सुभाषितरत्नकोशः/३९ दीनव्रज्या

विकिस्रोतः तः
(दीनव्रज्या (सुभाषितरत्नकोशः) इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
← ३८ असद्व्रज्या सुभाषितरत्नकोशः
३९ दीनव्रज्या
विद्याकरः
४० अर्थान्तरन्यासव्रज्या →

ततो दीनव्रज्या

प्रातर् बाष्पाम्बुबिन्दुव्यतिकरविगलत्क्लिन्नसृक्कः कथंचित् किंचित् संकुब्जजङ्घाजनितजडजवो जीर्णजानुर् जरार्तः /
मुष्ट्यावष्टभ्य यष्टिं कटिपुटविचटत्कर्पटः प्लुष्टकन्थः कुन्थन्न् उत्थाय पान्थः पथि परुषमरुन्मूर्छ्यमानः प्रयाति ३९.१ (१३०४)

पुण्याग्नौ पूर्णवाञ्छः प्रथमम् अगणितप्लोषदोषः प्रदोषे पान्थस् तप्त्वा प्रसुप्तस् तदनु तततृणे धामनि ग्रामदेव्याः /
उत्कम्पी कर्पटार्धे जरति परिजडे छिद्रिणि च्छिन्ननिद्रो वाते वाति प्रकामं हिमकणिनि कणन् कोणतः कोणम् एति ३९.२ (१३०५)
बाणस्यैतौ

पोतान् एतान् अपि गृहवति ग्रीष्ममासावसानं यावन् निर्वाहयति भवती येन वा केनचिद् वा /
पश्चाद् अम्भोधरजलपरीपातम् आसाद्य तुम्बी कूष्माण्डी च प्रभवति तदा भूभुजः के वयं के ३९.३ (१३०६)
धरणीधरस्य

क्षुत्क्षामाः शिशवः शवा इव तनुर् मन्दादरो बान्धवो लिप्ता जर्जरकर्करी जतुलवैर् नो मां तथा बाधते /
गेहिन्या स्फुटितांशुकं घटयितुं कृत्वा सकाकु स्मितं कुप्यन्ती प्रतिवेशिनी प्रतिदिनं सूचीं यथा याचिता ३९.४ (१३०७)

साक्रन्दाः शिशवः सपत्रपुटका वप्तुः पुरोवर्तिनः प्रच्छन्ने च वधूर् विभागकुशला मध्ये स्थिता गेहिनी /
कट्याच्छादनबन्धकेन कथम् अप्य् आसादितेनान्धसा सिन्दूरारुणमण्डले सवितरि प्राणाहुतिर् दीयते ३९.५ (१३०८)

एते दरिद्रशिशवस् तनुजीर्णकन्थां स्कन्धे निधाय मलिनां पुलकाकुलाङ्गाः /
सूर्यस्फुरत्करकरम्बितभित्तिदेश- लाभाय शीतसमये कलिम् आचरन्ति ३९.६ (१३०९)

तस्मिन्न् एव गृहोदरे रसवती तत्रैव सा कण्डनी तत्रोपस्करणानि तत्र शिशवस् तत्रैव वासः स्वयम् /
एतत् सोढवतो ऽपि दुःस्थगृहिणः किं ब्रूमहे दुर्दशाम् अद्य श्वो विजनिष्यमाणगृहिणी तत्रैव यत् कुन्थति ३९.७ (१३१०)

अद्याशनं शिशुजनस्य बलेन जातं श्वो वा कथं नु भवितेति विचिन्तयन्ती /
इत्य् अश्रुपातमलिनीकृतगण्डदेशा नेच्छेद् दरिद्रगृहिणी रजनीविरामम् ३९.८ (१३११)

सक्तूञ् शोचति सम्प्लुतान् प्रतिकरोत्य् आक्रन्दतो बालकान् प्रत्युत्सिञ्चति कर्परेण सलिलं शय्यातृणं रक्षति /
दत्त्वा मूर्धनि शीर्णशूर्पशकलं जीर्णे गृहे व्याकुला किं तद् यन् न करोति दुःस्थगृहिणी देवे भृशं वर्षति ३९.९ (१३१२)
योगेश्वरस्य

जरदम्बरसंवरणग्रन्थिविधौ ग्रन्थकार एको ऽहम् /
परिमितकदन्नवण्टनविद्यापारंगता गृहिणी ३९.१० (१३१३)
वीरस्य

मा रोदीश् चिरम् एहि वत्स विफलं दृष्ट्वाद्य पुत्रान् इमान् आयातो भवतो ऽपि दास्यति पिता ग्रैवेयकं वाससी /
श्रुत्वैवं गृहिणीवचांसि निकटे कुड्यस्य निःकिंचनो निश्वस्याश्रुजलफुतानतमुखः पान्थः पुनः प्रोषितः ३९.११ (१३१४)

कूष्माण्डीविटपः फलत्य् अविरतं सिक्तः सुवर्णाम्बुना भूयोभिर् गदितं हितैषिभिर् इतीवास्माभिर् अङ्गीकृतम् /
तत् संयाच्य कुतश्चिद् ईश्वरगृहाद् आनीयमानं शनैर् अध्वन्य् एव हि बिन्दुभिर् विगलितं श्राणे शरावोदरे ३९.१२ (१३१५)

मातर् धर्मरते कृपां कुरु मयि श्रान्ते च वैदेशिके द्वारालिन्दककोणकेषु निभृतः स्थित्वा क्षिपामि क्षपाम् /
इत्य् एवं गृहिणीप्रचण्डवदनावाक्येन निर्भर्त्सितः स्कन्धे न्यस्तपलालमुष्टिविभवः पान्थः शनैर् गच्छति ३९.१३ (१३१६)

लग्नः शृङ्गयुगे गृही सतनयो वृद्धौ गुरू पार्श्वयोः पुच्छाग्रे गृहिणी स्वरेषु शिशवो लग्ना वधूः कम्बले /
एकः शीर्णजरद्गवो विधिवशात् सर्वस्वभूतो गृहे सर्वेणैव कुटुम्बकेन रुदता सुप्तः समुत्थाप्यते ३९.१४ (१३१७)

शीतवातसमुद्भिन्न- पुलकाङ्कुरशालिनी /
ममाम्बरविहीनस्य त्वग् एव पटिकायते ३९.१५ (१३१८)

सद्यो विभिद्यते नूनं दरिद्रतनुपञ्जरम् /
यदि न स्यान् मनोराज्य- रज्जुभिर् दृढसंयतम् ३९.१६ (१३१९)

प्रायो दरिद्रशिशवः परमन्दिराणां द्वारेषु दत्तकरपल्लवलीनदेहाः /
लज्जानिगूढवचसो बत भोक्तुकामा भोक्तारम् अर्धनयनेन विलोकयन्ति ३९.१७ (१३२०)

अध्वश्रमाय चरणौ विरहाय दारा अभ्यर्थनाय वचनं च वपुर् जरायै /
एतानि मे विदधतस् तव सर्वदैव धातस् त्रपा यदि न किं न परिश्रमो ऽपि ३९.१८ (१३२१)

वर्धनमुखासिकायाम् उदरपिशाचः किम् इच्छकाम् इच्छन् /
पर्याकुलयति गृहिणीम् अकिंचनः कृपणसंवासः ३९.१९ (१३२२)

वरं मृतो न तु क्षुद्रस् तथापि महद् अन्तरम् /
एकस्य बन्धुर् नादत्ते नामान्यस्याखिलो जनः ३९.२० (१३२३)

कृपणस्यास्तु दारिद्र्यं कार्पण्यावृतिकारकम् /
विभवस् तस्य तद्दोष- घोषणापटुडिण्डिमः ३९.२१ (१३२४)
व्यासस्य

जीवतापि शवेनापि कृपणेन न दीयते /
मांसं वर्धयतानेन काकस्योपकृतिः कृता ३९.२२ (१३२५)
कविराजस्य

श्रीफलं यन् न तद् दीर्घम् इति तावद् व्यवस्थितम् /
तत्रैकान्तधृतिर् यस्य मन्यते मुग्ध एव स ३९.२३ (१३२६)
रिसूकस्य

दृढतरनिबद्धमुष्टेः कोषनिषण्णस्य सहजमलिनस्य /
कृपणस्य कृपाणस्य च केवलम् आकारतो भेदः ३९.२४ (१३२७)
गोभट्टस्य

पथिक हे विजहीहि वृथार्थितां न खलु वेत्सि नवस् त्वम् इहागतः /
इदम् अहिभ्रमितं पचमन्दिरं बलिभुजो ऽपि न यान्ति यदन्तिकम् ३९.२५ (१३२८)

रवेर् अस्तमये येन निद्रा नेत्रेषु निर्मिता /
तेन किं न कृतो मृत्युर् मर्त्यानां विभवक्षये ३९.२६ (१३२९)

येनैवाम्बरखण्डेन दिवा संचरते रविः /
तेनैव निशि शीतांशुर् अहो दौर्गत्यम् एतयोः ३९.२७ (१३३०)

मलीमसेन देहेन प्रतिगेहम् उपस्थिताः /
आत्मनैवात्मकथका वयं वायसवृत्तयः ३९.२८ (१३३१)

भूयाद् अतो बहुव्रीहि- शासनाशा मुधैव मे /
पूर्वापरापरामर्शाद् विमूढस्येव मे मतिः ३९.२९ (१३३२)

इति दीनव्रज्या|| ३९