देवि उपनिषद्
Wikisource इत्यस्मात्
देवी उपनिषत्
॥ अथ देव्युपनिषत् ॥
अथर्ववेदीय शाक्तोपनिषत् ॥
-
- श्रीदेव्युपनिषद्विद्यावेद्यापारसुखाकृति ।
- त्रैपदं ब्रह्मचैतन्यं रामचन्द्रपदं भजे ॥
- श्रीदेव्युपनिषद्विद्यावेद्यापारसुखाकृति ।
-
- ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
- स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
- स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
- स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
-
- ॐ शान्तिः शान्तिः शान्तिः ॥

- सर्वे वै देवा देवीमुपतस्थुः । कासि त्वं महादेवि ॥ १ ॥

- साब्रवीदहं ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं जगच्छून्यं चाशून्यं च ।
- अहमानन्दानानन्दाः विज्ञानाविज्ञानेऽहम् । ब्रह्मा ब्रह्मणी वेदितव्ये । इत्याहाथर्वणी श्रुतिः ॥ २ ॥
- साब्रवीदहं ब्रह्मस्वरूपिणी । मत्तः प्रकृतिपुरुषात्मकं जगच्छून्यं चाशून्यं च ।
-
-
-
-
-
- अहं पञ्चभूतान्यपञ्चभूतानि । अहमखिलं जगत् । वेदोऽहमवेदोऽहम् ।
- विद्याहमविद्याहम् । अजाहमनजाहम् । अधश्चोर्ध्वं च तिर्यक्चाहम् ॥ ३ ॥
- अहं पञ्चभूतान्यपञ्चभूतानि । अहमखिलं जगत् । वेदोऽहमवेदोऽहम् ।
-
-
-
-
-
- अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
- अहं मित्रावरुणावुभौ बिभर्म्यहमिन्द्राग्नी अहमश्विनावुभौ ॥ ४ ॥
- अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
-
-
-
-
-
- अहं सोमं त्वष्टारं पूषणं भगं दधाम्यहम् ।
- विष्णुमुरुक्रमं ब्रह्माणमुत प्रजापतिं दधामि ॥ ५ ॥
- अहं सोमं त्वष्टारं पूषणं भगं दधाम्यहम् ।
-
-
-
-
-
- अहं दधामि द्रविणं हविष्मते सुप्राव्ये३यजमानाय सुन्वते ।
- अहं राष्ट्री सङ्गमनी वसूनामहं सुवे पितरमस्य मूर्धन् ॥ ६ ॥
- अहं दधामि द्रविणं हविष्मते सुप्राव्ये३यजमानाय सुन्वते ।
-
-
-
-
-
- मम योनिरप्स्वन्तः समुद्रे । य एवं वेद स देवीपदमाप्नोति ॥ ७ ॥

- ते देवा अब्रुवन् । नमो देव्यै महादेव्यै शिवायै सततं नमः ।
- नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ ८ ॥
- ते देवा अब्रुवन् । नमो देव्यै महादेव्यै शिवायै सततं नमः ।
-
-
-
-
-
- तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् ।
- दुर्गां देवीं शरणमहं प्रपद्ये सुतरां नाशयते तमः ॥ ९ ॥
- तामग्निवर्णां तपसा ज्वलन्तीं वैरोचनीं कर्मफलेषु जुष्टाम् ।
-
-
-
-
-
- देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति ।
- सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुपसुष्टुतैतु ॥ १० ॥
- देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति ।
-
-
-
-
-
- कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् ।
- सरस्वतीमदितिं दक्षदुहितरं नमामः पावनां शिवाम् ॥ ११ ॥
- कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्दमातरम् ।
-
-
-
-
-
- महालक्ष्मीश्च विद्महे सर्वसिद्धिश्च धीमहि ।
- तन्नो देवी प्रचोदयात् ॥ १२ ॥
- महालक्ष्मीश्च विद्महे सर्वसिद्धिश्च धीमहि ।
-
-
-
-
-
- अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव ।
- तां देवा अन्वजायन्त भद्रा अमृतबन्धवः ॥ १३ ॥
- अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव ।
-
-
-
-
-
- कामो योनिः कामकला वज्रपाणिर्गुहा हसा मातरिश्वाभ्रमिन्द्रः ।
- पुनर्गुहा सकला मायया च पुरूच्येषा विश्वमाताऽऽदिविद्योम् ॥ १४ ॥
- कामो योनिः कामकला वज्रपाणिर्गुहा हसा मातरिश्वाभ्रमिन्द्रः ।
-
-
-
-
-
- एषात्मशक्तिः । एषा विश्वमोहिनी
- पाशाङ्कुशधनुर्बाणधरा । एषा श्रीमहाविद्या ॥ १५ ॥
- एषात्मशक्तिः । एषा विश्वमोहिनी
-
-
-
-
-
- य एवं वेद स शोकं तरति ॥ १६ ॥
- य एवं वेद स शोकं तरति ॥ १६ ॥
-
-
-
-
-
- नमस्ते अस्तु भगवति भवती मातरस्मान्पातु सर्वतः ॥ १७ ॥

- सैषाष्टौ वसवः । सैषैकादश रुद्राः । सैषा द्वादशादित्याः । सैषा विश्वेदेवाः सोमपा असोमपाश्च । सैषा यातुधाना असुरा रक्षांसि पिशाचा यक्षाः सिद्धाः ।
- सैषा सत्त्वरजस्तमांसि । सैषा ब्रह्मविष्णुरुद्ररूपिणी । सैषा प्रजापतीन्द्रमनवः । सैषा ग्रहा नक्षत्रज्योतींषि कलाकाष्ठादिकालरूपिणी । तामहं प्रणौमि नित्यम् ॥ १८ ॥
- सैषाष्टौ वसवः । सैषैकादश रुद्राः । सैषा द्वादशादित्याः । सैषा विश्वेदेवाः सोमपा असोमपाश्च । सैषा यातुधाना असुरा रक्षांसि पिशाचा यक्षाः सिद्धाः ।
-
-
-
-
-
- तापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् ।
- अनन्तां विजयां शुद्धां शरण्यां शिवदां शिवाम् ॥ १९ ॥
- तापापहारिणीं देवीं भुक्तिमुक्तिप्रदायिनीम् ।
-
-
-
-
-
- वियदाकारसंयुक्तं वीतिहोत्रसमन्वितम् ।
- अर्धेन्दुलसितं देव्या बीजं सर्वार्थसाधकम् ॥ २० ॥
- वियदाकारसंयुक्तं वीतिहोत्रसमन्वितम् ।
-
-
-
-
-
- एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः ।
- ध्यायन्ति परमानन्दमया ज्ञानाम्बुराशयः ॥ २१ ॥
- एवमेकाक्षरं मन्त्रं यतयः शुद्धचेतसः ।
-
-
-
-
-
- वाङ्माया ब्रह्मभूस्तस्मात्षष्ठं वक्त्रसमन्वितम् ।
- सूर्योऽवामश्रोत्रबिन्दुः संयुक्ताष्टात्तृतीयकः ॥ २२ ॥
- वाङ्माया ब्रह्मभूस्तस्मात्षष्ठं वक्त्रसमन्वितम् ।
-
-
-
-
-
- नारायणेन संयुक्तो वायुश्चाधरसंयुतः ।
- विच्चे नवार्णकोऽर्णः स्यान्महदानन्ददायकः ॥ २३ ॥
- नारायणेन संयुक्तो वायुश्चाधरसंयुतः ।
-
-
-
-
-
- हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् ।
- पाशाङ्कुशधरां सौम्यां वरदाभयहस्तकाम् । त्रिनेत्रां रक्तवसनां भक्तकामदुघां भजे ॥ २४ ॥
- हृत्पुण्डरीकमध्यस्थां प्रातःसूर्यसमप्रभाम् ।
-
-
-
-
-
- नमामि त्वामहं देवीं महाभयविनाशिनीम् ।
- महादुर्गप्रशमनीं महाकारुण्यरूपिणीम् ॥ २५ ॥
- नमामि त्वामहं देवीं महाभयविनाशिनीम् ।
-
-
-
-
-
- यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यतेऽज्ञेया । यस्या अन्तो न विद्यते तस्मादुच्यतेऽनन्ता । यस्या ग्रहणं नोपलभ्यते तस्मादुच्यतेऽलक्ष्या । यस्या जननं नोपलभ्यते तस्मादुच्यतेऽजा । एकैव सर्वत्र वर्तते तस्मादुच्यत एका । एकैव विश्वरूपिणी तस्मादुच्यते नैका । अत एवोच्यतेऽज्ञेयाऽनन्ताऽलक्ष्याऽजैका नैकेति ॥ २६ ॥

- मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी ।
- ज्ञानानां चिन्मयातीता शून्यानां शून्यसाक्षिणी ॥ २७ ॥
- मन्त्राणां मातृका देवी शब्दानां ज्ञानरूपिणी ।
-
-
-
-
-
- यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ।
- तां दुर्गां दुर्गमां देवीं दुराचारविघातिनीम् । नमामि भवभीतोऽहं संसारार्णवतारिणीम् ॥ २८ ॥
- यस्याः परतरं नास्ति सैषा दुर्गा प्रकीर्तिता ।
-
-
-
-
-
- इदमथर्वशीर्षं योऽधीते पञ्चाथर्वशीर्षजपफलमवाप्नोति ।
- इदमथर्वशीर्षं ज्ञात्वा योऽर्चां स्थापयति ॥ २९ ॥
- इदमथर्वशीर्षं योऽधीते पञ्चाथर्वशीर्षजपफलमवाप्नोति ।
-
-
-
-
-
- शतलक्षं प्रजप्त्वापि नार्चासिद्धिं च विन्दति ।
- शतमष्टोत्तरं चास्याः पुरश्चर्याविधिः स्मृतः ॥ ३० ॥
- शतलक्षं प्रजप्त्वापि नार्चासिद्धिं च विन्दति ।
-
-
-
-
-
- दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते ।
- महादुर्गाणि तरति महादेव्याः प्रसादतः ॥ ३१ ॥
- दशवारं पठेद्यस्तु सद्यः पापैः प्रमुच्यते ।
-
-
-
-
-
- प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति । तत्सायं प्रातः प्रयुञ्जानः पापोऽपापो भवति । निशीथे तुरीयसन्ध्यायां जप्त्वा वाक्सिद्धिर्भवति । नूतनप्रतिमायां जप्त्वा देवतासान्निध्यं भवति । प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति । भौमाश्विन्यां महादेवीसन्निधौ जप्त्वा महामृत्युं तरति। य एवं वेदेत्युपनिषत् ॥ ३२ ॥
- प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायमधीयानो दिवसकृतं पापं नाशयति । तत्सायं प्रातः प्रयुञ्जानः पापोऽपापो भवति । निशीथे तुरीयसन्ध्यायां जप्त्वा वाक्सिद्धिर्भवति । नूतनप्रतिमायां जप्त्वा देवतासान्निध्यं भवति । प्राणप्रतिष्ठायां जप्त्वा प्राणानां प्रतिष्ठा भवति । भौमाश्विन्यां महादेवीसन्निधौ जप्त्वा महामृत्युं तरति। य एवं वेदेत्युपनिषत् ॥ ३२ ॥
-
-
-
- ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
- स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
- स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
- स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
-
- ॐ शान्तिः शान्तिः शान्तिः ॥
- ॐ शान्तिः शान्तिः शान्तिः ॥
-
- ॐ भद्रं कर्णेभिः शृणुयाम देवाः भद्रं पश्येमाक्षभिर्यजत्राः ।
-
-
-
-
-
- ॥ इति श्रीदेव्युपनिषत्समाप्ता ॥
-
-
-
-