्तमगाश्च दद्युर्मानार्थदा द्वितीयपंचमलग्नगाश्च॥ १॥

चन्द्रं सप्तदशद्विषष्ठसहजायस्थानसंस्थं शुभः
पश्येद्वै प्रमदाकृतं शुभफलं लाभादिकं

स्यात्तदा।
लग्नाष्टत्रिनवात्मजेषु च भयं कायार्थनाशोऽशुभै-
-रेतेष्वेव गताः शुभास्तु शुभदा
मानार्थसम्पत्तये॥ २॥

त्रिकोणकेन्द्रालयगाः शुभग्रहास्तथाऽशुभाश्च त्र्यरिलाभगा यदि।
भवन्ति लाभाय तदाऽऽशु पृच्छतां विपर्ययस्थास्तु न लाभदा अमी॥ ३॥

चन्द्रश्चतुर्थे यदि सप्तमे शुभो विलग्नगो वा दशमे विवस्वान्।
सद्योऽर्थलाभो मनुजस्य वाच्यस्तदेति सत्यो बलिरेवमाह॥ ४॥

वृषहर्य्यालिघटैः स्थानप्राप्तिं वदेन्न चरराशौ।
द्वितनौ लग्नोपगते चरस्थिरोक्तं फलं दलतः॥ ५॥